Sri Anjaneya Mangalashtakam In Sanskrit

॥ Sri Anjaneya Mangalashtakam Sanskrit Lyrics ॥

॥ श्री आञ्जनेयमङ्गलाष्टकम् ॥
कपिश्रेष्ठाय शूराय सुग्रीवप्रियमन्त्रिणे ।
जानकीशोकनाशाय आञ्जनेयाय मङ्गलम् ॥ १ ॥

मनोवेगाय उग्राय कालनेमिविदारिणे ।
लक्ष्मणप्राणदात्रे च आञ्जनेयाय मङ्गलम् ॥ २ ॥

महाबलाय शान्ताय दुर्दण्डीबन्धमोचन ।
मैरावणविनाशाय आञ्जनेयाय मङ्गलम् ॥ ३ ॥

पर्वतायुधहस्ताय राक्षःकुलविनाशिने ।
श्रीरामपादभक्ताय आञ्जनेयाय मङ्गलम् ॥ ४ ॥

विरक्ताय सुशीलाय रुद्रमूर्तिस्वरूपिणे ।
ऋषिभिस्सेवितायास्तु आञ्जनेयाय मङ्गलम् ॥ ५ ॥

दीर्घबालाय कालाय लङ्कापुरविदारिणे ।
लङ्कीणीदर्पनाशाय आञ्जनेयाय मङ्गलम् ॥ ६ ॥

नमस्तेऽस्तु ब्रह्मचारिन् नमस्ते वायुनन्दन । नमस्ते ब्रह्मचर्याय
नमस्ते गानलोलाय आञ्जनेयाय मङ्गलम् ॥ ७ ॥

प्रभवाय सुरेशाय शुभदाय शुभात्मने ।
वायुपुत्राय धीराय आञ्जनेयाय मङ्गलम् ॥ ८ ॥

आञ्जनेयाष्टकमिदं यः पठेत्सततं नरः ।
सिद्ध्यन्ति सर्वकार्याणि सर्वशत्रुविनाशनम् ॥ ९ ॥

इति श्रीआञ्जनेयमङ्गलाष्टकम् सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Anjaneya slokam » Sri Hanuman Mangalashtakam Lyrics in Sanskrit » English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Muruka Ashtakam In Bengali