Sri Lalitha Trisati Stotram Uttarapeetika In Sanskrit

 ॥ Lalitha Trisati Stotram Uttarapeetika Sanskrit Lyrics ॥

॥ श्री ललिता त्रिशती स्तोत्रम् फलशृति (उत्तर पीठिक) ॥
श्री ललिता त्रिशती स्तोत्र फलशृति (उत्तर पीठिक)

हयग्रीव उवाच-
इतीदं ते मयाख्यातं दिव्यनाम्नां शतत्रयम् ।
रहस्यातिरहस्यत्वा-द्गोपनीयं महामुने ॥ ६० ॥

शिववर्णानि नामानि श्रीदेवीकथितानि वै ।
शक्त्यक्षराणि नामानि कामेशकथितानि हि ॥ ६१ ॥

उभयाक्षरनामानि ह्युभाभ्यां कथितानि वै ।
तदन्यैर्ग्रथितं स्तोत्रमेतस्य सदृशं किमु ॥ ६२ ॥

नानेन सदृशं स्तोत्रं श्रीदेवीप्रीतिदायकम् ।
लोकत्रयेपि कल्याणं सम्भवेन्नात्र सम्शयः ॥ ६३ ॥

सूत उवाच-
इति हयमुखगीतं स्तोत्रराजं निशम्य
प्रगलितकलुषोभूच्छित्तपर्याप्ति मेत्य ।
निजगुरुमथ नत्वा कुम्भजन्मा तदुक्तेः
पुनरधिकरहस्यं ज्ञातुमेवं जगाद ॥ ६४ ॥

अगस्त्य उवाच-
अश्वानन महाभाग रहस्यमपि मे वद ।
शिववर्णानि कान्यत्र शक्तिवर्णानि कानि हि ॥ ६५ ॥

उभयोरपि वर्णानि कानि मे वद देशिक ।
इति पृष्टः कुम्भजेन हयग्रीवोऽवदत्पुनः ॥ ६६ ॥

श्री हयग्रीव उवाच-
तव गोप्यं किमस्तीह साक्षादम्बाकटाक्षतः ।
इदन्त्वतिरहस्यं ते वक्ष्यामि शृणु कुम्भज ॥ ६७ ॥

एतद्विज्ञानमात्रेण श्रीविद्या सिद्धिदा भवेत् ।
कत्रयं हद्वयं चैव शैवो भागः प्रकीर्तितः ॥ ६८ ॥

शक्त्याक्षराणि शेषाणि ह्रीङ्कार उभयात्मकः ।
एवं विभागमज्ञात्वा श्रीविद्याजपशीलिनः ॥ ६९ ॥

न तेषां सिद्धिदा विद्या कल्पकोटिशतैरपि ।
चतुर्भिश्शिवचक्रैश्च शक्तिचक्रैश्च पञ्चभिः ॥ ७० ॥

नवचक्रैस्तु संसिद्धं श्रीचक्रं शिवयोर्वपुः ।
त्रिकोणमष्टकोणं च दशकोणद्वयं तथा ॥ ७१ ॥

चतुर्दशारं चैतानि शक्तिचक्राणि पञ्च वै ।
बिन्दु श्चाष्टदलं पद्मं पद्मं षोडशपत्रकम् ॥ ७२ ॥

See Also  Brahma Kadigina Padamu In Sanskrit

चतुरश्रं च चत्वारि शिवचक्राण्यनुक्रमात् ।
त्रिकोणे बैन्दवं श्लिष्टमष्टारेष्टदलाम्बुजम् ॥ ७३ ॥

दशारयोष्षोडशारं भूपुरं भुवनाश्रके ।
शैवानामपि शाक्तानां चक्राणां च परस्परम् ॥ ७४ ॥

अविनाभावसम्बन्धं यो जानाति स चक्रवित् ।
त्रिकोणरूपिणी शक्तिर्बिन्दुरूपश्शिवस्स्मृतः ॥ ७५ ॥

अविनाभावसम्बन्धस्तस्माद्बिन्दुत्रिकोणयोः ।
एवं विभागमज्ञात्वा श्रीचक्रं यस्समर्चयेत् ॥ ७६ ॥

न तत्फलमवाप्नोति ललिताम्बा न तुष्यति ।
ये च जानन्ति लोकेस्मिन् श्रीविद्यां चक्रवेदिनः ॥ ७७ ॥

सामान्यवेदिनस्ते वै विशेषज्ञोऽतिदुर्लभः ।
स्वयं विद्याविशेषज्ञो विशेषज्ञं समर्चयेत् ॥ ७८ ॥

तस्त्मै देयं ततो ग्राह्यं श्रीविद्याचक्रवेदिना ।
अन्धं तमः प्रविशन्ति ये ह्यविद्यामुपासते ॥ ७९ ॥

इति श्रुतिरप्याहैता नविद्योपासकान् पुनः ।
विद्यानुपासकानेव निन्दत्यारुणिकी श्रुतिः ॥ ८० ॥

अश्रुतासश्श्रुतासश्च यज्वानो येप्ययज्वनः ।
स्वर्यन्तोनाप्यपेक्षन्त इन्द्रमग्निं च ये विदुः ॥ ८१ ॥

सिकता इव सम्यन्ति रश्मिभिस्समुदीरिताः ।
अस्माल्लोकादमुष्माच्चेत्यप्याहारुणिकी श्रुतिः ॥ ८२ ॥

यः प्राप्तः पृश्निभावं वा यदि वा शङ्करस्स्वयम् ।
तेनैव लभ्यते विद्या श्रीमत्पञ्चदशाक्षरी ॥ ८३ ॥

इति तन्त्रेषु बहुधा विद्याया महिमोच्यते ।
मोक्षैकहेतुविद्या तु श्रीविद्यैव न सम्शयः ॥ ८४ ॥

न शिल्पादिज्ञानयुक्ते विद्वच्छब्दः प्रयुज्यते ।
मोक्षैकहेतुविद्या सा श्रीविद्यैव न सम्शयः ॥ ८५ ॥

तस्माद्विद्याविदे दद्यात् ख्यापयेत्तद्गुणान्सुधीः ।
स्वयं विद्याविशेषज्ञो विद्यामाहात्म्यवेद्यपि ॥ ८६ ॥

विद्याविदं नार्चयेच्चेत्कोवा तं पूजयेज्जनः ।
प्रसङ्गादेतदुक्तं ते प्रकृतं शृणु कुम्भज ॥ ८७ ॥

See Also  Sri Krishna Ashtottara Shatanama Stotram In Sanskrit

यः कीर्तयेत्सकृद्भक्त्या दिव्यं नाम्नां शतत्रयम् ।
तस्य पुण्यफलं वक्ष्ये विस्तरेण घटोद्भव ॥ ८८ ॥

रहस्यनामसाहस्रपाठे यत्फल मीरितम् ।
तत्कोटिकोटिगुणीतमेकनामजपाद्भवेत् ॥ ८९ ॥

कामेश्वराभ्यां तदिदं कृतं नामशतत्रयम् ।
नान्येन तुलयेदेतत्स्तोत्रेणान्यकृतेन तु ॥ ९० ॥

श्रियःपरम्परा यस्य भाविनी तूत्तरोत्तरम् ।
तेनैव लभ्यते नाम्नां त्रिशती सर्वकामदा ॥ ९१ ॥

अस्या नाम्नां त्रिशत्यास्तु महिमा केन वर्ण्यते ।
या स्वयं शिवयोर्वक्त्रपद्माभ्यां परिनिस्सृता ॥ ९२ ॥

नित्याषोडशिकारूपान्विप्रानादौ तु भोजयेत् ।
अभ्यक्ता गन्धतैलेन स्नातानुष्णेन वारिणा ॥ ९३ ॥

अभ्यर्च्य वस्त्रगन्धाद्यैः कामेश्वर्यादिनामभिः ।
अपूपैश्शर्कराद्यैश्च फलैः पुष्पैस्सुगन्धिभिः ॥ ९४ ॥

विद्याविदो विशेषेण भोजयेत्षोडश द्विजाः ।
एवं नित्यबलिं कुर्यादादौ ब्राह्मणभोजने ॥ ९५ ॥

पश्चात्त्रिशत्या नाम्नां तु ब्राह्मणान् क्रमशोऽर्चयेत् ।
तैलाभ्यङ्गादिकं दद्याद्विभवे सति भक्तितः ॥ ९६ ॥

शुक्ल प्रतिपदारभ्य पौर्णमास्यवधि क्रमात् ।
दिवसे दिवसे विप्रा भोज्या विम्शतिसङ्ख्यया ॥ ९७ ॥

दशभिः पञ्चभिर्वापि त्रिभिरेकेन वा दिनैः ।
त्रिम्शत्षष्ठिशतं विप्रान् भोजयेत्त्रिशतं क्रमात् ॥ ९८ ॥

एवं यः कुरुते भक्त्या जन्ममध्ये सकृन्नरः ।
तस्यैव सफलं जन्म मुक्तिस्तस्य करे स्थिता ॥ ९९ ॥

रहस्यनामसाहस्रैरर्चनेप्येवमेव हि ।
आदौ नित्यबलिं कुर्यात्पश्चाद्ब्राह्मणभोजनम् ॥ १०० ॥

रहस्यनामसाहस्रमहिमा यो मयोदितः ।
सशीकराणुरत्रैकनाम्नो महिमवारिधेः ॥ १०१ ॥

वाग्देवीरचिते नामसाहस्रे यद्यदीरितम् ।
तत्तत्फलमवाप्नोति नाम्नोप्येकस्य कीर्तनात् ॥ १०२ ॥

एतदन्यैर्जपैः स्तोत्रैरर्चनैर्यत्फलं भवेत् ।
तत्फलं कोटिगुणितं भवेन्नामशतत्रयात् ॥ १०३ ॥

रहस्यनामसाहस्रकोट्यावृत्त्यास्तु यत्फलम् ।
तद्भवेत्कोटिगुणितं नामत्रिशतकीर्तनात् ॥ १०४ ॥

See Also  Vakaradi Varaha Ashtottara Shatanama Stotram In Sanskrit

वाग्देवीरचिते स्तोत्रे तादृशो महिमा यदि ।
साक्षात्कामेशकामेशीकृतेऽस्मिन् गृह्यतामिति ॥ १०५ ॥

सकृत्सङ्कीर्तनादेव नाम्नामस्मिन् शतत्रये ।
भवेच्चित्तस्य पर्याप्तिर्नूनमन्यानपेक्षिणी ॥ १०६ ॥

न ज्ञातव्यमितस्त्वन्यज्जगत्सर्वं च कुम्भज ।
यद्यत्साध्यतमं कार्यं तत्तदर्थमिदं जपेत् ॥ १०७ ॥

तत्तत्सिद्धिमवाप्नोति पश्चात्कार्यं परीक्षयेत् ।
ये ये प्रसङ्गास्तन्त्रेषु तैस्तैर्यत्साध्यते ध्रुवम् ॥ १०८ ॥

तत्सर्वं सिद्ध्यति क्षिप्रं नामत्रिशतकीर्तनात् ।
आयुष्करं पुष्टिकरं पुत्रदं वश्यकारकम् ॥ १०९ ॥

विद्याप्रदं कीर्तिकरं सुकवित्वप्रदायकम् ।
सर्वसम्पत्प्रदं सर्वभोगदं सर्वसौख्यदम् ॥ ११० ॥

सर्वाभीष्टप्रदं चैव देवीनामशतत्रयम् ।
एतज्जपपरो भूयान्नान्यदिच्छेत्कदाचन ॥ १११ ॥

एतत्कीर्तनसन्तुष्टा श्रीदेवी ललिताम्बिका ।
भक्तस्य यद्यदिष्टं स्यात्तत्तत्पूरयते ध्रुवम् ॥ ११२ ॥

तस्मात्कुम्भोद्भवमुने कीर्तयत्वमिदं सदा ।
अपरं किञ्चिदपि ते बोद्धव्यं नाऽवशिष्यते ॥ ११३ ॥

इति ते कथितं स्तोत्रं ललिताप्रीतिदायकम् ।
नाऽविद्यावेदिने ब्रूयान्नाऽभक्ताय कदाचन ॥ ११४ ॥

न शठाय न दुष्टाय नाऽविश्वासाय कर्हिचित् ।
यो ब्रूयात्त्रिशतीं नाम्नां तस्यानर्थो महान्भवेत् ॥ ११५ ॥

इत्याज्ञा शाङ्करी प्रोक्ता तस्माद्गोप्यमिदं त्वया ।
ललिताप्रेरितेनैव मयोक्तं स्तोत्रमुत्तमम् ॥ ११६ ॥

रहस्यनामसाहस्रादतिगोप्यमिदं मुने ।
एवमुक्त्वा हयग्रीवः कुम्भजं तापसोत्तमम् ॥ ११७ ॥

स्तोत्रेणानेन ललितां स्तुत्वा त्रिपुरसुन्दरीम् ।
आनन्दलहरीमग्नमानसस्समवर्तत ॥ ११८ ॥

इति ब्रह्माण्डपुराणे – उत्तरखण्डे – हयग्रीवागस्त्यसंवादे –
ललितोपाख्याने – स्तोत्रखण्डे – ललिताम्बात्रिसतीस्तोत्ररत्नं समाप्तम् ॥

– Chant Stotra in Other Languages –

Sri Lalitha Trisati Stotram Uttarapeetika Lyrics in English » Kannada » Telugu » Tamil