॥ Sri Kashi Vishweshvaraadi Stotram in Marathi ॥
॥ श्रीकाशिविश्वॆश्वरादि स्तॊत्रम ॥
नमः श्रीविश्वनाथाय दॆववन्द्यपदाय तॆ ॥
काशीशॆशावतारॆ मॆ दॆवदॆव ह्युपादिश ॥ १ ॥
मायाधीशं महात्मानं सर्वकारणकारणम ॥
वन्दॆ तं माधवं दॆवं यः काशीं चाधितिष्ठति ॥ २ ॥
वन्दॆ तं धर्मगॊप्तारं सर्वगुह्यार्थवॆदिनम ॥
गणदॆवं ढुण्ढिराजं तं महान्तं स्वविघ्नहम ॥ ३ ॥
भारं वॊढुं स्वभक्तानां यॊ यॊगं प्राप्त उत्तमम ॥
तं सढुण्ढिं दण्डपाणिं वन्दॆ गङ्गातटस्थितम ॥ ४ ॥
भैरवं दंष्ट्राकराळं भक्ताभयकरं भजॆ ॥
दुष्टदण्डशूलशीर्षधरं वामाध्वचारिणम ॥ ५ ॥
श्रीकाशीं पापशमनीं दमनीं दुष्टचॆतसः ॥
स्वनिःश्रॆणिं चाविमुक्तपुरीं मर्त्यहितां भजॆ ॥ ६ ॥
नमामि चतुराराध्यां सदाऽणिम्नि स्थितिं गुहाम ॥
श्रीगङ्गॆ भैरवीं दूरीकुरु कल्याणि यातनाम ॥ ७ ॥
भवानि रक्षान्नपूर्णॆ सद्वर्णितगुणॆऽम्बिकॆ ॥
दॆवर्षिवन्द्यांबुमणिकर्णिकां मॊक्षदां भजॆ ॥ ८ ॥
इति काशीविश्वॆश्वरादिस्तॊत्रं संपूर्णम ॥
– Chant Stotra in Other Languages –
Sri Kashivishveshvaraadi Stotram in Marathi – Gujarati । Bengali – Kannada – Malayalam – Telugu