Shiva Rama Ashtakam In Sanskrit

॥ Shivarama Ashtakam Sanskrit Lyrics ॥

॥ शिवरामाष्टकम् ॥
श्रीगणेशाय नमः ।
शिव हरे शिवरामसखे प्रभो त्रिविधतापनिवारण हे प्रभो ।
अज जनेश्वर यादव पाहि मां शिव हरे विजयं कुरु मे वरम् ॥ १ ॥

कमललोचन राम दयानिधे हर गुरो गजरक्षक गोपते ।
शिवतनो भव शङ्कर पाहि मां शिव हरे विजयं कुरु मे वरम् ॥ २ ॥

स्वजनरञ्जनमङ्गलमन्दिरं भजति ते पुरुषाः परमं पदम् ।
भवति तस्य सुखं परमाद्भुतं शिव हरे विजयं कुरु मे वरम् ॥ ३ ॥

जय युधिष्ठिरवल्लभ भूपते जय जयार्जित पुण्यपयोनिधे ।
जय कृपामय कृष्ण नमोऽस्तु ते शिव हरे विजयं कुरु मे वरम् ॥ ४ ॥

भवविमोचन माधव मापते सुकविमानसहंस शिवारते ।
जनकजारत राघव रक्ष मां शिव हरे विजयं कुरु मे वरम् ॥ ५ ॥

अवनिमण्डलमङ्गल मापते जलदसुन्दर राम रमापते ।
निगमकीर्तिगुणार्णव गोपते शिव हरे विजयं कुरु मे वरम् ॥ ६ ॥

पतितपावन नाममयी लता तव यशो विमलं परिगीयते ।
तदपि माधव मां किमुपेक्षसे शिव हरे विजयं कुरु मे वरम् ॥ ७ ॥

See Also  Sri Surya Ashtakam 2 In Tamil

अमरतापरदेव रमापते विजयस्तव नामघनोपमे ।
मयि कथं करुणार्णव जायते शिव हरे विजयं कुरु मे वरम् ॥ ८ ॥

हनुमतः प्रियतोषकर प्रभो सुरसरिदूधृतशेखर हे गुरो ।
मम विभो किमु विस्मरणं कृतं शिव हरे विजयं कुरु मे वरम् ॥ ९ ॥

नरहरे रतिरञ्जनसुन्दरं पठति यः शिवरामकृतस्तवम् ।
विशति रामरमाचरणाम्बुजे शिव हरे विजयं कुरु मे वरम् ॥ १० ॥

प्रातरुत्थाय यो भक्त्या पठेदेकाग्रमानसः ।
विजयो जायते तस्य विष्णुमाराध्यमाप्नुयात् ॥ ११ ॥

इति श्रीरामानन्दविरचितं शिवरामस्तोत्रम् ।

– Chant Stotra in Other Languages –

Shiva Rama Slokam » Shiva Rama Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil