Sri Gokulanathashtakam In Sanskrit

॥ Sri Gokula Natha Ashtakam Sanskrit Lyrics ॥

॥ श्रीगोकुलनाथाष्टकम् ॥
भवभीतजनाखिलभीतिहरं
हरवन्दितनन्दतनूजरतम् ।
रतवृद्धगुरुद्विजभृत्यजनं
जनदुर्लभमार्गसुबोधकरम् ॥ १ ॥

करपद्मसुसेवितशैलधरं
धरणीतलविश्रुतसाधुगुणम् ।
गुणसिन्धुविमर्दितदुष्टमुखं
मुखकल्पितमार्गनिवृत्तिपरम् ॥ २ ॥

परमप्रियमङ्गलवेषधरं
वरबन्धुसुहृत्सुतलब्धसुखम् ।
सुखसागरमम्बुजचारुमुखं
मुखपङ्कजकीर्तितकृष्णकथम् ॥ ३ ॥

कथनीयगुणामृतवारिनिधिं
निधिसेवितमर्चितपद्मपदम् ।
पदपङ्कजसंश्रितविज्ञबुधं
बुधविठ्ठलनाथचतुर्थसुतम् ॥ ४ ॥

सुतरां करुणाब्धिमनन्तगुणं
गुणरत्नविराजितशुद्धतनुम् ।
तनुरत्नवशीकृतनन्दसुतं
सुतमित्रकलत्रसुसेव्यपदम् ॥ ५ ॥

पदपङ्कजपावितसाधुजनं
जनहेतुगृहीतमनुष्यतनुम् ।
तनुकान्तितिरस्कृतपञ्चशरं
शरणागतरक्षितभक्तजनम् ॥ ६ ॥

जनतोषणपोषणदत्तहृदं
हृदयार्पितगोपवधूरमणम् ।
रमणीयतरामलभक्तिकृतं
कृतकृष्णकथामृततृप्तजनम् ॥ ७ ॥

जनवाञ्छितकामदरत्नगुणं
गुणभूषणभूषितलोकगुरुम् ।
गुरुगोकुलनाथमुपास्यमहं
महतां परिसेवितमाकलये ॥ ८ ॥

श्रीमद्गोकुलनाथानामष्टकं यः पठेन्नरः ।
गोकुलेशपदाम्भोजभक्तिं स लभते पराम् ॥ ९ ॥

इति सिंहावलोकयमकगर्भ श्रीगोकुलनाथाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Vishnu Slokam » Sri Gokula Natha Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Guru Charan Sharan Ashtakam In Gujarati