Sri Shiva Navaratnamala Stavah In Marathi

॥ Sri Shiva Navaratna Mala Stavah in Marathi ॥

॥ श्रीशिव नवरत्नमाला स्तव ॥
कलय कलावित्प्रवरं कलया नीहारदीधितेः शीर्षम ।
सततमलङ्कुर्वाण प्रयतावनदीक्ष यक्षराजसख ॥ 1 ॥

कान्तागेन्द्रसुतायाः शान्ताहङ्कारचिन्त्यचिद्रूप ।
कान्तारखेलनरुचे शान्तान्तःकरणमेनमव शंभो ॥ 2 ॥

दाक्षायणीमनोऽम्बुजभानो वीक्षावितीर्णविनतेष्ट ।
द्राक्षामधुरिममदभरशिक्षाकर्त्रीं प्रदेहि मम वाचम ॥ 3 ॥

पारदसमानवर्णो नीरदनीकाशदिव्यगलदेशः ।
पादनतदेवसङ्घः पशुनिशं पातु मामीशः ॥ 4 ॥

प्रत्यक्षो भव शंभो गुरुरूपेणाशु मेऽद्य करुणाब्धे ।
चिरतरमिह वासं कुरु जगतीं रक्षन्प्रबोधदानेन ॥ 5 ॥

यक्षाधिपसखमनिशं रक्षाचतुरं समस्तलोकानाम ।
वीक्षादापितकवितं दाक्षायण्याः पतिं नौमि ॥ 6 ॥

यमनियमनिरतलभ्यं शमदममुखषट्कदानकृतदीक्षम ।
रमणीयपदसरोजं शमनाहितमाश्रये सततम ॥ 7 ॥

यमिहृन्मानसहंसं शमिताघौघं प्रणाममात्रेण ।
अमितायुःप्रदपूजं कमितारं नौमि शैलतनयायाः ॥ 8 ॥

येन कृतमिन्दुमौले मानववर्येण तावकस्मरणम ।
तेन जितं जगदखिलं को न ब्रुते सुरार्यतुल्येन ॥ 9 ॥

इति शिवनवरत्नमालास्तवः संपूर्णः ॥

– Chant Stotra in Other Languages –

Sri Shiva Navaratna Mala Stavah in Marathi – GujaratiBengali –  KannadaMalayalamTelugu

See Also  Maharudra Stotram In Malayalam – Malayalam Shlokas