Sri Venkatesha Ashtakam In Sanskrit

॥ Sri Venkatesha Ashtakam Sanskrit Lyrics ॥

॥ श्रीवेङ्कटेशाष्टकम् ॥

श्रीवेङ्कटेशपदपङ्कज धूलिपङ्क्तिः
संसारसिन्धुतरणे तरणिर्नवीना ।
सर्वाघपुञ्जहरणायच धूमकेतुः
पायादनन्यशरणं स्वयमेव लोकम् ॥ १ ॥

शेषाद्रिगेहतव कीर्तितरङ्गपुञ्ज
आभूमिनाकमभितःसकलान्पुनानः ।
मत्कर्णयुग्मविवरेपरिगम्य सम्यक्
कुर्यादशेषमनिशङ्खलु तापभङ्गम् ॥ २ ॥

वैकुण्ठराजसकलोऽपि धनेशवर्गो
नीतोऽपमानसरणिंत्वयि विश्वसित्रा ।
तस्मादयंन समयः परिहासवाचाम्
इष्टंप्रपूर्य कुरु मां कृतकृत्यसङ्घम् ॥ ३ ॥

श्रीमन्नारास्तुकतिचिद्धनिकांश्च केचित्
क्षोणीपतीन्कतिचिदत्रच राजलोकान् ।
आराधयन्तुमलशून्यमहं भवन्तं
कल्याणलाभजननायसमर्थमेकम् ॥ ४ ॥

लक्ष्मीपतित्वमखिलेशतव प्रसिद्धमत्र
प्रसिद्धमवनौमदकिञ्चनत्वम् ।
तस्योपयोगकरणायमया त्वया च कार्यः
समागमैदं मनसि स्थितं मे ॥ ५ ॥

शेषाद्रिनाथभवताऽयमहं सनाथः
सत्यंवदामि भगवंस्त्वमनाथ एव ।
तस्मात्कुरुष्वमदभीप्सित कृत्यजालम्-
एवत्वदीप्सित कृतौ तु भवान्समर्थः ॥ ६ ॥

क्रुद्धोयदा भवसि तत्क्षणमेव भूपो
रङ्कायतेत्वमसि चेत्खलु तोषयुक्तः ।
भूपायतेऽथनिखिलश्रुतिवेद्य रङ्क
इच्छाम्यतस्तवदयाजलवृष्टिपातम् ॥ ७ ॥

अङ्गीकृतंसुविरुदं भगवंस्त्वयेति
मद्भक्तपोषणमहंसततं करोमि ।
आविष्कुरुस्वमयि सत्सततं प्रदीने
चिन्ताप्रहारमयमेवहियोग्यकालः ॥ ८ ॥

सर्वासुजातिषु मयातु समत्वमेव
निश्चीयतेतव विभो करुणाप्रवाहात् ।
प्रह्लादपाण्डुसुतबल्लव गृघ्रकादौ
नीचोन भाति मम कोऽप्यत एव हेतोः ॥ ९ ॥

सम्भावितास्तुपरिभूतिमथ प्रयान्ति
धूर्ताजपं हि कपटैकपरा जगत्याम् ।
प्राप्तेतु वेङ्कटविभो परिणामकाले
स्याद्वैपरीत्यमिवकौरवपाण्डवानाम् ॥ १० ॥

श्रीवेङ्कटेशतव पादसरोजयुग्मे
संसारदुःखशमनाय समर्पयामि ।
भास्वत्सदष्टकमिदं रचितं
प्रभाकरोऽहमनिशंविनयेन युक्तः ॥ ११ ॥

See Also  Hymn To Krishna As Nandakumar In Tamil

श्रीशालिवाहनशकेशरकाष्टभूमि (१८१५)
सङ्ख्यामितेऽथविजयाभिधवत्सरेऽयम् ।
श्रीकेशवात्मजैदं व्यतनोत्समल्पं
स्तोत्रम्प्रभाकर इति प्रथिताभिधाना ॥ १२ ॥

इतिगार्ग्यकुलोत्पन्न यशोदागर्भज-केशवात्मज-प्रभाकर-कृतिषु
श्रीवेङ्कटेशाष्टकं स्तोत्रं समाप्तम् ॥

श्रीकृष्णदास तनुजस्य मया तु
गङ्गाविष्णोरकारिकिल सूचनयाष्टकं यत् ।
तद्वेङ्कटेशमनसो मुदमातनोतु
तद्भक्तलोकनिवहानन पङ्क्तिगं सत् ॥

पित्रोर्गुरोश्चाप्यपराधकारिणो
भ्रातुस्तथाऽन्यायकृतश्चदुर्गतः ।
तेषुत्वयाऽथापि कृपा विधीयतां
सौहार्दवश्येनमया तु याच्यते ॥

– Chant Stotra in Other Languages –

Sri Vishnu Slokam » Sri Venkatesha Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil