Sri Vishnu Ashtottara Shatanama Stotram In Sanskrit

॥ Sri Vishnu Ashtottara Shatanama Stotram Sanskrit Lyrics ॥

॥ श्रीविष्णवष्टोत्तरशतनामस्तोत्रम् ॥

नमाम्यहं हृषीकेशं केशवं मधुसूदनम् ।
सूदनं सर्वदैत्यानां नारायणमनामयम् ॥ १ ॥

जयन्तं विजयं कृष्णं अनन्तं वामनं तथा ।
विष्णुं विश्वेश्वरं पुण्यं विश्वात्मानं सुरार्चितम् ॥ २ ॥

अनघं त्वघहर्तारं नारसिंहं श्रियः प्रियम् ।
श्रीपतिं श्रीधरं श्रीदं श्रीनिवासं महोदयम् ॥ ३ ॥

श्रीरामं माधवं मोक्षक्षमारूपं जनार्दनम् ।
सर्वज्ञं सर्ववेत्तारं सर्वेशं सर्वदायकम् ॥ ४ ॥

हरिं मुरारिं गोविन्दं पद्मनाभं प्रजापतिम् ।
आनन्दज्ञानसम्पन्नं ज्ञानदं ज्ञानदायकम् ॥ ५ ॥

अच्युतं सबलं चन्द्रवक्त्रं व्याप्तपरावरम् ।
योगेश्वरं जगद्योनिं ब्रह्मरूपं महेश्वरम् ॥ ६ ॥

मुकुन्दं चापि वैकुण्ठमेकरूपं कविं ध्रुवम् ।
वासुदेवं महादेवं ब्रह्मण्यं ब्राह्मणप्रियम् ॥ ७ ॥

गोप्रियं गोहितं यज्ञं यज्ञाङ्गं यज्ञवर्धनम् ।
यज्ञस्यापि च भोक्तारं वेदवेदाङ्गपारगम् ॥ ८ ॥

वेदज्ञं वेदरूपं तं विद्यावासं सुरेश्वरम् ।
प्रत्यक्षं च महाहंसं शङ्खपाणिं पुरातनम् ॥ ९ ॥

पुष्करं पुष्कराक्षं च वराहं धरणीधरम् ।
प्रद्युम्नं कामपालं च व्यासध्यातं महेश्वरम् ॥ १० ॥

सर्वसौख्यं महासौख्यं साङ्ख्यं च पुरुषोत्तमम् ।
योगरूपं महाज्ञानं योगीशमजितप्रियम् ॥ ११ ॥

See Also  108 Names Of Goddess Tara In Sanskrit

असुरारिं लोकनाथं पद्महस्तं गदाधरम् ।
गुहावासं सर्ववासं पुण्यवासं महाजनम् ॥ १२ ॥

वृन्दानाथं बृहत्कायं पावनं पापनाशनम् ।
गोपीनाथं गोपसखं गोपालं च गणाश्रयम् ॥ १३ ॥

परात्मानं पराधीशं कपिलं कार्यमानुषम् ।
नमामि निखिलं नित्यं मनोवाक्कायकर्मभिः ॥ १४ ॥

नाम्नां शतेनापि तु पुण्यकर्ता
यः स्तौति विष्णुं मनसा स्थिरेण ।
स याति लोकं मधुसूदनस्य
विहाय दोषानिह पुण्यभूतः ॥ १५ ॥

नाम्नां शतं महापुण्यं सर्वपातकशोधनम् ।
अनन्यमनसा ध्याजेज्जपेद्ध्यानसमन्वितः ॥ १६ ॥

नित्यमेव नरः पुण्यं गङ्गास्नानफलं लभेत् ।
तस्मात्तु सुस्थिरो भूत्वा समाहितमना जपेत् ॥ १७ ॥

इति श्रीविष्णवष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Vishnu Slokam » Sri Vishnu Ashtottara Shatanama Stotram Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil