॥ Sri Hanumada Ashtottara Shatanama Stotram 5 Sanskrit Lyrics ॥
॥ हनुमदष्टोत्तरशतनामस्तुतिः ५ ॥
(कार्यकारस्वामिनाथार्यविरचिता रामनामाङ्किता)
रामदूतो रामभृत्यो रामचित्तापहारकः ।
रामनामजपासक्तो रामकीर्तिप्रचारकः ॥ १ ॥
रामालिङ्गनसौख्यज्ञो रामविक्रमहर्षितः ।
रामबाणप्रभावज्ञो रामसेवाधुरन्धरः ॥ २ ॥
रामहृत्पद्ममार्तण्डो रामसङ्कल्पपूरकः ।
रामामोदितवाग्वृत्तिः रामसन्देशवाहकः ॥ ३ ॥
रामतारकगुह्यज्ञो रामाह्लादनपण्डितः ।
रामभूपालसचिवो रामधर्मप्रवर्तकः ॥ ४ ॥
रामानुजप्राणदाता रामभक्तिलतासुमम् ।
रामचन्द्रजयाशंसी रामधैर्यप्रवर्धकः ॥ ५ ॥
रामप्रभावतत्त्वज्ञो रामपूजनतत्परः ।
राममान्यो रामहृद्यो रामकृत्यपरायणः ॥ ६ ॥
रामसौलभ्यसंवेत्ता रामानुग्रहसाधकः ।
रामार्पितवचश्चित्तदेहवृत्तिप्रवर्त्तितः ॥ ७ ॥
रामसामुद्रिकाभिज्ञो रामपादाब्जषट्पदः ।
रामायणमहामालामध्याञ्चितमहामणिः ॥ ८ ॥
रामायणरसास्वादस्रवदश्रुपरिप्लुतः ।
रामकोदण्डटङ्कारसहकारिमहास्वनः ॥ ९ ॥
रामसायूज्यसाम्राज्यद्वारोद्घाटनकर्मकृत् ।
रामपादाब्जनिष्यन्दिमधुमाधुर्यलोलुपः ॥ १० ॥
रामकैङ्कर्यमात्रैकपुरुषार्थकृतादरः ।
रामायणमहाम्भोधिमथनोत्थसुधाघटः ॥ ११ ॥
रामाख्यकामधुग्दोग्धा रामवक्त्रेन्दुसागरः ।
रामचन्द्रकरस्पर्शद्रवच्छीतकरोपलः ॥
रामायणमहाकाव्यशुक्तिनिक्षिप्तमौक्तिकः ।
रामायणमहारण्यविहाररतकेसरी ॥ १३ ॥
रामपत्न्येकपत्नीत्वसपत्नायितभक्तिमान् ।
रामेङ्गितरहस्यज्ञो राममन्त्रप्रयोगवित् ॥ १४ ॥
रामविक्रमवर्षर्तुपूर्वभूनीलनीरदः ।
रामकारुण्यमार्त्तण्डप्रागुद्यदरुणायितः ॥ १५ ॥
रामराज्याभिषेकाम्बुपवित्रीकृतमस्तकः ।
रामविश्लेषदावाग्निशमनोद्यतनीरदः ॥ १६ ॥
रामायणवियद्गङ्गाकल्लोलायितकीर्तिमान् ।
रामप्रपन्नवात्सल्यव्रततात्पर्यकोविदः ॥ १७ ॥
रामाख्यानसमाश्वस्तसीतामानससंशयः ।
रामसुग्रीवमैत्र्याख्यहव्यवाहेन्धनायितः ॥ १८ ॥
रामाङ्गुलीयमाहात्म्यसमेधितपराक्रमः ।
रामार्त्तिध्वंसनचणचूडामणिलसत्करः ॥ १९ ॥
रामनाममधुस्यन्दद्वदनाम्बुजशोभितः ।
रामनामप्रभावेण गोष्पदीकृतवारिधिः ॥ २० ॥
रामौदार्यप्रदीपार्चिर्वर्धकस्नेहविग्रहः ।
रामश्रीमुखजीमूतवर्षणोन्मुखचातकः ॥ २१ ॥
रामभक्त्येकसुलभब्रह्मचर्यव्रते स्थितः ।
