Vishwakarma Ashtakam 2 In Sanskrit

॥ Vishwakarma Ashtakam 2 Sanskrit Lyrics ॥

॥ श्रीविश्वकर्माष्टकम् २ ॥

आदिरूप नमस्तुभ्यं नमस्तुभ्यं पितामह ।
विराटाख्य नमस्तुभ्यं विश्वकर्मन्नमोनमः ॥ १ ॥

आकृतिकल्पनानाथस्त्रिनेत्री ज्ञाननायकः ।
सर्वसिद्धिप्रदाता त्वं विश्वकर्मन्नमोनमः ॥ २ ॥

पुस्तकं ज्ञानसूत्रं च कम्बी सूत्रं कमण्डलुम् ।
धृत्वा संमोहनं देव विश्वकर्मन्नमोनमः ॥ ३ ॥

विश्वात्मा भूतरूपेण नानाकष्टसंहारक ।
तारकानादिसंहाराद्विश्वकर्मन्नमोनमः ॥ ४ ॥

ब्रह्माण्डाखिलदेवानां स्थानं स्वर्भूतलं तलम् ।
लीलया रचितं येन विश्वरूपाय ते नमः ॥ ५ ॥

विश्वव्यापिन्नमस्तुभ्यं त्र्यम्बकं हंसवाहनम् ।
सर्वक्षेत्रनिवासाख्यं विश्वकर्मन्नमोनमः ॥ ६ ॥

निराभासाय नित्याय सत्यज्ञानान्तरात्मने ।
विशुद्धाय विदूराय विश्वकर्मन्नमोनमः ॥ ७ ॥

नमो वेदान्तवेद्याय वेदमूलनिवासिने ।
नमो विविक्तचेष्टाय विश्वकर्मन्नमोनमः ॥ ८ ॥

यो नरः पठते नित्यं विश्वकर्माष्टकमिदम् ।
धनं धर्मं च पुत्रश्च लभेदान्ते परां गतिम् ॥ ९ ॥

इति विश्वकर्माष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Biswakarma Ashtakam 2 » Vishwakarma Ashtakam 2 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Rama Dasaratha Rama In Sanskrit