Shivakanta Stutih In Marathi

॥ Shivakanta Stutih in Marathi ॥

॥ शिवकण्ठ स्तुति ॥
पातु वो नीलकण्ठस्य कण्ठः श्यामाम्बुदोपमः ।
गौरीभुजलता यत्र विद्युल्लेखेव राजते ॥ 1 ॥

पातु वः शितिकण्ठस्य तमालसदृशश्यामळो गळः ।
संसक्तपार्वतीबाहुसुवर्णनिकषोपलः ॥ 2 ॥

कस्तुरेतिलकन्ति भालफलके देव्या मुखाम्भोरुहे
रोलम्बन्ति तमालबालमुकुळोत्तंसन्ति मौलिं प्रति ।
याः कर्णे विकचोत्पलन्ति कुचयोरंसे च कालागुरु-
स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ॥ 3 ॥

कस्तुरीयन्ति भाले तदनु नयनयोः कज्जलीयन्ति कर्ण-
प्रान्ते नीलोत्पलीयन्त्युरसि मरकतालङ्कृतीयन्ति देव्याः ।
रोमालीयन्ति नाभेरुपरि मध्ये कल्याणं कुर्युरेते
त्रिजगति पुरुजित्कण्ठभासां विलासाः ॥ 4 ॥

इति शिवकण्ठस्तुतिः समाप्ता ॥

– Chant Stotra in Other Languages –

Shivakanta Stutih in Marathi – Gujarati । BengaliKannadaMalayalamTelugu

See Also  Sri Gangadhara Stotram In Kannada