रामलक्ष्मणसंवाहकृतार्थीकृतदोर्युगः ॥ २२ ॥
रामलक्ष्मणसीताख्यत्रयीराजितहृद्गुहः ।
रामरावणसङ्ग्रामवीक्षणोत्फुल्लविग्रहः ॥ २३ ॥
रामानुजेन्द्रजिद्युद्धलब्धव्रणकिणाङ्कितः ।
रामब्रह्मानुसन्धानविधिदीक्षाप्रदायकः ॥ २४ ॥
रामरावणसङ्ग्राममहाध्वरविधानकृत् ।
रामनाममहारत्ननिक्षेपमणिपेटकः ॥ २५ ॥
रामताराधिपज्योत्स्नापानोन्मत्तचकोरकः ।
रामायणाख्यसौवर्णपञ्जरस्थितशारिकः ॥ २६ ॥
रामवृत्तान्तविध्वस्तसीताहृदयशल्यकः ।
रामसन्देशवर्षाम्बुवहन्नीलपयोधरः ॥ २७ ॥
रामराकाहिमकरज्योत्स्नाधवलविग्रहः ।
रामसेवामहायज्ञदीक्षितो रामजीवनः ॥ २८ ॥
रामप्राणो रामवित्तं रामायत्तकलेबरः ।
रामशोकाशोकवनभञ्जनोद्यत्प्रभञ्जनः ॥ २९ ॥
रामप्रीतिवसन्तर्तुसूचकायितकोकिलः ।
रामकार्यार्थोपरोधदूरोत्सारणलम्पटः ॥ ३० ॥
रामायणसरोजस्थहंसो रामहिते रतः ।
रामानुजक्रोधवह्निदग्धसुग्रीवरक्षकः ॥ ३१ ॥
रामसौहार्दकल्पद्रुसुमोद्गमनदोहदः ।
रामेषुगतिसंवेत्ता रामजैत्ररथध्वजः ॥ ३२ ॥
रामब्रह्मनिदिध्यासनिरतो रामवल्लभः ।
रामसीताख्ययुगलयोजको राममानितः ॥ ३३ ॥
रामसेनाग्रणी रामकीर्तिघोषणडिण्डिमः ।
रामेतिद्व्यक्षराकारकवचावृतविग्रहः ॥
रामायणमहावृक्षफलासक्तकपीश्वरः ।
रामपादाश्रयान्वेषिविभीषणविचारवित् ॥ ३५ ॥
राममाहात्म्यसर्वस्वं रामसद्गुणगायकः ।
रामजायाविषादाग्निनिर्दग्धरिपुसैनिकः ॥ ३६ ॥
रामकल्पद्रुमूलस्थो रामजीमूतवैद्युतः ।
रामन्यस्तसमस्ताशो रामविश्वासभाजनम् ॥ ३७ ॥
रामप्रभावरचितशैत्यवालाग्निशोभितः ।
रामभद्राश्रयोपात्तधीरोदात्तगुणाकरः ॥ ३८ ॥
रामदक्षिणहस्ताब्जमुकुटोद्भासिमस्तकः ।
रामश्रीवदनोद्भासिस्मितोत्पुलकमूर्तिमान् ।
रामब्रह्मानुभूत्याप्तपूर्णानन्दनिमज्जितः ॥ ३९ ॥
इतीदं रामदूतस्य वायुसूनोर्महात्मनः ।
रामनामाङ्कितं नाममष्टोत्तरशतं शुभम् ॥ ४० ॥
प्रसादादाञ्जनेयस्य देशिकानुग्रहेण च ।
रचितं स्वामिनाथेन कार्यकारेण भक्तितः ॥ ४१ ॥
भूयादभीष्टफलदं श्रद्धया पठतां नृणाम् ।
इहलोके परत्रापि रामसायूज्यदायकम् ॥ ४२ ॥
– Chant Stotra in Other Languages –
Sri Anjaneya Stotram » Sri Hanumada Ashtottara Shatanama Stotram 5 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil