Hrudayabodhana Stotram In Marathi

॥ Hrudayabodhana Stotram in Marathi ॥

॥ हृदयबोधनस्तोत्रम ॥
हृदय सदा स्मर परमवितारं हैमवतीकमितारम ॥
विषयभ्रमणं विश्रमविधुरं व्यर्थं मास्म कृथास्त्वम ॥

आधिव्याधिशताकुलमनिभॄतसुखलोभाहितविविधक्लेशम ॥
आयुश्चञ्चलकमलदलाञ्चलगतजलबिन्दुसदृशक्षेमम ॥
अशुचिनिकायेऽवश्यविनाशिनि काये बालिशममताकाऽये
नियतापायी न चिरस्थायी भोगोऽप्यसुभगपर्यवसायी ॥ 1 ॥

आन्तररिपुवशमशिवोदर्कं पीतवितर्कं विशसि वृथा
त्वम किं तव लब्धं तत्प्रेरणया सन्ततविषयभ्रान्त्येयत्या ॥
सङ्कटसङ्घविदारणनिपुणे शङ्करचरणे किङ्करशरणे
सङ्घटय रतिं सङ्कलय धृतिं सफलय निभृतं जनिलाभं च ॥ 2 ॥

सङ्कल्पैकसमुद्भावितजगदुत्पत्त्यादिभिरात्तविनोदे
यस्मिन्नेवमहेश्वरशब्दः स्वार्थसमन्वयमजहज्जयति ॥
अखिलांहोपहममितशुभावहमभयदुहन्तं स्मरदेहदहं
करुणामृतरसवरुणालयमयि हरिणाङ्कोज्ज्वलमौलिमुपास्व ॥ 3 ॥

त्रिजगदतीतम यन्महिमानं त्रय्यपि चकितैवाभिदधाति
प्रणमदमर्त्यप्रवरशिरोमणिदीधितिदीपितपादसरोजम ॥
भक्ताभ्यर्थितसार्थसमर्थनसामर्थ्योद्धृतकल्पककर्पं
कन्दर्पारिमृतेऽन्यः कोऽपि वदान्यो जगति न मान्यो जयति ॥ 4 ॥

इति हृदयबोधनस्तोत्रं संपूर्णम ॥

– Chant Stotra in Other Languages –

Hrudayabodhana Stotram in Marathi – Gujarati । BengaliKannadaMalayalamTelugu

See Also  Vishwanatha Ashtakam In Tamil