Advaitha Lakshanam In Sanskrit

॥ Advaita Lakshanam Sanskrit Lyrics ॥

॥ अद्वैतलक्षणम् ॥
अज्ञानमेतद्द्वैताख्यमद्वैतं श्रेयसाम्परम्
मम त्वहमिति प्रज्ञावियुक्तमिति कल्पवत् ॥ १ ॥

अविकार्यमनाख्येयमद्वैतमनुभूयते
मनोवृत्तिमयं द्वैतमद्वैतं परमार्थतः ॥ २ ॥

मनसो वृत्तयस्तस्माद्धर्माधर्मनिमित्तजाः
निरोद्धव्यास्तन्निरोधेनाद्वैतं नोपपद्यते ॥ ३ ॥

मनोदृष्टमिदं सर्वं यत्किञ्चित्सदराचरम्
मनसो ह्यमनीभावेऽद्वैतभावं तदाप्नुयात् ॥ ४ ॥

बहिः प्रज्ञां सदोत्सृज्याप्यन्तः प्रज्ञां च यो बुधः
कयापि प्रज्ञयोपेतः प्रज्ञावानिति कथ्यते ॥ ५ ॥

कर्मणो भावनाचेयं सा ब्रह्मपरिपन्थिनी
कर्मभावनया तुल्यं विज्ञानमुपजायते ॥ ६ ॥

– Chant Stotra in Other Languages –

Advaitha Lakshanam in English – Hindi – KannadaTeluguTamil

See Also  Mrita Sanjivini Mantra In English