Shri Shanmukha Stotram In Sanskrit

॥ Shri Shanmukha Stotram Sanskrit Lyrics ॥

॥ श्री षण्मुख स्तोत्रम् ॥
नारदादिदेवयोगिबृन्दहृन्निकेतनं
बर्हिवर्यवाहमिन्दुशेखरेष्टनन्दनम् ।
भक्तलोकरोगदुःखपापसङ्घभञ्जनं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ १ ॥

तारकारीमिन्द्रमुख्यदेवबृन्दवन्दितं
चन्द्रचन्दनादि शीतलाङ्कमात्मभावितम् ।
यक्षसिद्धकिन्नरादिमुख्यदिव्यपूजितं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ २ ॥

चम्पकाब्जमालतीसुमादिमाल्यभूषितं
दिव्यषट्किरीटहारकुण्डलाद्यलङ्कृतम् ।
कुङ्कुमादियुक्तदिव्यगन्धपङ्कलेपितं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ३ ॥

आश्रिताखिलेष्टलोकरक्षणामराङ्घ्रिपं
शक्तिपाणिमच्युतेन्द्रपद्मसम्भवाधिपम् ।
शिष्टलोकचिन्तितार्थसिद्धिदानलोलुपं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ४ ॥

वीरबाहु पूर्वकोटिवीरसङ्घसौख्यदं
शूरपद्ममुख्यलक्षकोटिशूरमुक्तिदम् ।
इन्द्रपूर्वदेवसङ्घसिद्धनित्यसौख्यदं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ५ ॥

जम्बवैरिकामिनीमनोरथाभिपूरकं
कुम्भसम्भवाय सर्वधर्मसारदायकम् ।
तं भवाब्धिपोतमम्बिकेयमाशु सिद्धिदं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ६ ॥

पूर्णचन्द्रबिम्बकोटितुल्यवक्त्रपङ्कजं
वर्णनीयसच्चरित्रमिष्टसिद्धिदायकम् ।
स्वर्णवर्णगात्रमुग्रसिद्धलोकशिक्षकं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ७ ॥

पूर्वजन्मसञ्चिताघसङ्घभङ्गतत्परं
सर्वधर्मदानकर्मपूर्वपुण्यसिद्धिदम् ।
सर्वशत्रुसङ्घभङ्गदक्षमिन्द्रजापतिं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ८ ॥

इति श्रीमच्छङ्करभगवतः कृतौ तिरुचेन्दूर् श्री षण्मुख स्तोत्रम् ।

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Stotram » Shri Shanmukha Stotram in Lyrics in English » Kannada » Telugu » Tamil

See Also  Varuna Krita Shiva Stotram In Sanskrit