Sri Ganapathi Stava In Sanskrit

॥ Sri Ganapathi Stava Sanskrit Lyrics ॥

॥ श्री गणपति स्तवः ॥
ब्रह्मविष्णुमहेशा ऊचुः ।
अजं निर्विकल्पं निराकारमेकं
निरानन्दमद्वैतमानन्दपूर्णम् ।
परं निर्गुणं निर्विशेषं निरीहं
परब्रह्मरूपं गणेशं भजेम ॥ १ ॥

गुणातीतमाद्यं चिदानन्दरूपं
चिदाभासकं सर्वगं ज्ञानगम्यम् ।
मुनिध्येयमाकाशरूपं परेशं
परब्रह्मरूपं गणेशं भजेम ॥ २ ॥

जगत्कारणं कारणज्ञानरूपं
सुरादिं सुखादिं युगादिं गणेशम् ।
जगद्व्यापिनं विश्ववन्द्यं सुरेशं
परब्रह्मरूपं गणेशं भजेम ॥ ३ ॥

रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं
सदा कार्यसक्तं हृदाचिन्त्यरूपम् ।
जगत्कारकं सर्वविद्यानिधानं
परब्रह्मरूपं गणेशं नतास्मः ॥ ४ ॥

सदा सत्त्वयोगं मुदा क्रीडमानं
सुरारीन्हरन्तं जगत्पालयन्तम् ।
अनेकावतारं निजज्ञानहारं
सदा विष्णुरूपं गणेशं नमामः ॥ ५ ॥

तमोयोगिनं रुद्ररूपं त्रिनेत्रं
जगद्धारकं तारकं ज्ञानहेतुम् ।
अनेकागमैः स्वं जनं बोधयन्तं
सदा शर्वरूपं गणेशं नमामः ॥ ६ ॥

तमस्तोमहारं जनाज्ञानहारं
त्रयीवेदसारं परब्रह्मपारम् ।
मुनिज्ञानकारं विदूरेविकारं
सदा ब्रह्मरूपं गणेशं नमामः ॥ ७ ॥

निजैरोषधीस्तर्पयन्तं करोद्यैः
सरौघान्कलाभिः सुधास्राविणीभिः ।
दिनेशांशु सन्तापहारं द्विजेशं
शशाङ्कस्वरूपं गणेशं नमामः ॥ ८ ॥

प्रकाशस्वरूपं नभोवायुरूपं
विकारादिहेतुं कलाकालभूतम् ।
अनेकक्रियानेकशक्तिस्वरूपं
सदा शक्तिरूपं गणेशं नमामः ॥ ९ ॥

See Also  Sri Mahaganapathi Navarna Vedapada Stava In Kannada

प्रधानस्वरूपं महत्तत्त्वरूपं
धरावारिरूपं दिगीशादिरूपम् ।
असत्सत्स्वरूपं जगद्धेतुभूतं
सदा विश्वरूपं गणेशं नतास्मः ॥ १० ॥

त्वदीये मनः स्थापयेदङ्घ्रियुग्मे
जनो विघ्नसङ्घान्न पीडां लभेत ।
लसत्सूर्यबिम्बे विशाले स्थितोऽयं
जनोध्वान्त पीडां कथं वा लभेत ॥ ११ ॥

वयं भ्रामिताः सर्वथाऽज्ञानयोगा-
-दलब्धा तवाङ्घ्रिं बहून्वर्षपूगान् ।
इदानीमवाप्तास्तवैव प्रसादा-
-त्प्रपन्नान्सदा पाहि विश्वम्भराद्य ॥ १२ ॥

गणेश उवाच ।
इदं यः पठेत्प्रातरुत्थाय धीमान्
त्रिसन्ध्यं सदा भक्तियुक्तो विशुद्धः ।
सपुत्रान् श्रियं सर्वकामान् लभेत
परब्रह्मरूपो भवेदन्तकाले ॥ १३ ॥

इति गणेशपुराणे उपासनाखण्डे त्रयोदशोऽध्याये श्रीगणपतिस्तवः ।

– Chant Stotra in Other Languages –

Sri Ganapathi Stava in English – Hindi – KannadaTeluguTamil