Sri Dakshinamurti Ashtakam 2 In Sanskrit

॥ Sri Dakshinamurtyashtakam 2 Sanskrit Lyrics ॥

॥ श्रीदक्षिणामूर्त्यष्टकम् २ ॥
पायय जनमिमममृतं दुर्लभमितरस्य लोकस्य ।

नतजनपारनदीक्षित मेधाधीदक्षिणामूर्ते ॥ १ ॥

स्तोतुं वा नेतुं वा जडविषयासक्तहृन्न शक्रोमि ।
नैसर्गिकी कुरु कृपां मयि वटतटवास दक्षिणामूर्ते ॥ २ ॥

स्फुरतु मम हृदि तनुस्ते पुस्तकमुद्राक्षमालिकाकुम्भान् ।
दधती चन्द्रार्धलसच्छीर्षा श्रीदक्षिणामूर्ते ॥ ३ ॥

सहमान दक्षिणानन सहमानविहीनमत्कमन्तुततीः ।
सहमानत्वं त्यज वा युक्तं कुर्वत्र यद्विभाति तव ॥ ४ ॥

मेधाप्रज्ञे जन्ममूकोऽपि लोकः प्राप्नोत्यङ्घ्रिं पूजयन्यस्य लोके ।
तं पादाम्भोजातनम्रामरालिं मेधाप्रज्ञादक्षिणामूर्तिमीडे ॥ ५ ॥

गङ्गानिर्झरिणी हिमाद्रिकुहराद्यद्वत्सुधांशोः प्रभा
निर्गच्छत्यतिवेगतः कमपि च त्यक्त्वा प्रयत्नं मुहुः ।
तद्वद्यत्पदभक्तवक्त्रकुहराद्वाणी जवान्निसरेत्
तं वन्दे मुनिवृन्दवन्द्यचरणं श्रीदक्षिणास्यं मुदा ॥ ६ ॥

अप्पित्तार्कशशाङ्कनेत्रमगजासंलिङ्गिताङ्गं कृपा-
वाराशिं विधिविष्णुमुख्यदिविजैः संसेविताङ्घ्रिं मुदा ।
नन्दीशप्रमुखैर्गणैः परिवृतं नागास्यषड्वक्त्रयु-
क्पार्श्वं नीलगलं नमामि वटभूरुण्मूलवासं शिवम् ॥ ७ ॥

शीतांशुप्रतिमानकान्तिवपुषं पीताम्बुराश्यादिभि-
र्मौनीन्द्रैः परिचिन्त्यमानमनिशं मोदाद्धृदम्भोरुहे ।
शान्तानङ्गकटाक्षिभासिनिटिलं कान्तार्धकायं विभुं
वन्दे चित्रचरित्रमिन्दुमुकुटं न्यग्रोधमूलाश्रयम् ॥ ८ ॥

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीदक्षिणामूर्त्यष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Lord Shiva Slokam » Sri Dakshinamurti Ashtakam 2 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Yamunashtakam 6 In Tamil