Bala Tripura Sundari Ashtottara Shatanama Stotram 4 In Sanskrit

॥ Sri Bala Tripura Sundari Ashtottara Shatanama Stotram 4 Sanskrit Lyrics ॥

॥ श्रीबालाष्टोत्तरशतनामस्तोत्रम् ४ ॥
अगस्त्य उवाच-
हयग्रीव दयासिन्धो भगवन्भक्तवत्सल ।
बालात्रिपुरसुन्दर्या नाम्नामष्टोत्तरं शुभम् ॥

वदस्व मे त्वं कृपया येन ज्ञानं प्रवर्तते ॥ १ ॥
हयग्रीव उवाच –
श‍ृणु सम्यक्प्रवक्ष्यामि श्रीबालाष्टोत्तरं शतम् ।
सर्वविद्यात्मकं ज्ञेयं श्रीबालाप्रीतिदायकम् ॥ २ ॥
अस्य श्रीबालाष्टोत्तरशतनामस्तोत्रमहामन्त्रस्य दक्षिणामूर्तिः ऋषिः ।
अनुष्टुप् छन्दः । बालात्रिपुरसुन्दरी देवता ।
ऐं बीजं । क्लीं शक्तिः । सौः कीलकं ।
श्रीबालाप्रित्यर्थे नामपारायणे विनियोगः ।
मूलेन कराङ्गन्यासौ ।

ध्यानं –
उदञ्चद्दिनेशप्रपञ्च प्रकाशां
उदूढेन्दुरे खामुदारां त्रिणेत्राम् ।
वहन्तीं वराभीतिकोशाक्षमालाः
वहन्तीं स्फुटे हल्लके नौमि बालाम् ॥ १ var १ मालासृणीपुस्तकपाशहस्तां बालां भजेऽहं ललितां कुमारीम् ।
लमित्यादि पञ्च पूजाः ।
(कुमारकामेश्वरकेलिलोलां नमामि गौरीं नववर्षदोश्याम् ॥)

कल्याणी त्रिपुरा बाला माया त्रिपुरसुन्दरी ।
सौन्दर्यभाग्यसंयुक्ता क्लीङ्कारी सर्वमङ्गला ॥ २ ३ var २ सुन्दरी सर्वसौभाग्यवती ह्रीङ्काररूपिणी ।
ऐङ्कारी सर्वजननी३ परा पञ्चदशाक्षरी । ( var ३ स्कन्दजननी क्लीङ्कारी परमेश्वरी ।
त्रैलोक्यमोहनाधीशा सर्वाशापूरवल्लभा ॥ ४ (सौःकारी सर्वशक्तिश्च परा पञ्चदशाक्षरी ॥
सर्वसङ्क्षोभणाधीशा सर्वसौभाग्यदायिनी ।
सर्वार्थसाधकाधीशा सर्वरक्षाकराधिपा ॥ ५ ॥
सर्वरोगहराधीशा सर्वसिद्धिप्रदायिका ।
सर्वानन्दमयाधीशा योगिनीचक्रनायिका ॥ ६ ॥
भक्तानुरक्ता४ रक्ताङ्गी शङ्करार्धशरीरिणी । var ४ भक्तानुरक्षा
पुष्पबाणेक्षुकोदण्डपाशाङ्कुशलसत्करा ॥ ५ ७ var ५ पुष्पबाणैक्षवधनुःपाशाङ्कुशलसत्करा ।
संविदानन्दलहरी६ श्रीविद्या त्रिपुरेश्वरी । var ६ सच्चिदानन्दलहरी
सर्वसङ्क्षोभिणीपूर्वनवमुद्रेश्वरी शिवा७ ॥ ८ var ७ पूर्वा चानन्तमुद्रेशी सर्वसङ्क्षोभिणी शिवा ।
अनङ्गकुसुमाराध्या चक्रेशी८ भुवनेश्वरी । var ८ अनङ्गकुसुमापीडा चक्रिणी
गुप्ता गुप्ततरा नित्या नित्यक्लिन्ना मदद्रवा९ ॥ ९ var ९ नित्यक्लिन्नमदद्रवा
मोहिनी परमानन्दा कामेशी तरुणी कला ।
पद्मावती१० भगवती पद्मरागकिरीटिनी ॥ १० var कलावती१०
रक्तवस्त्रा रक्तभूषा रक्तगन्धानुलेपना ।
सौगन्धिकमिलद्वेणी मन्त्रिणी मन्त्ररूपिणी ॥ ११ ॥
तत्त्वासना११ तत्त्वमयी सिद्धान्तःपुरवासिनी । var तत्त्वत्रया११
श्रीमती च महादेवी कौलिनी परदेवता ॥ १२ ॥
कैवल्यरेखा वशिनी १२सर्वेशी सप्तमातृका । var सर्वमातृका सर्वमङ्गला१२
विष्णुस्वसा वेदवेद्या१३ सर्वसम्पत्प्रदायिनी ॥ १३ ॥ var १३वेदमयी देवमाता
किङ्करीभूत१४गीर्वाणी सुधापानविनोदिनी । var १४श्रीवाणी
१५आधारपीठनिलया स्वाधिष्ठानसमाश्रया ॥ १४ ॥ var १५आधारवीथिपथिका
मणिपूरसमासीना चानाहतनिवासिनी ।
१६आज्ञाचक्राब्जनिलया १७विशुद्धिस्थलसंश्रया ॥ १५ ॥var १६आज्ञापद्मासनासीना १७विशुद्धचक्रनिलया चाज्ञाचक्रनिवासिनी
अष्टात्रिंशत्कलामूर्तिः १८सुषुम्नाद्वारमध्यगा । var १८ ॥ सुषुम्नागारमध्यगा
योगीश्वरमनोध्येया१९ परब्रह्मस्वरूपिणी ॥ १६ ॥ var योगीश्वरमनोध्येया१९
चतुर्भुजा चन्द्रचूडा पुराणागमरूपिणी ।
ओङ्कारी विविधाकारा पञ्चब्रह्मस्वरूपिणी२० ॥ १७ ॥ var ओङ्कारी विमला विद्या पञ्चप्रणवरूपिणी२०
भूतेश्वरी भूतमयी पञ्चाशत्पीठरूपिणी२१। var पञ्चाशद्वर्णरूपिणी२१
षोढान्यासमहाभूषा कामाक्षी दशमातृका ॥ १८ ॥
आधारवीथीपथिका२२ लक्ष्मीस्त्रिपुरभैरवी । var आधारशक्तिररुणा२२
रहःपूजासमालोला रहोयज्ञस्वरूपिणी ॥ १९ ॥
त्रिकोणमध्यनिलया षट्कोणपुरवासिनी ।
वसुकोणपुरावासा २३दशारद्वयवासिनी ॥ २० ॥ var २३दशारद्वन्द्व
चतुर्दशारकोणस्था वसुपत्रनिवासिनी ।
२४स्वराब्जपत्रनिलया वृत्तत्रयनिवासिनीः ॥ २१ ॥ var २४स्वराब्जचक्र
चतुरश्रस्वरूपा च बिन्दुस्थलमनोहरा२५। var बिन्दुस्थलनिवासिनी२५
नाम्नामष्टोत्तरशतं भवेद्देव्याः समन्त्रकम् ॥ २२ ॥
प्रत्यहं पूजयेद्बालां श्रद्धाभक्तिसमन्वितः ।
अर्चयेत्कुङ्कुमेनैव जातीचम्पकपङ्कजैः ॥ २३ ॥
अन्यैः सुगन्धिकुसुमैः केतकीकरवीरकैः ।
योऽर्चयेत्परया भक्त्या स लभेद्वाञ्छितं फलम् ।
भक्त्या नित्यं पठेत्सम्यग्वागीश्वरसमो भवेत् ॥ २४ ॥

See Also  Kakaradi Sri Kurma Ashtottara Shatanama Stotram In Tamil

इति श्रीबालाष्टोत्तरशतनामस्तोत्रं (४) सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Durga Slokam » Bala Tripura Sundari Ashtottara Shatanama Stotram 4 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil