Sri Balambika Ashtakam 2 In Sanskrit

॥ Sri Balambika Ashtakam 2 Sanskrit Lyrics ॥

॥ श्रीबालाम्बिकाष्टकम् २ ॥
नतोऽस्मि ते देवि सुपादपङ्कजं मुरासुरेन्द्रैरभिवन्दितं सदा ।
परात्परं चारुतरं सुमङ्गलं वेदार्थ-वेद्यं ममकार्य-सिद्धये ॥ १ ॥

वेदैकवन्द्यं भुवनस्य मातरं समस्त-कल्याण-गुणाभिरामकाम् ।
भक्तार्थदं भक्तजनाभिवन्द्यां बालाम्बिकां बालकलां नतोऽस्मि ॥ २ ॥

सौवर्ण-चित्राभरणाञ्च गौरीं प्रफुल्ल रक्तोत्पल-भूषिताङ्गीम् ।
नीलालकां नीलगल-प्रियाञ्च बालाम्बिकां बालकलां नतोऽस्मि ॥ ३ ॥

सौवर्ण-वर्णाकृति-दिव्य-वस्त्रां सौवर्ण-रत्नाञ्चित दिव्य-काञ्चीम् ।
निम्बाटवी-नाथ-मनःप्रहृष्टां बालाम्बिकां बालकलां नतोऽस्मि ॥ ४ ॥

स्रग्-चन्दनालङ्कृत-दिव्यदेहां हारिद्रसच्चूर्ण विराजिताङ्गीम् ।
वैचित्र-कोटीर विभूषिताङ्गीं बालाम्बिकां बालकलां नतोऽस्मि ॥ ५ ॥

वैचित्र-मुक्तामणि विद्रुमाणां स्रग्भिस्सदाराजित गौरवर्णाम् ।
चतुर्भुजां चारु-विचित्र-रूपां बालाम्बिकां बालकलां नतोऽस्मि ॥ ६ ॥

क्वणत्-सुमञ्जीर-रवाभिरामां समस्त-हृन्मण्डल-मध्य-पीठाम् ।
वैद्येश्वरीं वैद्यपति-प्रियाञ्च बालाम्बिकां बालकलां नतोऽस्मि ॥ ७ ॥

ब्रह्मेन्द्र-विष्ण्वर्क-निशीश-पूर्व गीर्वाण-वर्यार्चित दिव्य-देहाम् ।
ज्योतिर्मयां ज्ञानद-दिव्य-रूपां बालाम्बिकां बालकलां नतोऽस्मि ॥ ८ ॥

बालाम्बिका स्तोत्रमतीव पुण्यं भक्तेष्टदञ्चेन्-मनुजः प्रभाते ।
भक्त्त्या पठेत् प्राबलार्थ-सिद्धं प्राप्नोति सद्यस्सकलेष्टकामान् ॥ ९ ॥

॥ इति श्रीबालाम्बिकाष्टकस्तोत्रं सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Goddess Durga Slokam » Sri Balambika Ashtakam 2 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Shri Skanda Dandakam In Sanskrit