Vighneshwara Ashtottara Shatanama Stotram In Sanskrit

॥ Sri Ganapathy Ashtottara Shatanama Stotram Sanskrit Lyrics ॥

॥ श्रीविघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् ॥
विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः ।
स्कन्दाग्रजोऽव्ययो पूतो दक्षोऽध्यक्षो द्विजप्रियः ॥ १ ॥

अग्निगर्भच्छिदिन्द्रश्रीप्रदो वाणीबलप्रदः ।
सर्वसिद्धिप्रदश्शर्वतनयः शर्वरीप्रियः ॥ २ ॥

सर्वात्मकः सृष्टिकर्ता देवोऽनेकार्चितश्शिवः ।
शुद्धो बुद्धिप्रियश्शान्तो ब्रह्मचारी गजाननः ॥ ३ ॥

द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः ।
एकदन्तश्चतुर्बाहुश्चतुरश्शक्तिसंयुतः ॥ ४ ॥

लम्बोदरश्शूर्पकर्णो हरिर्ब्रह्म विदुत्तमः ।
कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥ ५ ॥

पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः ।
अकल्मषस्स्वयंसिद्धस्सिद्धार्चितपदाम्बुजः ॥ ६ ॥

बीजपूरफलासक्तो वरदश्शाश्वतः कृतिः ।
द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् ॥ ७ ॥ विद्वत्प्रियो

श्रीदोऽजोत्पलकरः श्रीपतिः स्तुतिहर्षितः ।
कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ॥ ८ ॥

चन्द्रचूडामणिः कान्तः पापहारी समाहितः ।
आश्रितश्श्रीकरस्सौम्यो भक्तवाञ्छितदायकः ॥ ९ ॥

शान्तः कैवल्यसुखदस्सच्चिदानन्दविग्रहः ।
ज्ञानी दयायुतो दान्तो ब्रह्म द्वेषविवर्जितः ॥१० ॥

प्रमत्तदैत्यभयदः श्रीकण्ट्ःओ विबुधेश्वरः ।
रमार्चितोविधिर्नागराजयज्ञोपवीतकः ॥११ ॥

स्थूलकण्ठः स्वयङ्कर्ता सामघोषप्रियः परः ।
स्थूलतुण्डोऽग्रणीर्धीरो वागीशस्सिद्धिदायकः ॥ १२ ॥

दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान् ।
शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ॥ १३ ॥

स्वलावण्यसुधासारो जितमन्मथविग्रहः ।
समस्तजगदाधारो मायी मूषकवाहनः ॥१४ ॥

हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ।
अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुं ॥ १५ ॥

See Also  Mooshika Vahana Modaka Hastha In Sanskrit, English

तुष्टाव शङ्करः पुत्रं त्रिपुरं हन्तुमुत्यतः ।
यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ॥१६ ॥

दूर्वादलैर्बिल्वपत्रैः पुष्पैर्वा चन्दनाक्षतैः ।
सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ॥

इति श्रीविघ्नेश्वराष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Ganesa Slokam » Sri Vighneshwara Ashtottara Shatanama Stotram Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil