Sri Sarva Mangala Ashtakam In Sanskrit

॥ Sarvamangala Ashtakam Sanskrit Lyrics ॥

॥ सर्वमङ्गलाष्टकम् ॥
श्रीगणेशाय नमः ।
लक्ष्मीर्यस्य परिग्रहः कमलभूः सूनुर्गरुत्मान् रथः
पौत्रश्चन्द्रविभूषणः सुरगुरुः शेषश्च शय्यासनः ।
ब्रह्माण्डं वरमन्दिरं सुरगणा यस्य प्रभोः सेवकाः
स त्रैलोक्यकुटुम्बपालनपरः कुर्यात् सदा मङ्गलम् ॥ १ ॥

ब्रह्मा वायुगिरीशशेषगरुडा देवेन्द्रकामौ गुरुश्-
चन्द्रार्कौ वरुणानलौ मनुयमौ वित्तेशविघ्नेश्वरौ ।
नासत्यौ निरृतिर्मरुद्गणयुताः पर्जन्यमित्रादयः
सस्त्रीकाः सुरपुङ्गवाः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ २ ॥

विश्वामित्रपराशरौर्वभृगवोऽगस्त्यः पुलस्त्यः क्रतुः
श्रीमानत्रिमरीचिकौत्सपुलहाः शक्तिर्वसिष्ठोऽङ्गिराः ।
माण्डवयो जमदग्निगौतमभरद्वाजादयस्तापसाः
श्रीमद्विश्णुपदाब्जभक्तिनिरताः कुर्वन्तु वो मङ्गलम् ॥ ३ ॥

मान्धाता नहुषोऽम्बरीषसगरौ राजा पृथुर्हैहयः
श्रीमान् धर्मसुतो नलो दशरथो रामो ययातिर्यदुः ।
इक्ष्वाकुश्च विभीशणश्च भरतश्चोत्तानपादध्रुवा-
वित्याद्या भुवि भूभुजः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ४ ॥

श्रीमेरुर्हिमवाँश्च मन्दरगिरिः कैलासशैलस्तथा
माहेन्द्रो मलयश्च विन्ध्यनिषधौ सिंहस्तथा रैवतः ।
सह्याद्रिर्वरगन्धमादनगिरिर्मैनाकगोमन्तका-
वित्याद्या भुवि भूभृतः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ५ ॥

गङ्गा सिन्धुसरस्वती च यमुना गोदावरी नर्मदा
कृष्णा भीमरथी च फल्गुसरयूः श्रीगण्डकी गोमती ।
कावेरीकपिलाप्रयागविनतावेत्रावतीत्यादयो
नद्यः श्रीहरिपादपङ्कजभवाः (प्रतिदिनं) कुर्वन्तु वो मङ्गलम् ॥ ६ ॥

वेदाश्चोपनिषद्गणाश्च विविधाः साङ्गा पुराणान्विता
वेदान्ता अपि मन्त्र-तन्त्रसहितास्तर्कस्मृतीनां गणाः ।
काव्यालङ्कृतिनीतिनाटकगणाः शब्दाश्च नानाविधाः
श्रीविष्णोर्गुणराशिकीर्तनकराः (प्रतिदिनं) कुर्वन्तु वो मङ्गलम् ॥ ७ ॥

See Also  Sri Balakrishna Ashtakam In Tamil

आदित्यादिनवग्रहाः शुभकरा मेषादयो राशयो
नक्षत्राणि सयोगकाश्च तिथयस्तद्देवतस्तद्गणाः ।
मासाब्दा ऋतवस्तथैव दिवसाः सन्ध्यास्तथा रात्रयाः
सर्वे स्थावरजङ्गमाः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ८ ॥

इत्येतद्वरमङ्गलाष्टकमिदं श्रीवादिराजेश्वरै-
र्व्याखातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम् ।
माङ्गल्यादिशुभक्रियासु सततं सन्ध्यासु वा याः पठेद्-
धर्मार्थादिसमस्तवाञ्छितफलं प्राप्नोत्यसौ मानवाः ॥ ९ ॥

इति श्रीमद्वादिराजविरचितं सर्वमङ्गलाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Sarva Mangala Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil