॥ Sri Parasurama Ashtakam 3 Sanskrit Lyrics ॥
॥ श्रीपरशुरामाष्टकम् ३ ॥
॥ श्रीमद्दिव्यपरशुरामाष्टकस्तोत्रम् ॥
ब्रह्मविष्णुमहेशसन्नुतपावनाङ्घ्रिसरोरुहं
नीलनीरजलोचनं हरिमाश्रितामरभूरुहम् ।
केशवं जगदीश्वरं त्रिगुणात्मकं परपूरुषं
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ १ ॥
अक्षयं कलुषापहं निरुपद्रवं करुणानिधिं
वेदरूपमनामयं विभुमच्युतं परमेश्वरम् ।
हर्षदं जमदग्निपुत्रकमार्यजुष्टपदाम्बुजं
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ २ ॥
रैणुकेयमहीनसत्वकमव्ययं सुजनार्चितं
विक्रमाढ्यमिनाब्जनेत्रकमब्जशार्ङ्गगदाधरम् ।
छत्रिताहिमशेषविद्यगमष्टमूर्तिमनाश्रयं – ??
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ३ ॥
बाहुजान्वयवारणाङ्कुशमर्वकण्ठमनुत्तमं
सर्वभूतदयापरं शिवमब्धिशायिनमौर्वजम् ।
भक्तशत्रुजनार्दनं निरयार्दनं कुजनार्दनं
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ४ ॥
जम्भयज्ञविनाशकञ्च त्रिविक्रमं दनुजान्तकं
निर्विकारमगोचरं नरसिंहरूपमनर्दहम् ।
वेदभद्रपदानुसारिणमिन्दिराधिपमिष्टदं
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ५ ॥
निर्जरं गरुडध्वजं धरणीश्वरं परमोददं
सर्वदेवमहर्षिभूसुरगीतरूपमरूपकम् ।
भूमतापसवेषधारिणमद्रिशञ्च महामहं
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ६ ॥
सामलोलमभद्रनाशकमादिमूर्तिमिलासुरं
सर्वतोमुखमक्षिकर्षकमार्यदुःखहरङ्कलौ ।
वेङ्कटेश्वररूपकं निजभक्तपालनदीक्षितं
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ७ ॥
दिव्यविग्रहधारिणं निखिलाधिपं परमं महा-
वैरिसूदनपण्डितं गिरिजातपूजितरूपकम् ।
बाहुलेयकुगर्वहारकमाश्रितावळितारकं
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ८ ॥
पर्शुरामाष्टकमिदं त्रिसन्ध्यं यः पठेन्नरः
पर्शुरामकृपासारं सत्यं प्राप्नोति सत्वरम् ॥
॥ इति श्रीपूसपाटि रङ्गनायकामात्य भार्गवर्षिकृत
श्रीमद्दिव्यपरशुरामाष्टकं सम्पूर्णम् ॥
– Chant Stotra in Other Languages –
Sri Vishnu Slokam » Sri Parasurama Ashtakam 3 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil