Putrapraptikaram Mahalaxmi Stotram In Sanskrit

॥ Putrapraptikaram Mahalaxmi Stotram Sanskrit Lyrics ॥

॥ पुत्रप्राप्तिकरं श्रीमहालक्ष्मीस्तोत्रम् ॥
अनाद्यनन्तरूपां त्वां जननीं सर्वदेहिनाम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ १ ॥

नामजात्यादिरूपेण स्थितां त्वां परमेश्वरीम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ २ ॥

व्यक्ताव्यक्तस्वरूपेण कृत्स्नं व्याप्य व्यवस्थिताम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ३ ॥

भक्तानन्दप्रदां पूर्णां पूर्णकामकरीं पराम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ४ ॥

अन्तर्याम्यात्मना विश्वमापूर्य हृदि संस्थिताम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ५ ॥

सर्पदैत्यविनाशार्थं लक्ष्मीरूपां व्यवस्थिताम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ६ ॥

भुक्तिं मुक्तिं च या दातुं संस्थितां करवीरके ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ७ ॥

सर्वाभयप्रदां देवीं सर्वसंशयनाशिनीम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ८ ॥

॥ इति श्रीकरवीरमाहात्म्ये पराशरकृतं पुत्रप्राप्तिकरं
श्रीमहालक्ष्मीस्तोत्रं सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Sri Lakshmi Devi Slokam » Putrapraptikaram Mahalaxmi Stotram Lyrics in Sanskrit » English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu

See Also  Sri Ganesha Namashtaka Stotram In Sanskrit