Sri Gokulesh Ashtakam In Sanskrit

॥ Sri Gokulesh Ashtakam Sanskrit Lyrics ॥

॥ श्रीगोकुलेशाष्टकम् ॥
नन्दगोपभूपवंशभूषणं विभूषणं var विदूषणं
भूमिभूतिभुरिभाग्यभाजनं भयापहम् ।
धेनुधर्मरक्षणावतीर्णपूर्णविग्रहम्

नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ १ ॥

गोपबालसुन्दरीगणावृतं कलानिधिं
रासमण्डलीविहारकारिकामसुन्दरम् ।
पद्मयोनिशङ्करादिदेववृन्दवन्दितं
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ २ ॥

गोपराजरत्नराजिमन्दिरानुरिङ्गणं
गोपबालबालिकाकलानुरुद्धगायनम् ।
सुन्दरीमनोजभावभाजनाम्बुजाननं
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ३ ॥

कंसकेशिकुञ्जराजदुष्टदैत्यदारणं
इन्द्रसृष्टवृष्टिवारिवारणोद्धृताचलम् ।
कामधेनुकारिताभिधानगानशोभितं
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ४ ॥

गोपिकागृहान्तगुप्तगव्यचौर्यचञ्चलं
दुग्धभाण्डभेदभीतलज्जितास्यपङ्कजम् ।
धेनुधूलिधूसराङ्गशोभिहारनूपुरं
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ५ ॥

वत्सधेनुगोपबालभीषणोत्थवह्निपं
केकिपिच्छकल्पितावतंसशोभिताननम् ।
वेणुवाद्यमत्तधोषसुन्दरीमनोहरं
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ६ ॥

गर्वितामरेन्द्रकल्पकल्पितान्नभोजनं
शारदारविन्दवृन्दशोभिहंसजारतम् ।
दिव्यगन्धलुब्धभृङ्गपारिजातमालिनं
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ७ ॥

वासरावसानगोष्ठगामिगोगणानुगं
धेनुदोहदेहगेहमोहविस्मयक्रियम् ।
स्वीयगोकुलेशदानदत्तभक्तरक्षणं
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ८ ॥

॥ इति श्रीरघुनायप्रभुविरचितं श्रीगोकुलेशाष्टकं सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Sri Krishna Slokam » Sri Gokulesha Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Anjaneya Mangalashtakam In Sanskrit