Sri Dakshinamurti Ashtakam In Sanskrit

॥ Sri Dakshinamurti Ashtakam Sanskrit Lyrics ॥

॥ श्रीदक्षिणामूर्त्यष्टकं ॥

अगणितगुणगणमप्रमेमाद्यं
सकलजगत्स्थितिसम्यमादिहेतुम् ।
उपरतमनोयोगिहृन्मन्दिरम्तं
सततमहं दक्षिणामूर्तिमीडे ॥ १ ॥

निरवधिसुखमिष्टदातारमीड्यं
नतजनमनस्तापभेदैकदक्षम् ।
भवविपिनदवाग्निनामधेयं
सततमहं दक्षिणामूर्तिमीडे ॥ २ ॥

त्रिभुवनगुरुमागमैकप्रमाणं
त्रिजगत्कारणसूत्रयोगमायम् ।
रविशतभास्वरमीहितप्रधानं
सततमहं दक्षिणामूर्तिमीडे ॥ ३ ॥

अविरतभवभावनादिदूरं
पदपद्मद्वयभाविनामदूरम् ।
भवजलधिसुतारणमङ्घ्रिपोतं
सततमहं दक्षिणामूर्तिमीडे ॥ ४ ॥

कृतनिलयमनिशं वटाकमूले
निगमशिखाव्रातबोधितैकरूपम् ।
धृतमुद्राङ्गुळिगम्यचारुरूपं
सततमहं दक्षिणामूर्तिमीडे ॥ ५ ॥

द्रुहिणसुतपूजिताङ्घ्रिपद्मं
पदपद्मानतमोक्षदानदक्षम् ।
कृतगुरुकुलवासयोगिमित्रं
सततमहं दक्षिणामूर्तिमीडे ॥ ६ ॥

यतिवरहृदये सदा विभान्तं
रतिपतिशतकोटिसुन्दराङ्गमाद्यम् ।
परहितनिरतात्मनं सुसेव्यं
सततमहं दक्षिणामूर्तिमीडे ॥ ७ ॥

स्मितधवळविकासिताननाब्जं
श्रुतिसुलभं वृषभाधिरूढगात्रम् ।
सितजलजसुशोभिदेहकान्तिं
सततमहं दक्षिणामूर्तिमीडे ॥ ८ ॥

वृषभकृतमिदमिष्टसिद्धिदं
गुरुवरदेवसन्निधौ पठेद्यः ।
सकलदुरितदुःखवर्गहानिं
व्रजति चिरं ज्ञानवान् शम्भुलोकम् ॥ ९ ॥

इति श्रीदक्षिणामूर्त्यष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Lord Shiva Slokam » Sri Dakshinamurti Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Vraja Navina Yuva Dvandvastaka In Malayalam