Sri Gopalashtakam In Sanskrit

॥ Sri Gopalashtakam Sanskrit Lyrics ॥

॥ श्रीगोपालाष्टकम् ॥
श्री गणेशाय नमः ॥

यस्माद्विश्वं जातमिदं चित्रमतर्क्यं यस्मिन्नानन्दात्मनि नित्यं रमते वै ।
यत्रान्ते संयाति लयं चैतदशेषं तं गोपालं सन्ततकालं प्रति वन्दे ॥ १ ॥

यस्याज्ञानाज्जन्मजरारोगकदम्बं ज्ञाते यस्मिन्नश्यति तत्सर्वमिहाशु ।
गत्वा यत्रायाति पुनर्नो भवभूमिं तं गोपालं सन्ततकालं प्रति वन्दे ॥ २ ॥

तिष्ठन्नन्तर्यो यमयत्येतदजस्रं यं कश्चिन्नो वेद जनोऽप्यात्मनि सन्तम् ।
सर्वं यस्येदं च वशे तिष्ठति विश्वं तं गोपालं सन्ततकालं प्रति वन्दे ॥ ३ ॥

धर्मोऽधर्मेणेह तिरस्कारमुपैति काले यस्मिन्मत्स्यमुखैश्चारुचरित्रैः ।
नानारूपैः पाति तदा योऽवनिबिम्बं तं गोपालं सन्ततकालं प्रति वन्दे ॥ ४ ॥

प्राणायामैर्ध्वस्तसमस्तेन्द्रियदोषा रुध्वा चित्तं यं हृदि पश्यन्ति समाधौ ।
ज्योतीरूपं योगिजनामोदनिमग्नास्तं गोपालं सन्ततकालं प्रति वन्दे ॥ ५ ॥

भानुश्चन्द्रश्चोडुगणैश्चैव हुताशो यस्मिन्नैवाभाति तडिच्चापि कदापि ।
यद्भासा चाभाति समस्तं जगदेतत् तं गोपालं सन्ततकालं प्रति वन्दे ॥ ६ ॥

सत्यज्ञानं मोदमवोचुर्निगमा यं यो ब्रह्मेन्द्रादित्यगिरीशार्चितपादः ।
शेतेऽनन्तोऽनन्ततनावम्बुनिधौ यस्तं गोपालं सन्ततकालं प्रति वन्दे ॥ ७ ॥

शैवाः प्राहुर्यं शिवमन्ये गणनाथं शक्तिं चैकेऽर्कं च तथान्ये मतिभेदात् ।
नानाकारैर्भाति य एकोऽखिलशक्तिस्तं गोपालं सन्ततकालं प्रति वन्दे ॥ ८ ॥

See Also  Sri Radha Krishna Ashtakam In Telugu

श्रीमद्गोपालाष्टकमेतत् समधीते भक्त्या नित्यं यो मनुजो वै स्थिरचेताः ।
हित्वा तूर्णं पापकलापं स समेति पुण्यं विष्णोर्धाम यतो नैव निपातः ॥ ९ ॥

इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्री गोपालाष्टकं सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Sri Krishna Slokam » Sri Gopalashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil