Sri Shiva Dvadasha Nama Stotram In Sanskrit

॥ Shiva Dwadasha Nama Stotram in Sanskrit ॥

॥ श्री शिव द्वादशनाम स्तोत्रम् ॥
प्रथमस्तु महादेवो द्वितीयस्तु महेश्वरः ।
तृतीयः शङ्करो ज्ञेयश्चतुर्थो वृषभध्वजः ॥ १ ॥

पञ्चमः कृत्तिवासाश्च षष्ठः कामाङ्गनाशनः ।
सप्तमो देवदेवेशः श्रीकण्ठश्चाष्टमः स्मृतः ॥ २ ॥

ईश्वरो नवमो ज्ञेयो दशमः पार्वतीपतिः ।
रुद्र एकादशश्चैव द्वादशः शिव उच्यते ॥ ३ ॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
कृतघ्नश्चैव गोघ्नश्च ब्रह्महा गुरुतल्पगः ॥ ४ ॥

स्त्रीबालघातुकश्चैव सुरापो वृषलीपतिः ।
मुच्यते सर्वपाप्येभ्यो रुद्रलोकं स गच्छति ॥ ५ ॥

– Chant Stotra in Other Languages –

Sri Shiva Dwadasha Nama Stotram in Sanskrit – English –  KannadaTeluguTamil

See Also  Shiva Rama Ashtakam In Telugu