Shri Subramanya Pancharatnam In Sanskrit

॥ Shri Subrahmanya Pancharatnam Sanskrit Lyrics ॥

॥ श्री सुब्रह्मण्य पञ्चरत्नम् ॥
षडाननं चन्दनलेपिताङ्गं महोरसं दिव्यमयूरवाहनम् ।
रुद्रस्यसूनुं सुरलोकनाथं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ १ ॥

जाज्वल्यमानं सुरवृन्दवन्द्यं कुमार धारातट मन्दिरस्थम् ।
कन्दर्परूपं कमनीयगात्रं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ २ ॥

द्विषड्भुजं द्वादशदिव्यनेत्रं त्रयीतनुं शूलमसी दधानम् ।
शेषावतारं कमनीयरूपं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ३ ॥

सुरारिघोराहवशोभमानं सुरोत्तमं शक्तिधरं कुमारम् ।
सुधार शक्त्यायुध शोभिहस्तं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ४ ॥

इष्टार्थसिद्धिप्रदमीशपुत्रं इष्टान्नदं भूसुरकामधेनुम् ।
गङ्गोद्भवं सर्वजनानुकूलं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ५ ॥

यः श्लोकपञ्चमिदं पठतीह भक्त्या
ब्रह्मण्यदेव विनिवेशित मानसः सन् ।
प्राप्नोति भोगमखिलं भुवि यद्यदिष्टम्
अन्ते स गच्छति मुदा गुहसाम्यमेव ॥ ६ ॥

– Chant Stotra in Other Languages –

SSri Subrahmanya / Kartikeya / Muruga Stotram » Shri Subramanya Pancharatnam in Lyrics in English » Kannada » Telugu » Tamil

See Also  Sri Maha Ganesha Pancharatnam In Sanskrit