Sri Rudra Stuti In Sanskrit

॥ Sri Rudra Stuti in Sanskrit ॥

॥ श्री रुद्र स्तुति ॥
नमो देवाय महते देवदेवाय शूलिने ।
त्र्यम्बकाय त्रिनेत्राय योगिनां पतये नमः ॥ १ ॥

नमोऽस्तु देवदेवाय महादेवाय वेधसे ।
शंभवे स्थाणवे नित्यं शिवाय परमात्मने ॥ २ ॥

नमः सोमाय रुद्राय महाग्रासाय हेतवे ।
प्रपद्येहं विरूपाक्षं शरण्यं ब्रह्मचारिणम् ॥ ३ ॥

महादेवं महायोग-मीशानं-त्वम्बिकापतिम् ।
योगिनां योगदाकारं योगमायासमाहृतम् ॥ ४ ॥

योगिनां गुरुमाचार्यं योगगम्यं सनातनम् ।
संसारतारणं रुद्रं ब्रह्माणं ब्रह्मणोऽधिपम् ॥ ५ ॥

शाश्वतं सर्वगं शान्तं ब्रह्माणं ब्राह्मणप्रियम् ।
कपर्दिनं कलामूर्तिं अमूर्तिं अमरेश्वरम् ॥ ६ ॥

एकमूर्तिं महामूर्तिं वेदवेद्यं सतां गतिम् ।
नीलकण्ठं विश्वमूर्तिं व्यापिनं विश्वरेतसम् ॥ ७ ॥

कालाग्निं कालदहनं कामिनं कामनाशनम् ।
नमामि गिरिशं देवं चन्द्रावयवभूषणम् ॥ ८ ॥

त्रिलोचनं लेलिहानमादित्यं परमेष्ठिनम् ।
उग्रं पशुपतिं भीमं भास्करं तमसः परम् ॥ ९ ॥

इति श्रीकूर्मपुराणे व्यासोक्त रुद्रस्तुतिः ॥

– Chant Stotra in Other Languages –

Sri Rudra Stuti in Sanskrit – English –  KannadaTeluguTamil

See Also  Hanuman Aarti In Sanskrit