108 Names Of Sri Arya In Sanskrit

॥ 108 Names of Sri Arya Sanskrit Lyrics ॥

॥ श्रीआर्याष्टोत्तरशतनामावली ॥
अस्यश्री आर्यामहामन्त्रस्य मारीच काश्यप ऋषिः त्रिष्टुप्
छन्दः श्री आर्या दुर्गा देवता ॥

[ ॐ जातवेदसे सुनवाम – सोममरातीयतः – निदहाति
वेदः – सनः पर्षदति – दुर्गाणि विश्वा – नावेव सिन्धुं
दुरितात्यग्निः ॥ एवं न्यासमाचरेत् ]
ध्यानम्
विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणाम्
कन्याभिः करवालखेटविलसत् हस्ताभिरासेविताम् ।
हस्तैश्चक्रगदाऽसिशङ्ख विशिखांश्चापं गुणं तर्जनीम्
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥

मन्त्रः- ॐ जातवेदसे सुनवाम सोममरातीयतः निदहाति
वेदः सनः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं
दुरितात्यग्निः ॥

॥ अथ आर्या नामावलिः ॥

ॐ आर्यायै नमः ।
ॐ कात्यायन्यै नमः ।
ॐ गौर्यै नमः ।
ॐ कुमार्यै नमः ।
ॐ विन्ध्यवासिन्यै नमः ।
ॐ वागीश्वर्यै नमः ।
ॐ महादेव्यै नमः ।
ॐ काल्यै नमः ।
ॐ कङ्कालधारिण्यै नमः ।
ॐ घोणसाभरणायै नमः ॥ १० ॥

ॐ उग्रायै नमः ।
ॐ स्थूलजङ्घायै नमः ।
ॐ महेश्वर्यै नमः ।
ॐ खट्वाङ्गधारिण्यै नमः ।
ॐ चण्ड्यै नमः ।
ॐ भीषणायै नमः ।
ॐ महिषान्तकायै नमः ।
ॐ रक्षिण्तै नमः ।
ॐ रमण्यै नमः ।
ॐ राज्ञ्यै नमः ॥ २० ॥

See Also  1000 Names Of Sri Shanmukha » Vamadeva Mukham Sahasranamavali 4 In Sanskrit

ॐ रजन्यै नमः ।
ॐ शोषिण्यै नमः ।
ॐ रत्यै नमः ।
ॐ गभस्तिन्यै नमः ।
ॐ गन्धिन्यै नमः ।
ॐ दुर्गायै नमः ।
ॐ गान्धार्यै नमः ।
ॐ कलहप्रियायै नमः ।
ॐ विकराल्यै नमः ।
ॐ महाकाल्यै नमः ॥ ३० ॥

ॐ भद्रकाल्यै नमः ।
ॐ तरङ्गिण्यै नमः ।
ॐ मालिन्यै नमः ।
ॐ दाहिन्यै नमः ।
ॐ कृष्णायै नमः ।
ॐ छेदिन्यै नमः ।
ॐ भेदिन्यै नमः ।
ॐ अग्रण्यै नमः ।
ॐ ग्रामण्यै नमः ।
ॐ निद्रायै नमः ॥ ४० ॥

ॐ विमानिन्यै नमः ।
ॐ शीघ्रगामिन्यै नमः ।
ॐ चण्डवेगायै नमः ।
ॐ महानादायै नमः ।
ॐ वज्रिण्यै नमः ।
ॐ भद्रायै नमः ।
ॐ प्रजेश्वर्यै नमः ।
ॐ कराल्यै नमः ।
ॐ भैरव्यै नमः ।
ॐ रौद्र्यै नमः ॥ ५० ॥

ॐ अट्टहासिन्यै नमः ।
ॐ कपालिन्यै व्चामुण्डायै नमः ।
ॐ रक्तचामुण्डायै नमः ।
ॐ अघोरायै नमः ।
ॐ घोररूपिण्यै नमः ।
ॐ विरूपायै नमः ।
ॐ महारूपायै नमः ।
ॐ स्वरूपायै नमः ।
ॐ सुप्रतेजस्विन्यै नमः ।
ॐ अजायै नमः ॥ ६० ॥

See Also  Shri Skanda Shatkam In Sanskrit

ॐ विजयायै नमः ।
ॐ चित्रायै नमः ।
ॐ अजितायै नमः ।
ॐ अपराजितायै नमः ।
ॐ धरण्यै नमः ।
ॐ धात्र्यै नमः ।
ॐ पवमान्यै नमः ।
ॐ वसुन्धरायै नमः ।
ॐ सुवर्णायै नमः ।
ॐ रक्ताक्ष्यै नमः ॥ ७० ॥

ॐ कपर्दिन्यै नमः ।
ॐ सिंहवाहिन्यै नमः ।
ॐ कद्रवे नमः ।
ॐ विजितायै नमः ।
ॐ सत्यवाण्यै नमः ।
ॐ अरुन्धत्यै नमः ।
ॐ कौशिक्यै नमः ।
ॐ महालक्ष्म्यै नमः ।
ॐ विद्यायै नमः ।
ॐ मेधायै नमः ॥ ८० ॥

ॐ सरस्वत्यै नमः ।
ॐ मेधायै नमः ।
ॐ त्र्यम्बकायै नमः ।
ॐ त्रिसन्ख्यायै नमः ।
ॐ त्रिमूर्त्यै नमः ।
ॐ त्रिपुरान्तकायै नमः ।
ॐ ब्राह्म्यै नमः ।
ॐ नारसिंह्यै नमः ।
ॐ वाराह्यै नमः ।
ॐ इन्द्राण्यै नमः ॥ ९० ॥

ॐ वेदमातृकायै नमः ।
ॐ पार्वत्यै नमः ।
ॐ तामस्यै नमः ।
ॐ सिद्धायै नमः ।
ॐ गुह्यायै नमः ।
ॐ इज्यायै नमः ।
ॐ उषायै नमः ।
ॐ उमायै नमः ।
ॐ अम्बिकायै नमः ।
ॐ भ्रामर्यै नमः ॥ १०० ॥

See Also  Sri Lakshmi Narayana Ashtakam In Sanskrit

ॐ वीरायै नमः ।
ॐ हाहाहुङ्कारनादिन्यै नमः ।
ॐ नारायण्यै नमः ।
ॐ विश्वरूपायै नमः ।
ॐ मेरुमन्दिरवासिन्यै नमः ।
ॐ शरणागतदीनार्तपरित्राणपरायणायै नमः ।
ॐ त्रिनेत्रायै नमः ।
ॐ शशिधरायै नमः ॥ १०८ ॥

ॐ आर्यायै नमः ।
॥ॐ॥

– Chant Stotra in Other Languages –

Sri Arya Ashtottara Shatanamavali » 108 Names of Sri Arya Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil