Lord Shiva Ashtakam 4 In Sanskrit

॥ Shiva Ashtakam 4 Sanskrit Lyrics ॥

॥ शिवाष्टकम् ४ ॥

जय शङ्कर शान्त शशाङ्करुचे रुचितार्थद सर्वद सर्वरुचे ।
शुचिदत्तगृहीतमहोपहृते हृतभक्तजनोद्धततापतते ॥ १ ॥

ततसर्वहृदम्बरवरदनुते नतवृजिनमहावनदाहकृते ।
कृतविविधचरित्रतनो सुतनो तनु विशिखविशोषणधैर्यनिधे ॥ २ ॥

निधनादिविवर्जितकृतनतिकृत्कृतविहितमनोरथपन्नगभृत् ।
नगभर्तृसुतार्पितवामवपुः स्ववपुःपरिपूरितसर्वजगत् ॥ ३ ॥

त्रिजगन्मयरूप विरूपसुदृगृगुदञ्चनकिञ्चनकृद्धुतभुक् ।
भवभूतपते प्रमथैकपते पतितेष्वतिदत्तकरप्रसृते ॥ ४ ॥

प्रसृताखिलभूतलसंवरणप्रणवध्वनिसौधसुधांशुधर ।
गिरिराजकुमारिकया परया परितः परितुष्ट नतोऽस्मि शिव ॥ ५ ॥

शिव देव महेश गिरीश विभो विभवप्रद शर्व शिवेश मृड ।
मृडयोडुपतीध्रजगत्त्रितयं कृतयन्त्रण भक्तिविघातकृताम् ॥ ६ ॥

न कृतान्तत एष बिभेमि हर प्रहराशु ममाघममोघमते ।
न मतान्तरमन्यमवैमि शिवं शिवपादनतेः प्रणतोऽस्मि ततः ॥ ७ ॥

विततेऽत्र जगत्यखिलाघहरं परितोषणमेव परं गुणवत् ।
गुणहीनमहीनमहावलयं लयपावकमीश नतोऽस्मि ततः ॥ ८ ॥

इति स्तुत्वा महादेवं विररामाङ्गिरःसुतः ।
व्यतरच्च महादेवः स्तुत्या तुष्टो वरान् बहून् ॥ ९ ॥

इति शिवाष्टकं समाप्तम् ॥

– Chant Stotra in Other Languages –

Sri Siva Slokam » Lord Shiva Ashtakam 4 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Maheshwara Pancharatna Stotram In Tamil