भुवन-केलिकला-रसिके शिवे
झटिति झञ्झण-झङ्कृत-नूपूरे ।
ध्वनिमयं भव-बीजमनश्वरं
जगदिदं तव शब्दमयं वपुः ॥ १॥
विविध-चित्र-विचित्रमद्भुतं
सदसदात्मकमस्ति चिदात्मकम् ।
भवति बोधमयं भजतां हृदि
शिव शिवेति शिवेति वचोऽनिशम् ॥ २॥
जननि मञ्जुल-मङ्गल-मन्दिरं
जगदिदं जगदम्ब तवेप्सितम् ।
शिव-शिवात्मक-तत्त्वमिदं परं
ह्यहमहो नु नतोऽस्मि नतोऽस्म्यहम् ॥ ३॥
स्तुतिमहो किल किं तव कुर्महे
सुरगुरोरपि वाक्पटुता कुतः ।
इति विचार्य परे परमेश्वरि
ह्यहमहो नु नतोऽस्मि नतोऽस्म्यहम् ॥ ४॥
चिति चमत्कृतिचिन्तनमस्तु मे
निजपरं भवभेद-निकृन्तनम् ।
प्रतिपलं शिवशक्तिमयं शिवे
ह्यहमहो नु नतोऽस्मि नतोऽस्म्यहम् ॥ ५॥
इति श्रीदत्तात्रेयानन्दनाथविरचितं प्रणतिपञ्चकं सम्पूर्णम् ।