Sri Garuda Ashtottara Shatanama Stotram In Sanskrit

॥ Sri Garuda Ashtottara Shatanama Stotram Sanskrit Lyrics ॥

॥ श्रीगरुडाष्टोत्तरशतनामस्तोत्रम् ॥

श्रीदेव्युवाच –
देवदेव महादेव सर्वज्ञ करुणानिधे ।
श्रोतुमिच्छामि तार्क्ष्यस्य नाम्नामष्टोत्तरं शतम् ।
ईश्वर उवाच –
श‍ृणु देवि प्रवक्ष्यामि गरुडस्य महात्मनः ।
नाम्नामष्टोत्तरशतं पवित्रं पापनाशनम् ॥

अस्य श्रीगरुडनामाष्टोत्तरशतमहामन्त्रस्य ब्रह्मा ऋषिः
अनुष्टुप् छन्दः गरुडो देवता । प्रणवो बीजम् । विद्या शक्तिः ।
वेदादिः कीलकम् । पक्षिराजप्रीत्यर्थे जपे विनियोगः ।
ध्यानम् –
अमृतकलशहस्तं कान्तिसम्पूर्णदेहं
सकलविबुधवन्द्यं वेदशास्त्रैरचिन्त्यम् ।
कनकरुचिरपक्षोद्धूयमानाण्डगोलं
सकलविषविनाशं चिन्तयेत्पक्षिराजम् ॥

ॐ । वैनतेयः खगपतिः काश्यपोऽग्निर्महाबलः ।
तप्तकाश्चनवर्णाभः सुपर्णो हरिवाहनः ॥ १ ॥

छन्दोमयो महातेजा महोत्साहो महाबलः ।
ब्रह्मण्यो विष्णुभक्तश्च कुन्देन्दुधवलाननः ॥ २ ॥

चक्रपाणिधरः श्रीमान्नागारिर्नागभूषणः ।
विज्ञानदो विशेषज्ञो विद्यानिधिरनामयः ॥ ३ ॥

भूतिदो भुवनत्राता भूशयो भक्तवत्सलः ।
सप्तच्छन्दोमयः पक्षी सुरासुरसुपूजितः ॥ ४ ॥

गजभुक् कच्छपाशी च दैत्यहन्ताऽरुणानुजः ।
अमृतांशोऽमृतवपुरानन्दनिधिरव्ययः ॥ ५ ॥

निगमात्मा निराहारो निस्त्रैगुण्यो निरप्ययः ।
निर्विकल्पः परं ज्योतिः परात्परतरः परः ॥ ६ ॥

शुभाङ्गः शुभदः शूरः सूक्ष्मरूपी बृहत्तनुः ।
विषाशी विदितात्मा च विदितो जयवर्धनः ॥ ७ ॥

दार्ढ्याङ्गो जगदीशश्च जनार्दनमहाध्वजः ।
सतां सन्तापविच्छेत्ता जरामरणवर्जितः ॥ ८ ॥

See Also  Vasavi Kanyaka Parameshwari Ashtottara Shatanama Stotram In Malayalam

कल्याणदः कलातीतः कलाधरसमप्रभः ।
सोमपः सुरसङ्घेशो यज्ञाङ्गो यज्ञभूषणः ॥ ९ ॥

महाजवो जितामित्रो मन्मथप्रियबान्धवः ।
शङ्खभृच्चक्रधारी च बालो बहुपराक्रमः ॥ १० ॥

सुधाकुम्भधरो धीमान्दुराधर्षो दुरारिहा ।
वज्राङ्गो वरदो वन्द्यो वायुवेगो वरप्रदः ॥ ११ ॥

विनतानन्दनः श्रीदो विजितारातिसङ्गुलः ।
पतद्वीरष्ठः सर्वेशः पापहा पापनाशनः ॥ १२ ॥

अग्निजिज्जयघोषश्च जगदाह्लादकारकः ।
वज्रनासः सुवक्त्रश्च मारिघ्नो मदभञ्जनः ॥ १३ ॥

कालज्ञः कमलेष्टश्च कलिदोषनिवारणः ।
विद्युन्निभो विशालाङ्गो विनतादास्यमोचनः ॥ १४ ॥

स्तोमात्मा च त्रयीमूर्धा भूमा गायत्रलोचनः ।
सामगानरतः स्रग्वी स्वच्छन्दगतिरग्रणीः ॥ १५ ॥

इतीदं परमं गुह्यं गरुडस्य महात्मनः
नाम्नामष्टोत्तरशतं पवित्रं पापनाशनम् ।
स्तूयमानं महादिव्यं विष्णुना समुदीरितम् ॥ १६ ॥

इति ब्रह्माण्डपुराणान्तर्गतं गरुडाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Garuda Deva Slokam » Sri Garuda Ashtottara Shatanama Stotram Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil