॥ Vraja Raja Suta Ashtakam Sanskrit Lyrics ॥
॥ व्रजराजसुताष्टकम् ॥
नवनीरदनिन्दितकान्तिधरं
रससागरनागरभूपवरम् ।
शुभवङ्किमचारुशिखण्डशिखं
भज कृष्णनिधिं व्रजराजसुतम् ॥ १ ॥
भ्रुविशङ्कितवङ्किमशक्रधनुं
मुखचन्द्रविनिन्दितकोटिविधुम् ।
मृदुमन्दसुहास्यसुभाष्ययुतं
भज कृष्णनिधिं व्रजराजसुतम् ॥ २ ॥
सुविकम्पदनङ्गसदङ्गधरं
व्रजवासिमनोहरवेशकरम् ।
भृशलाञ्छितनीलसरोज दृशं
भज कृष्णनिधिं व्रजराजसुतम् ॥ ३ ॥
अलकावलिमण्डितभालतटं
श्रुतिदोलितमाकरकुण्डलकम् ।
कटिवेष्टितपीतपटं सुधटं
भज कृष्णनिधिं व्रजराजसुतम् ॥ ४ ॥
कलनूपुरराजितचारुपदं
मणिरञ्जितगञ्जितभृङ्गमदम् ।
ध्वजवज्रझषाङ्कितपादयुगं
भज कृष्णनिधिं व्रजराजसुतम् ॥ ५ ॥
भृशचन्दनचर्चितचारुतनुं
मणिकौस्तुभगर्हितभानुतनुम् ।
व्रजबालशिरोमणिरूपधृतं
भज कृष्णनिधिं व्रजराजसुतम् ॥ ६ ॥
सुरवृन्दसुवन्द्यमुकुन्दहरिं
सुरनाथशिरोमणिसर्वगुरुम् ।
गिरिधारिमुरारिपुरारिपरं
भज कृष्णनिधिं व्रजराजसुतम् ॥ ७ ॥
वृषभानुसुतावरकेलिपरं
रसराजशिरोमणिवेशधरम् ।
जगदीश्वरमीश्वरमीड्यवरं
भज कृष्णनिधिं व्रजराजसुतम् ॥ ८ ॥
इति व्रजराजसुताष्टकं सम्पूर्णम् ।
– Chant Stotra in Other Languages –
Vraja Raja Suta Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil