Shiva Mahima Ashtakam In Sanskrit

॥ Siva Mahima Ashtakam Sanskrit Lyrics ॥

 ॥ श्रीशिवमहिमाष्टकम् ॥ 

सुरवृन्दमुनीश्वरवन्द्यपदो हिमशैलविहारकरो रुचिरः ।
अनुरागनिधिर्मणिसर्पधरो जयतीह शिवः शिवरूपधरः ॥ १ ॥

भवतापविदग्धविपत्तिहरो भवमुक्तिकरो भवनामधरः ।
धृतचन्द्रशिरो विषपानकरो जयतीह शिवः शिवरूपधरः ॥ २ ॥

निजपार्षदवृन्दजयोच्चरितः करशूलधरोऽभयदानपरः ।
जटया परिभूषितदिव्यतमो जयतीह शिवः शिवरूपधरः ॥ ३ ॥

वृषभाङ्गविराजित उल्लसितः कृपया नितरामुपदेशकरः ।
त्वरितं फलदो गणयूथयुतो जयतीह शिवः शिवरूपधरः ॥ ४ ॥

अहिहारसुशोभित आप्तनुतो समुपास्यमहेश्वर आर्तिहरः ।
धृतविष्णुपदीसुजटो मुदितो जयतीह शिवः शिवरूपधरः ॥ ५ ॥

व्रजकृष्णपदाब्जपरागरतो व्रजकुञ्जसखीनवरूपधरः ।
व्रजगोपसुरेश उमाधिपतिर्जयतीह शिवः शिवरूपधरः ॥ ६ ॥

युगकेलिविलासमहारसिको रसतन्त्रपुराणकथाचतुरः ।
रसशास्त्ररसज्ञपटुर्मधुरो जयतीह शिवः शिवरूपधरः ॥ ७ ॥

यमपाशभयापहरोऽघहरः प्रबलोऽस्ति महाप्रबलः प्रखरः ।
परिपूर्णतमो हरिभक्तिभरो जयतीह शिवः शिवरूपधरः ॥ ८ ॥

शिवशान्त्यर्थदं दिव्यं श्रीशिवमहिमाष्टकम् ।
राधासर्वेश्वराख्येन शरणान्तेन निर्मितम् ॥

इति श्रीनिम्बार्कपीठाधीश्वर श्रीराधासर्वेश्वरशरणदेवाचार्यजी
महाराज द्वारा रचितं श्रीशिवमहिमाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Lord Shiva Slokam » Shiva Mahima Ashtakam Lyrics in Sanskrit » English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Shiva Upanishad In Bengali