Shambhustavah In Marathi

॥ Shambhu Stavah in Marathi ॥

॥ शंभुस्तव ॥
शंभुस्तवः ।

कैलासशैलनिलयात्कलिकल्मषघ्ना-
च्चन्द्रार्धभूषितजटाद्वटमूलवासात ।
नम्रोत्तमाङ्गविनिवेशितहस्तपद्मा-
च्छंभोः परं किमपि दैवमहं न जाने ॥ 1 ॥

नाकाधिनाथकरपल्लवसेविताङ्घ्रे-
र्नागास्यषण्मुखविभासितपार्श्वभागात ।
निर्व्याजपूर्णकरुणान्निखिलामरेड्या-
च्छंभोः परं किमपि दैवमहं न जाने ॥ 2 ॥

मौनीन्द्ररक्षणकृते जितकालगर्वात-
पापाब्धिशोषणविधौ जितवाडवाग्नेः।
माराङ्गभस्मपरिलेपनशुक्लगात्रा-
च्छंभोः परं किमपि दैवमहं न जाने ॥ 3 ॥

विज्ञानमुद्रितकराच्छरदिन्दुशुभ्रा-
द्विज्ञानदाननिरताज्जडपङ्क्तयेऽपि ।
वेदान्तगेयचरणाद्विधिविष्णुसेव्या-
च्छंभोः परं किमपि दैवमहं न जाने ॥ 4 ॥

इति शंभुस्तवः संपूर्णः ॥

– Chant Stotra in Other Languages –

Shambhustavah in English – Marathi – Gujarati । BengaliKannadaMalayalamTelugu

See Also  Dwadasa Jyotirlinga Stotram In Kannada