Bala Tripura Sundari Ashtottara Shatanama Stotram 1 In Sanskrit

॥ Sri Bala Ashtottara Shatanama Stotram 1 Sanskrit Lyrics ॥

॥ श्रीबालाष्टोत्तरशतनामस्तोत्रम् १ ॥
अस्य श्रीबालात्रिपुरसुन्दर्यष्टोत्तरशतनामस्तोत्रमहामन्त्रस्य
दक्षिणामूर्तिः ऋषिः । अनुष्टुप् छन्दः । श्री बालात्रिपुरसुन्दरी देवता ।
ऐं बीजम् । सौः शक्तिः । क्लीं कीलकम् ।
श्रीबालात्रिपुरसुन्दरीप्रसादसिद्‍ध्यर्थे नामपारायणे विनियोगः ।
ओं ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः ।
सौः मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः ।
क्लीं कनिष्ठिकाभ्यां नमः । सौः करतलकरपृष्ठाभ्यां नमः ।
ऐं हृदयाय नमः । क्लीं शिरसे स्वाहा । सौः शिखायै वषट् ।
ऐं कवचाय हुम् । क्लीं नेत्रत्रयाय वौषट् । सौः अस्त्राय फट् ।
भूर्भुवस्सुवरों इति दिग्बन्धः ।

ध्यानम्-
पाशाङ्कुशे पुस्तकाक्षसूत्रे च दधती करैः ।
रक्ता त्र्यक्षा चन्द्रफाला पातु बाला सुरार्चिता ॥

लमित्यादि पञ्चपूजा \-
लं पृथिव्यात्मिकायै गन्धं समर्पयामि ।
हं आकाशात्मिकायै पुष्पाणि समर्पयामि ।
यं वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं अग्न्यात्मिकायै दीपं दर्शयामि ।
वं अमृतात्मिकायै अमृतोपहारं निवेदयामि ।
सं सर्वात्मिकायै सर्वोपचारपूजाः समर्पयामि ॥

अथ श्री बाला अष्टोत्तर शतनामस्तोत्रम् ।
ॐ कल्याणी त्रिपुरा बाला माया त्रिपुरसुन्दरी ।
सुन्दरी सौभाग्यवती क्लीङ्कारी सर्वमङ्गला ॥ १ ॥

See Also  108 Names Of Sri Guru Dattatreya In Sanskrit

ह्रीङ्कारी स्कन्दजननी परा पञ्चदशाक्षरी ।
त्रिलोकी मोहनाधीशा सर्वेशी सर्वरूपिणी ॥ २ ॥

सर्वसंक्षोभिणी पूर्णा नवमुद्रेश्वरी शिवा ।
अनङ्गकुसुमा ख्याता अनङ्गा भुवनेश्वरी ॥ ३ ॥

जप्या स्तव्या श्रुतिर्निता नित्यक्लिन्नाऽमृतोद्भवा ।
मोहिनी परमाऽऽनन्दा कामेशतरुणा कला ॥ ४ ॥

कलावती भगवती पद्मरागकिरीटिनी ।
सौगन्धिनी सरिद्वेणी मन्त्रिणि मन्त्ररूपिणि ॥ ५ ॥

तत्त्वत्रयी तत्त्वमयी सिद्धा त्रिपुरवासिनी ।
श्रीर्मतिश्च महादेवी कौलिनी परदेवता ॥ ६ ॥

कैवल्यरेखा वशिनी सर्वेशी सर्वमातृका ।
विष्णुस्वसा देवमाता सर्वसम्पत्प्रदायिनी ॥ ७ ॥

किङ्करी माता गीर्वाणी सुरापानानुमोदिनी ।
आधाराहितपत्नीका स्वाधिष्ठानसमाश्रया ॥ ८ ॥

अनाहताब्जनिलया मणिपूरासमाश्रया ।
आज्ञा पद्मासनासीना विशुद्धस्थलसंस्थिता ॥ ९ ॥

अष्टात्रिंशत्कलामूर्ति स्सुषुम्ना चारुमध्यमा ।
योगेश्वरी मुनिध्येया परब्रह्मस्वरूपिणी ॥ १० ॥

चतुर्भुजा चन्द्रचूडा पुराणागमरूपिनी ।
ऐंकारादिर्महाविद्या पञ्चप्रणवरूपिणी ॥ ११ ॥

भूतेश्वरी भूतमयी पञ्चाशद्वर्णरूपिणी ।
षोढान्यास महाभूषा कामाक्षी दशमातृका ॥ १२ ॥

आधारशक्तिः तरुणी लक्ष्मीः त्रिपुरभैरवी ।
शाम्भवी सच्चिदानन्दा सच्चिदानन्दरूपिणी ॥ १३ ॥

माङ्गल्य दायिनी मान्या सर्वमङ्गलकारिणी ।
योगलक्ष्मीः भोगलक्ष्मीः राज्यलक्ष्मीः त्रिकोणगा ॥ १४ ॥

सर्वसौभाग्यसम्पन्ना सर्वसम्पत्तिदायिनी ।
नवकोणपुरावासा बिन्दुत्रयसमन्विता ॥ १५ ॥

See Also  Rati Devi Krita Shiva Stotram In Sanskrit

नाम्नामष्टोत्तरशतं पठेन्न्याससमन्वितं ।
सर्वसिद्धिमवाप्नोती साधकोभीष्टमाप्नुयात् ॥ १६ ॥

इति श्री रुद्रयामलतन्त्रे उमामहेश्वरसंवादे
श्री बाला अष्टोत्तर शतनामस्तोत्रम् सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Durga Slokam » 108 Names of Bala Tripura Sundari / Bala Ashtottara Shatanama Stotram 1 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil