Nama Yugalashtakam In Sanskrit

॥ Nama Yugalashtakam Sanskrit Lyrics ॥

नामयुगलाष्टकम्

अथ श्रीराधामाधवयोर्नामयुगलाष्टकम् ।
श्रीश्रीराधाकृष्णाभ्यां नमः ।
राधामाधवयोरेतद् वक्ष्ये नामयुगाष्ट्कम् ।
राधादामोदरौ पूर्वं राधिकामाधवौ ततः ॥ १ ॥

वृषभानुकुमारी च तथा गोपेन्द्रनन्दनः ।
गोविन्दस्य प्रियसखी गान्धर्वाबान्धवस्तथा ॥ २ ॥

निकुञ्जनागरौ गोष्ठकिशोरजनशेखरौ ।
वृन्दावनाधिपौ कृष्णवल्लभाराधिकाप्रियौ ॥ ३ ॥

इति श्रीरूपगोस्वामिविरचितस्तवमालायां
श्रीराधामाधवयोर्नामयुगाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Nama Yugalashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Manmahaprabhorashtakam Shrisvarupacharitamritam In Sanskrit