Sri Shivasundaradhyana Ashtakam In Sanskrit

॥ Shiva Sundaradhyana Ashtakam Sanskrit Lyrics ॥

॥ श्रीशिवसुन्दरध्यानाष्टकम्॥ 
वन्दे फेननिभं तुषारधवलं वन्दे सुधास्तोमभं
वन्दे दुग्धसमद्युतिं भपतिभं वन्दे मृणालप्रभम् ।
वन्दे कुन्दनगत्विषं रजतभं वन्दे शतादित्यभं
वन्दे श्वेतचयोज्ज्वलं प्रभुमणिं वन्दे शिवं सुन्दरम् ॥ १ ॥

वन्दे व्यालगलं त्रिशूललसितं वन्दे कलेशालयं
वन्दे कालहरं हलाहलगलं वन्दे कपालप्रियम् ।
वन्दे भालसुलोचनं त्रिनयनं वन्दे महाजूटकं
वन्दे भस्मकलेवरं कलिहरं वन्दे शिवं सुन्दरम् ॥ २ ॥

वन्दे पर्वतवासिनं शशिधरं वन्दे गणेशप्रियं
वन्दे हैमवतीपतिं सुरपतिं वन्दे कुमारात्मजम् ।
वन्दे कृत्तिकटिं मनोज्ञडमरुं वन्दे च गङ्गाधरं
वन्दे योगविनोदिनं प्रमथिनं वन्दे शिवं सुन्दरम् ॥ ३ ॥

वन्दे पञ्चमुखं महानटवरं वन्दे दयासागरं
वन्दे विष्णुनतं विरञ्चिविनुतं वन्दे सुराराधितम् ।
वन्दे रावणवन्दितं मुनिगुरुं वन्दे प्रशान्ताननं
वन्देर्द्धप्रमदाङ्गिनं वृषभगं वन्दे शिवं सुन्दरम् ॥ ४ ॥

वन्दे शक्तिविभूषितं रिपुहरं वन्दे पिनाकान्वितं
वन्दे दैत्यहरं पुरत्रयहरं वन्देन्धकध्वम्सकम् ।
वन्दे हस्तिविमर्दकं गरभुजं वन्दे श्मशानभ्रमं
वन्दे दक्षशिरश्छिदं मखभिदं वन्दे शिवं सुन्दरम् ॥ ५ ॥

वन्दे मारकमारकं त्रिपुरहं वन्दे कृतान्ताधिपं
वन्दे शत्रुकुलाकरालकुलिषं वन्दे त्रितापान्तकम् ।
वन्दे घोरविषान्तकं शमकरं वन्दे जगत्तारकं
वन्दे व्याधिहरं विपत्क्षयकरं वन्दे शिवं सुन्दरम् ॥ ६ ॥

See Also  Kunjabihari Ashtakam 1 In Sanskrit

वन्दे श्रीपरमेश्वरं मृतिहरं वन्दे जगत्कारणं
वन्दे भास्करचन्द्रवह्निनयनं वन्दे प्रभुं त्र्यम्बकम् ।
वन्दे धीपरिवर्द्धकं दुरितहं वन्देभिषेकप्रियं
वन्दे ज्ञानमहोदधिं बुधपतिं वन्दे शिवं सुन्दरम् ॥ ७ ॥

वन्दे सर्वभयान्तकं पशुपतिं वन्दे जगद्रक्षकं
वन्दे दुःखविनाशकं भवभिदं वन्दे हरं शङ्करम् ।
वन्दे भक्तगणप्रियं विजयदं वन्दे प्रजावत्सलं
वन्दे शीघ्रवरप्रदं शरणदं वन्दे शिवं सुन्दरम् ॥ ८ ॥

इति व्रजकिशोरविरचतं श्रीशिवसुन्दरध्यानाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Lord Shiva Slokam » Sri Shivasundaradhyana Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil