Ambika Trishati In Sanskrit – 300 Names Of Goddess Ambika – Ambika Stotrams

॥ Ambika Trishati Sanskrit Lyrics ॥

॥ अम्बिकात्रिशती ॥

गङ्गाधरमखिविरचिता ।
परमाभरणं शंभोः पर्वतनाथस्य पुण्यपरिपाकः ।
निजलोचनवीक्षणतो रक्षितलोकत्रयं च तद्रत्नम् ॥ १ ॥

निगमान्तपरमविद्या दद्यादद्य प्रमोदमिह नमताम् ।
निखिलचराचरचिन्मयरूपं रक्षाकरं च लोकानाम् ॥ २ ॥

आदृतशिववामान्तामार्यामार्याभिमान्यमहिमानम् ।
आगममौलिवतंसां वन्दे चिद्रूपकन्दलां जननीम् ॥ ३ ॥

परमशिवभागधेयं सुरमुनिमनुजादिभिः सदा ध्येयम् ।
यन्नाम कर्णपेयं पातु सदा वेदमौलिकामेयम् ॥ ४ ॥

जयति तवाम्ब कटाक्षे को वा सेवेत कल्पभूमिरुहम् ।
कामादिहानिदोऽसौ नमतां संपत्प्रदानकृतदीक्षः ॥ ५ ॥

भुवनजननी पुरारेः महिषी भूषायितामृतमयूखा ।
कलिकलुषितजनमेनं पातु सुधाकारमञ्जुलापाङ्गैः ॥ ६ ॥

निखिलनिगमान्तवेद्या विद्या परमा पुरारिसर्वस्वम् ।
यमपाशभीतमेनं रक्षतु जनमेनमद्रिपतिकन्या ॥ ७ ॥

धुतपदनतजनपापा परचिद्रूपाप्रेमयनिजरूपा ।
शशिमौलिभागधेयं जयति नगेशानकन्यका मान्या ॥ ८ ॥

तव भूधरेन्द्रतनये पादाब्जं निगमदीर्घिकाफुल्लम् ।
उत्तंसयन्ति पुरुषा धन्याः केचित् त एव सुरमान्याः ॥ ९ ॥

शतमखनीलमणीनां प्रभयाच्छुरिता तवाक्षियुगलश्रीः ।
तारकविभेदिवाहं नृत्तोन्मुखमातनोति शरदि पथि ॥ १० ॥

कुवलयसंपत्प्रदमिह विलोचनं मातरचलतनये ते ।
मम मानसं तु चन्द्रं कलयति तापप्रशान्तिदं समये ॥ ११ ॥

निजगतिजितकादम्बामम्बामम्भोजलोचनां वन्दे ।
संभावयति महेशो यां किल कालेषु हृद्यनव्यरसैः ॥ १२ ॥

ललितगुणरत्नभूषापेटी शुकमान्यनैजवाग्धाटी ।
आश्रितकदम्बवाटी जयति परानन्दजातपरिपाटी ॥ १३ ॥

कुसुमशरवैरिकान्ता कान्तालकभारललिताफालान्ता ।
निखिलनिगमान्तसारा सा रजति शंभुभाग्यधारा हि ॥ १४ ॥

करकमलकलितचापे परमानन्दैककन्दले शंभोः ।
कनकमणिललितकण्ठे त्वामेवाहं भजामि परवृत्त्यै ॥ १५ ॥

चिन्तितफलदे पुंसां प्रबलतरामोदकन्दले शंभोः ।
पुण्यानां परिपाकं त्वत्पदपद्मं प्रफुल्लमिह चित्ते ॥ १६ ॥

निजमौलिलसनशशिकरविलासिधम्मिल्लकुवलयामोदैः ।
ततमधुकरगीतीनां दम्भादम्ब त्वदीयवाग्रक्षा ॥ १७ ॥

ललितकुटिलालकान्ता कान्ता शंभोरमेयविभवान्ता ।
संपदमिह नस्तनुते कुलभूधरनाथभाग्यपरिणामः ॥ १८ ॥

जनताचिरतरविरचितसुचरितपरिपाकरूपममरेड्यम् ।
कुसुमशरवैरिभाग्यं लसतु कलिक्षोभहानये मनसि ॥ १९ ॥

विनतालिविभवदा ते कटाक्षधारा विभाति लोकाम्ब ।
कुसुमशरशास्त्रसिद्धिप्रदा गिरीशस्य योगिहृद्दीपा ॥ २० ॥

नित्यकुमारी काले कापि पयोजासनादिनुतितुष्टा ।
शितिकण्ठभाग्यरक्षासूत्रं तनुते स्ववैभवैर्हृद्यैः ॥ २१ ॥

निखिलनिगमान्तसारं यावद्रूपं मदम्ब पश्यामि ।
सा तु नियमितदूतगणो दूरे यात्यमितकोपकोपकोऽपि यमः ॥ २२ ॥

शिववामभागभूषा काचिद् योषा नतालिकृतभाषा ।
ताटङ्करत्नभूषारुचिभरकाषायितात्ममुखवेषा ॥ २३ ॥

वाणीशविनुतमहिमा परमा च कला सतां समाराध्या ।
हिमभूधरवरकन्या कृतभूसुरसौख्यसंपदारान्मे ॥ २४ ॥

शिथिलितभवभीतिततिं भूधरकन्यामहं सदोपास्याम् ।
आनन्दाद्वैतकलां भजे कलिक्षोभहानये निभृतम् ॥ २५ ॥

नवरत्नखचितभूषाततिभानीराजिताखिलाङ्गीं ताम् ।
कामपि कलामुपासे सततानन्दैककन्दलीं जननीं ॥ २६ ॥

मम हृदयकेलिभवने विलसति तद्रूपमिष्टदं पुंसाम् ।
यदिहादरेण शंभुर्लोकत्रयरक्षणाय चकमे च ॥ २७ ॥

गङ्गाधरवरभूषा भङ्गायास्माकमखिलदुरितानाम् ।
श‍ृङ्गारसारवेषा तुङ्गानन्दप्रदास्तु जगदम्बा ॥ २८ ॥

तेन वयं परतन्त्राः यच्छशिशेखरमनश्वरैश्वर्यम् ।
शंभोरिह लोकानां चिन्तामणिरादिमः सुलभ्यश्च ॥ २९ ॥

नयनाञ्जनकलिकेयं शंभोरम्भोजलोचना चपला ।
श्रुतिसुदतीसूत्रकला मम हृदि भवने विकासमुपयाति ॥ ३० ॥

कुचकुम्भाङ्कितशंभुं करपद्मादृतपयोजमणिमालाम् ।
नतजनभरणासक्तामम्बामम्भोजलोचनां नौमि ॥ ३१ ॥

बालमरालीलीलां बालां बलिवैरिवासवादिनुताम् ।
जगदम्बामालम्बां निबिडनितम्बां हितार्थमवलम्बे ॥ ३२ ॥

ध्यानैर्वेद्यं तत्त्वं मीनध्वजवैरिमहितभाग्यं तत् ।
भूधरकन्यारूपं विहरति मम मानसे हततमस्के ॥ ३३ ॥

मुनिजनमान्यचरित्रा नानादेशेषु लसितबहुपीठा ।
सर्वस्वसंप्रदायः शंभोरम्बा ममाञ्जलिप्रीता ॥ ३४ ॥

वाचामगोचरं तत् पुरातनीनामपीह नतसुलभम् ।
गिरिजारूपं तेजो भातु गिरीशार्धमादरादक्ष्णोः ॥ ३५ ॥

मन्दस्मितेन मधुरा मधुरापीठस्थिता च हरभाग्यम् ।
शीतलनयनासारैः सिञ्चति मामञ्जसा जगन्माता ॥ ३६ ॥

भाति पुरन्ध्री शंभोरिह पुरतोऽस्माकमात्तसुमबाणा ।
सुमबाणवैरिचित्ताकर्षणकुलिका च चिन्मयी परमा ॥ ३७ ॥

लोचनपाते शीता पाता पादाम्बुजात्तचित्तानाम् ।
श्वेता च मन्दहसिते श्वेतारण्यस्थिरप्रदीपकला ॥ ३८ ॥

पुरमथनमहिषि चित्ते कुरु पदविन्यासमात्तकुतुका त्वम् ।
तेनैवाहं धन्यः कुरवै पुरवैरिपादपूजां च ॥ ३९ ॥

शतमखमुखसुरवन्द्ये कान्ताश्लेषेण पुलकिताङ्गि त्वाम् ।
मनसा स्मरामि दयसे तेनैवाहं कलौ युगे धन्यः ॥ ४० ॥

पुरमथनस्यापि वपुः पुनतीमम्बां निजाक्रमणशक्त्या ।
चिरपुण्यदर्शनीयां स्मरामि मनसा परां सुतामद्रेः ॥ ४१ ॥

कुङ्कुमकणलसिताङ्गीं कुवलयदृशमब्जलोचनां वन्दे ।
लोचनजितसारङ्गीं भवमहिषीमर्धचन्द्रशेखरिणीम् ॥ ४२ ॥

नानालीलाखेलां हररतिलोलां हितैकपरिशीलाम् ।
वन्दे बालां भूमिधरपतिकन्यां सुरेशबहुमान्याम् ॥ ४३ ॥

सरसिजमृदुलपदाब्जं पदाब्जविन्यासधन्यभूभागम् ।
मनसि नयने च वाचि स्फुरतु महेशानमान्यसाम्राज्यम् ॥ ४४ ।
शंभोः कुटुम्बिनी सा मधुकरमालालसत्स्वधम्मिल्ला ।
सौभाग्यदा सदा मे लसतु कृपापूरलालितापाङ्गा ॥ ४५ ॥

ऊरीकृतपुरमथना दूरीकृतदुष्टराक्षसादिगणा ।
नारी परमा सैषा भेरीभास्वत्करोरुहा भाति ॥ ४६ ॥

निखिलोपनिषद्विद्यासारं संसारबन्धमोहहरम् ।
हरमान्यं तत् तेजो भाति सुरेशादिरक्षणोपायम् ॥ ४७ ॥

शंभोरुत्सवधारा नवनवहारा समाश्रिताधारा ।
संविद्रूपारूपा कोपार्दितदुर्जना च सा जयति ॥ ४८ ॥

पुण्यसमुदायसरणिं पुरहूतमुखैरभिष्टुतामम्बाम् ।
भज मानस भो नित्यं नित्यानन्दाद्वयात्मिकां देवीम् ॥ ४९ ॥

जीवितसर्वस्वमिदं शंभोरम्भोजलोचनं रत्नम् ।
यच्चिन्तनेन धन्या वैमानिकवन्यकलितविश्रामाः ॥ ५० ॥

अन्तस्तमोनिहन्त्री संध्यापूर्वा विभाति गिरितनया ।
उदये यस्या विदुषां विलसन्ति कराम्बुजानि नक्तमपि ॥ ५१ ॥

कुलगिरिनाथनूजे लोकाम्ब त्वत्पदाम्बुजं जन्तुः ।
भक्त्या स्मरति हृदि स्वे तत्पदयुगलं वहन्ति शिरसान्ये ॥ ५२ ॥

महिषासुरमर्दनि ते भीमं रूपं तदस्तु रिपुनेत्रे ।
सादरकटाक्षापातं पुरतो मम भातु सौम्यरूपं ते ॥ ५३ ॥

आदृतशुकादिवाणी वाणीशसुरेशहरिमुखैः स्तुत्या ।
सुमलसितमृदुलवेणी विलसति कैलासपीठिकामध्ये ॥ ५४ ॥

दयमानमानसं तत् स्मयमानमुखं निरीक्ष्य तत्तेजः ।
नियमादिविधुतपापा वयमानन्दाश्रुझरपरीताङ्गाः ॥ ५५ ॥

ललितगतिं सुरविनुतिं लसितमतिं किंच यतिमनोजुष्टाम् ।
तव मूर्तिमम्ब पार्वति कदा नु पश्यन् नयामि कलिकालम् ॥ ५६ ॥

कुरुते मनसि मदीये विहारलीलां नगेन्द्रवरकन्या ।
तावद् विलसति चिन्मयतत्त्वं तत्त्वार्थिभिः समाराध्यम् ॥ ५७ ॥

शंकरमिश्रितदेहं श्रुतिसुदतीमौलिभूषणं तेजः ।
मुखजितचन्द्रं तन्मे प्रसीदतु क्षिप्रनम्रपापहरम् ॥ ५८ ॥

विधुमौलिविभ्रमश्रीर्विद्रुमरुचिसोदरात्मतनुकान्तिः ।
सिञ्चत्यमृतमिहाक्ष्णोश्चिरपुण्यवशादिहासेव्यम् ॥ ५९ ॥

परकैवल्यानन्दप्राप्तिस्तेषां ध्रुवं हि तनुभजाम् ।
येषां चित्ते वित्ताधिपमुखसेव्या विहारभाग् गौरी ॥ ६० ॥

गौरि तव पादपद्मं शशधरकलयाङ्कितात्ममौलितले ।
मम चान्तिमप्रयाणे विलसतु नेत्रे स्मृतौ च हृदि वाचि ॥ ६१ ॥

शंकरसुकृतसमूहा किंकरदेवादिरङ्कवीणा च ।
शङ्कादिमोहहन्त्री लसतु ममाक्ष्णोः शशाङ्कमौलितला ॥ ६२ ॥

कुचकुम्भाश्लेषवशादाहृतहरचित्तवृत्तिरमराणाम् ।
मनुजानामपि नित्यं दैवतमेषा चकास्ति गिरिकन्या ॥ ६३ ॥

परितुष्टा हरभजने निजगलकलगीतिविजितपरपुष्टा ।
सूचितसुररिपुकष्टा परमकलत्रं हरस्य तज्जयति ॥ ६४ ॥

सततालोलितदयया दृशाम्ब मां पश्य सरसिजातरुचा ।
परमशिवे निर्वृत्तिमहमवाप्य तेनैव तावको भक्तः ॥ ६५ ॥

सरसकविता च संपच्चाक्षोभ्यं मण्डलाधिपत्यं च ।
ननु जायते नृणां किल तव वीक्षावैभवेन भवकान्ते ॥ ६६ ॥

त्वन्मौलिचन्द्रविसृमरकरधाराभिः कृताभिषेका त्वम् ।
द्विगुणितदयार्द्रहृदया परिपुष्यसि मङ्गलानि भक्तानाम् ॥ ६७ ॥

गौरि नगाधिपतनये शशिशेखरदिव्यमहिषि मां पाहि ।
इति किल कलिताञ्जलयः सेवन्ते सुरनरादयो नित्यम् ॥ ६८ ॥

परमेश्वरदयिते त्वत्पदपद्मयुगार्चनारताः सन्तः ।
कलयन्ति गाङ्गसलिलं पुष्पाण्यपि भक्तिभारसंपन्नाः ॥ ६९ ॥

श‍ृङ्गारागमसारा तव लीला जयति चेतसि भवस्य ।
अत एव स्वाङ्गे त्वामारोपयदाशु विजितकामोऽपि ॥ ७० ॥

ननु मातरम्ब मन्दस्मितलीलादिकमुदीक्ष्य शशिमौलिः ।
विरहासहिष्णुरनिशं वहति त्वां नैजवपुषि सानन्दम् ॥ ७१ ॥

तव शंकरि भूषोरगलसदुरुमणिदम्भतः शिवः काले ।
नीराजनमातनुते भक्तहितार्थी सुमङ्गलावाप्त्यै ॥ ७२ ॥

तव पादभक्तिरम्ब क्षितिधरतनये तनोति कविसूक्तिम् ।
अमरश्रियमथ सहसा धराधिपत्यादिकं नृणाम् ॥ ७३ ॥

आलोकनेन मातस्तव मनुजानां हृदि स्थितं च तमः ।
गलति हठात् पापालिः सहसामरलोकसंपदाभाति ॥ ७४ ॥

यः सूक्तिमालिकाभिस्तव पादयुगं समर्चयति जन्तुः ।
तत्पदयुग्मं तु सुराः कल्पमहीरुहसुमैश्च गाङ्गजलैः ॥ ७५ ॥

पार्वति तव मुखकमलालोकनतो गलितसंशयाः सन्तः ।
कैवल्यरूपकन्दलमासाद्य विधानतो जना भान्ति ॥ ७६ ॥

See Also  Kamala Trishati – 300 Names Of Kamala In Gujarati

नन्वद्रिसुते मन्दस्मितकान्तिमिषात् त्वदीयकीर्तिझरी ।
दिक्सौधाञ्चलभागे विलसति नतरक्षणोत्थिता जगति ॥ ७७ ॥

करणविहीनान् मूढान् नरान् सुरान् पासि योगिनोऽपि तथा ।
लोकाम्ब भावनाद्यैः काले काले नगेन्द्रतनये त्वम् ॥ ७८ ॥

नगराजवंशसंपद् दिव्या काचिद् विभाति हरमान्या ।
गणपतिमयूरवाहौ यत्तनयौ लोकसंपदे जयतः ॥ ७९ ॥

प्रतिदिनकलितामेनामञ्जलिकलिकामगाधिपतनूजे ।
अङ्गीकुरुष्व दयया तेनैव वयं कृतार्थाः स्मः ॥ ८० ॥

कल्याणकेलिभाजनमिह शर्वस्याप्रेमयतुष्टिकला ।
चन्द्रकलाविलसितनिजमौलितला भातु मानसे कापि ॥ ८१ ॥

विनतजनबन्धहारिणि कल्याणि पुरारिसुकृतपरिपाके ।
बध्नीमो वयमञ्जलिमनुदिनममितात्मचित्सुखावाप्त्यै ॥ ८२ ॥

कंदर्पागमसारा लसदुरुहारा च मङ्गलाकारा ।
ताराधिपवासलसन्मौलितला भातु मानसे देवी ॥ ८३ ॥

नतहंसावलिरेषा गतिजितहंसावली च गिरितनया ।
शिशिरीकरोति लोचनमालामालापविजितशुकवाणी ॥ ८४ ॥

शुकवाणीसदृशीयं मम वाणी हरकुटुम्बिनीनिकटम् ।
न खलु करोति प्राप्ता मुदमस्या मधुरमन्दहासजुषः ॥ ८५ ॥

शशिशकलकलितमौलिस्त्रिलोचना कुङ्कुमच्छाया ।
पाति जननी जनानां किंनरयक्षादिगेयमाहात्म्या ॥ ८६ ॥

निजतनुतेजःप्रसरौरिन्दुकलोत्तंसलसितमौलितला ।
पूरयति लोकमाता त्रिभुवनमिदमात्तकौतुका पीठे ॥ ८७ ॥

तव मातरङ्घ्रिसरसिजभक्तिविशेषात्तवैभवा हि नराः ।
वैमानिकपदवीष्वप्याशारहिता विशन्ति ते धाम ॥ ८८ ॥

तव हारमणिप्रभया पार्श्वस्थितशंभुचन्द्रमौलिकला ।
संप्राप्तपूर्णमण्डलशोभा सततं विराजते मातः ॥ ८९ ॥

अर्धाङ्गशंभुभूषणफणामणिप्रचुरकान्तिवीचीभिः ।
तव हस्तहरिणपोतः शश्वद् धावति नवीनतृणबुद्ध्या ॥ ९० ॥

नाथकलानुगुणं ते रूपं जगदम्ब सर्वबुधवन्द्यम् ।
पर्वतराजसुते नः श्रेयःश्रेण्यै तदस्तु कलितदयम् ॥ ९१ ॥

कैरातो वेषो वा भिक्षाटनरूपमन्यदपि शंभोः ।
सर्वं तत् त्वत्कलया लसितं भात्यत्र भूधरेन्द्रसुते ॥ ९२ ॥

त्रिपुरविजयश्च मातस्त्वत्कोपादरिषु चन्द्रमौलेस्तु ।
आसीत् सुलभकलः किल ते कीर्तिः कीर्तिता दिशां वलये ॥ ९३ ॥

तव पादाम्बुजसेवादरेण मातस्तव स्तुत्याम् ।
यैः कलिता मतिरेषां चरणौ पूज्यौ हि नाकिनां वृन्दैः ॥ ९४ ॥

तव पादभक्तिभूम्ना पाण्डित्यं सर्वसंमान्यम् ।
कीर्तिं च सुखं लभते भक्तस्ते मातरचलसुते ॥ ९५ ॥

परिफुल्लकमलसुषमासंमान्यैस्ते कटाक्षैर्यः ।
भात्यङ्कितो धरण्यां स तु धनदो वा महेन्द्रो वा ॥ ९६ ॥

कमलाक्षमुखैर्देवैः फक्कृतगीर्भिस्तव स्तुतौ मातः ।
कथमम्ब मानुषोऽहं स्तोतुं त्वां शक्नुयां मन्दः ॥ ९७ ॥

तव पादपद्मभक्तिर्धरणिधरेन्द्रस्य कन्यके काले ।
वाचालीकुरुते मां मन्दमपि स्तोतुमादराज्जननि ॥ ९८ ॥

जननि विना पुण्यानां खण्डं त्वामीक्षितुं नयनैः ।
शक्ता नैव हि मनुजास्ते रूपं तत् परं जयति ॥ ९९ ॥

नाकिनगराम्बुजाक्षीनिटिलसुमामोदवासितं मातः ।
तव चरणपङ्कजं मे कृन्तति मोहादिकं हृदये ॥ १०० ॥

परमेश्वरस्य दयितापादपयोजातपांसवो धन्याः ।
कृतपुण्यानां मूर्तिषु भासन्ते सर्वशुद्धये ह्येते ॥ १०१ ॥

तव पादजलजरेणुस्पर्शनसंजातवैभवा मनुजाः ।
धिक्कृतनाकेशपदास्तव सारूप्यादिसंपदुल्लसिताः ॥ १०२ ॥

जननि तवालकरत्नप्रभाप्ररोहैर्गिरीशशिरसि कला ।
चान्द्रमसी सा भजते जपाप्रभालेपनं रम्यम् ॥ १०३ ॥

काञ्च्यां वा कैलासे मेरौ वा भक्तमानसाम्भोजे ।
परमशिववामभागे राजति कालेऽम्बिका ख्याता ॥ १०४ ॥

ध्यानपरीवाहाङ्कुरकलितं ते कुसुमकोमलं हि वपुः ।
योगिहृदयाम्बुजान्तर्जननि विभाति स्फुटाकारम् ॥ १०५ ॥

येषामञ्जलिकलिकालसितं करयुगमिदं काले ।
न प्रेरयति कृतान्तो निजदूतान् तेषु ते परं गुरवः ॥ १०६ ॥

कारुण्याकुलितहृदा तयाम्बया भक्तपापालिः ।
न हि गण्यते गिरीशोऽप्यस्मिन् सततं कृतप्रसादश्च ॥ १०७ ॥

जगतः पितरावेतौ रक्षाहेतोर्निजाङ्घ्रिभक्तानाम् ।
राजत इह बहुरूपौ जनदृक्दृश्यौ च देववन्द्यौ च ॥ १०८ ॥

सा भगवती पुरस्तादास्तां नः शांकरी जननी ।
यद्वीक्षालवहीनाः पीड्यन्ते तप्तगात्राश्च ॥ १०९ ॥

जातपराक्रमकलिका दिशि दिशि किंनरसुगीतनिजयशसः ।
धन्या भान्ति हि मनुजा यद्वीक्षालवविशेषतः काले ॥ ११० ॥

वाचां सनातनीनां विश्रान्तिस्थानकं हि यत् स्थानम् ।
करुणापालितलोकत्रितयं तद् भाति सुकृतिहृदयतटे ॥ १११ ॥

श्रुतिमौलिभूषणं ते पदारविन्दं जनः काले ।
भक्त्या प्रणम्य बहुजननगरे सिंहासने लसति ॥ ११२ ॥

श्यामा चन्द्रकलोज्ज्वलमौलिरियं शांकरी काले ।
ध्यानजपादौ पुण्यात्मनां हृदि प्रस्फुरत्यमले ॥ ११३ ॥

त्रिभुवनरक्षाहेतोरङ्गीकृतगिरिशदेहयष्टिरियम् ।
राजति राजतपीठे त्रिभुवनसुन्दररुचात्तबहुकोणे ॥ ११४ ॥

निश्चलदीपकला सा रक्षितमरुदौष्ण्यहीननिजरूपा ।
शूलिस्नेहोल्लसिता जनहृत्तमसां निहन्त्री च ॥ ११५ ॥

निगमान्तमध्यवीथीमहामणिः सर्वमूल्या च ।
भक्तिक्रया च काले केयूरमणिश्च शूलिनो जयति ॥ ११६ ॥

कल्याणसंततेर्या कलिता जन्मस्थलीति विबुधेशैः ।
नः कल्याणाय स्यात् सा गौरी मेदुरा दयया ॥ ११७ ॥

तव केशकान्तिविसरै राहोः शङ्का शिरःस्थेन्दोः ।
ग्रसनादिदैन्यहारिप्रभावमालोच्य ते सौम्यः ॥ ११८ ॥

मन्दस्मितरुचिभरिते पुरःस्थले तेऽर्चनाहेतोः ।
न्यस्तानि हि पुष्पाणि भ्रमराक्षेपात् स्फुटं भान्ति ॥ ११९ ॥

क्षीरसहोदरमन्दस्मितरुचिनिरसितनतालिहृत्तिमिरा ।
सा जयति शांकरी किल शंकरसंस्तूयमानविभवा च ॥ १२० ॥

मन्दानामपि मञ्जुलकवित्वरसदायिनी जननी ।
कापि करुणामयी सा लसतु पुरस्तात् सदास्माकम् ॥ १२१ ॥

तापहरसविवर्षणकृतकुतुका कापि नीलनलिनरुचिः ।
कादम्बिनी पुरस्तादास्तां नः संततं जननी ॥ १२२ ॥

करुणाकटाक्षलहरी कामायास्तु प्रकामकृतरक्षा ।
गौर्या गिरिपतिमान्या सत्सुखदाने भृशं ख्याता ॥ १२३ ॥

ऐक्यमनीयत नितरां यदादरेणेन्दुमौलिना पूर्वम् ।
तत् तेजो हृदि लसतु स्थिरे च निष्कल्मषेऽस्माकम् ॥ १२४ ॥

यत्पदरेखा मान्या लेखादीनां शुभोदये निभृतम् ।
सा लोचने पुरस्तादास्तां नः शशिकलोल्लसन्मौलिः ॥ १२५ ॥

यस्याविर्भाववशान्मान्योऽभूद् भूधरेन्द्रोऽपि ।
तत् पार्वतीति संज्ञं गौरी दाक्षायणी च लोकाम्बा ॥ १२६ ॥

मारारातिमनोहरलावण्या कुसुममृदुशरीरेयम् ।
निजकरुणापाङ्गसुधापूरणकृतवैभवा भाति ॥ १२७ ॥

धनधान्यकीर्तिकविताललनासुतहर्म्यमुख्यकामपरैः ।
तैर्नूनमर्चिताचलसुताङ्घ्रिजलजैस्तथाभूतैः ॥ १२८ ॥

गिरिश्शरीरविहारि त्रातजगत् तत् परं ज्योतिः ।
शारदसरसिजनयनं मम गौरीरूपमाविरस्तु हृदि ॥ १२९ ॥

अचलसुतया सनाथा वयमेते धूतपापकलाः ।
शशिशिखरं चर्मधरं गङ्गाधरमीक्ष्य मोदन्ते ॥ १३० ॥

प्रौढान्धकारनिरसनचणमेतत् पार्वतीरूपम् ।
परमं ज्योतिर्लसति स्फुटं च सद्गणसमावृतं हृदये ॥ १३१ ॥

दहराकाशविहारि ज्योत्स्नालसदुत्तमाङ्गमिदमाद्यम् ।
चिन्तारत्नं गिरिशप्रकामभाग्यं च लोकदीपकला ॥ १३२ ॥

पुण्याङ्कुरवृद्धिकरं गौरीरूपं सदा ध्याये ।
यच्छिवनेत्रमहोत्सवनिभृतं रक्षितजगत्त्रितयम् ॥ १३३ ॥

सूर्यसुताकल्लोलोल्ललनदशारम्यनेत्रलहरीभिः ।
श्रेयःसंततिमचिरात् तरङ्गयति नः सदा देवी ॥ १३४ ॥

भूधरकन्या सेयं सादरदत्तार्हणादिबहुतोषा ।
वादरसविजयदाः नः पादरसासक्तकलितबहुभाषा ॥ १३५ ॥

प्रौढतमालवनालीरुचिभरकमनीयनेत्रविस्फारैः ।
दिशि दिशि कलिता संपद् यया तया नः कुलं जयति ॥ १३६ ॥

निजतारुण्यविहारैर्मोहकरं शूलिनोऽपि यत् तेजः ।
तत् कुमुदिनीशखण्डस्फुरच्छिरःकरलसद्धनुर्वर्यम् ॥ १३७ ॥

शंकरपुण्याङ्कुरकृतरूपं पाथोजनयनं च ।
पृथुजघनकुचयुगं च त्रातजगत् दग्धदैत्यचयम् ॥ १३८ ॥

नीलनलिनीसुमालीललितकचं शंकरार्हललितकुचम् ।
कैलासपीठमध्ये भाति सदा ध्येयमाराध्यम् ॥ १३९ ॥

स्मरणदशयापि कापि प्रदीपिका नाशिनी तमसाम् ।
निगमततिसौधवलभीप्रकाशिनी नित्यतेजस्का ॥ १४० ॥

पुरारिपुवामाङ्कतलोद्भासितगात्रं महः किमपि ।
हृदि लसतु संततं मे निरस्तसंसृतितमोराशि ॥ १४१ ॥

निगमान्तमध्यपञ्जरशुकी शुकाद्यैः समाराध्या ।
करधृतपुण्ड्रेक्षुकला श्रेयःसंतानदायिनी नमताम् ॥ १४२ ॥

तव पादपद्मशोभाच्छुरितं पुरतः स्थलं गौर्याः ।
कृतपल्लवसंस्तरणं मत्वा तूष्णीं बभूव ते दासः ॥ १४३ ॥

नवजलधरनीलरुचा संमान्यैस्ते कटाक्षकान्तिभरैः ।
संकलितनित्यतोरणशोभं ते मण्टपास्थानम् ॥ १४४ ॥

राकाचन्द्रनिभास्या सा काश्यादिषु कृतात्मबहुपीठा ।
नाकादिराजविनुता शोकादिहरप्रभावजन्मकला ॥ १४५ ॥

पारावारसुताद्यैरारात्कलनीयनैजविभवा सा ।
वीराढ्यनैजरूपा दाराः कैलासवासिनो जयति ॥ १४६ ॥

धीरात्महृदयकमले धाराधरनीलचिकुरभारवती ।
क्षीरादिहृद्यवाणी धारा सा भाति पार्वतीरूपा ॥ १४७ ॥

परमशिवभाग्यधाटी काञ्चनशाटी ममास्तु हृदि सततम् ।
परिमलितवक्त्रवीटी कृतनतिघोटी गजादिपरिपाटी ॥ १४८ ॥

सन्मानसकासारे कृतपरमानन्दसंततिर्जननी ।
शंकरतत्त्वोन्मेषं कल्यति काले दयासारात् ॥ १४९ ॥

एणाङ्कलसितमौलिः क्षीणानां रक्षिणी परमा ।
पाणावादृतहरिणा वीणानुतिलालिता च सा जयति ॥ १५० ॥

मूकादीनां पुरहरमौल्यान्दोलनकरोज्ज्वला वाचः ।
यत्कारुण्यात् काले समुल्लसन्तीह सा मदीयधनम् ॥ १५१ ॥

सर्वेषां देवानामपि मर्त्यानां तथा गिरीशस्य ।
एका पुण्यश्रेणी गौरीरूपा हि सर्वदा जयति ॥ १५२ ॥

See Also  300 Names Of Sree Kumara – Sri Kumara Trishati In Gujarati

पशुपतिपुण्यश्रेणीपरिपाकं पार्वतीरूपम् ।
निजदृग्रक्षितलोकत्रयमिदमाराद् विराजते तेजः ॥ १५३ ॥

शीतलभूधरजनिता दयया च पुनस्तथा शीता ।
शीतलललयकटाक्षा सा जननी नः सदा जयति ॥ १५४ ॥

स्मृतिमात्रतापहान्यै कलितप्तानां जनानां सा ।
कृतसंकल्पानल्पाभरणा भरणाय हृदि लसति ॥ १५५ ॥

सुकृतिजनदृश्यरूपं दुष्कृतिजनदूरगं च तत् तेजः ।
कारुण्यपूर्णहृदयं तद्भावनतां तथा जयति ॥ १५६ ॥

तापिञ्छस्तबकरुचिर्जननी सा शांकरी भजताम् ।
निजदृक्पातप्रशमितदारिद्र्यादिर्लसति पीठे ॥ १५७ ॥

परमशिवास्थानतले नित्यं खेलनकृतादरं तेजः
तद् राजते मुनीनां हृदये निगमान्तसौधे च ॥ १५८ ॥

निश्चलभावभृतां तन्निश्चलरूपं विराजते तेजः ।
हंसीव मानसे मे मञ्जुलगतिदायिनी सुदृशाम् ॥ १५९ ॥

माधुर्यं वचसि गतौ गाम्भीर्यं नेत्रयोस्तैक्षण्यम् ।
शैतल्यं हृदि च सदा यत्र हि दृश्यं तदेव जननी नः ॥ १६०॥

निजशोभाजितकन्दुककुचयुगलश्रीजितेशहृदया सा ।
मनसि मम संनिधत्तां दत्तात्रेयादिभिर्वन्द्या ॥ १६१ ॥

निजमौलिचन्द्रकिरणप्रसारणेऽप्युल्लसत्सरोजयुगम् ।
दधती श्रवसोरेषा चकास्ति हृदये परा देवी ॥ १६२ ॥

मुखजिततारानाथा मखभुग्गणसेव्यचरणजलजाता ।
नखकान्तिपटलदम्भाद् गतिजितहंसावली विभातु हृदि ॥ १६३ ॥

कविताभाग्यविधात्री परिमलसंक्रान्तमधुपगणकेशा ।
मम नयनयोः कदा वा कर्णेजपलोचनं दिव्यम् ॥ १६४ ॥

शशिखण्डवतंसश्रीः पशुपतिभाग्यं च तत् तेजः ।
मम नयनयोः कदा वा कर्णेजपलोचनं दिव्यम् ॥ १६५ ॥

तत् तेजः शाश्वतमिह सामान्यं भूनिवासकृताम् ।
द्युसदामपि जयति कृतादरं तदस्तु श्रियै काले ॥ १६६ ॥

शतमखनीलमणीनां प्रभाविसारप्रलोभतनुकान्त्या ।
श्रुतिमौलिसौधदीपश्रिया तया नाथवानहं काले ॥ १६७ ॥

कविकुलसूक्तिश्रेणीश्रवणानन्दोल्लसद्वतंससुमा ।
सा देवी मम हृदये कृतसांनिध्या कृतत्राणा ॥ १६८ ॥

पुष्पेष्वागमसारा पुरभिन्मानसविभेदिनिजकेलिः ।
विश्वविमोहनमूर्तिः सा देवी शांकरी जयति ॥ १६९ ॥

काशीकाञ्च्यादितटस्थिरासना मेखलाभिरामकटिः ।
मुग्धस्मेरमुखी सा या गौरी संपदां जननी ॥ १७० ॥

मुखविजितचन्द्रमण्डलमिदमम्भोरुहविलोचनं तेजः ।
ध्याने जपे च जपतां चकास्ति हृदये कवीश्वराणां च ॥ १७१ ॥

मञ्जुलकवितासंततिबीजाङ्कुरदायिनी रसालोका ।
जननि तवापाङ्गश्रीर्जयति जगत्त्राणकलितदीक्षेयम् ॥ १७२ ॥

अम्ब तवापाङ्गश्रीरपाङ्गकेलीशतानि जनयन्ती ।
पुरहन्तुर्हृदि जयति व्रीडामदमोहकामसारकरी ॥ १७३ ॥

दिनकरसुतातरङ्गावलिशोभाकृतकचाकचिश्रीश्च ।
शशिखण्डवतंसशिराः सा देवी शरणमर्थिनां परमम् ॥ १७४ ॥

कलकलनिनदत्काञ्ची काञ्च्यादितलस्थिरासना देवी ।
पुरहरभूषणमूर्तिः सा देवी शरणमस्माकम् ॥ १७५ ॥

पुरहरसहधर्मचरीं कचभारलसन्निशीथिनीशकलाम् ।
कविकुलमान्यचरित्रां पवित्रितक्षोणिभृत्कुलां वन्दे ॥ १७६ ॥

भक्तजनावलिकथितस्तुतिशतदत्तादरामिमां देवीम् ।
सरसकवनप्रदात्रीं भूषितशिववामभागरेखान्ताम् ॥ १७७ ॥

मङ्गलमूर्तिं किंनरकीर्तितनिजकीर्तिवल्लरीं जननीम् ।
मूर्तिमतीं कामकलां शंभोरम्भोजलोचनां नौमि ॥ १७८ ॥

जितमन्मथमारकलादात्रीं शिवगात्रदिव्यभूषां ताम् ।
त्रिजगत्सुखजनयित्रीमम्बामम्बुदमनोज्ञतनुमूर्तिम् ॥ १७९ ॥

खण्डितसुरवैरिगणां चण्डकराद्यैः सुरैश्च नुतसदनाम् ।
मण्डितपुरहरदेहां ताण्डविनः सर्वमङ्गलां देवीम् ॥ १८० ॥

निजलोचनकृतसंपदमजकमलेक्षणशचीशसुरवन्द्याम् ।
भजनकृदन्तर्ज्योतिषमजतनयाद्यैश्च नित्यसेव्यकलाम् ॥ १८१ ॥

भरितभुवनामपर्णां सरिदुरुवीचीविलोलितात्मकचाम् ।
गिरिशकृतनित्यलीलां वरिवस्यादानतुष्टनिजहृदयाम् ॥ १८२ ॥

जननुतनित्यविभूतिं कनदुरुभूषावलीलसितदेहाम् ।
मनसाप्यगण्यतत्त्वां वनवासिध्यानगोचरात्मकलाम् ॥ १८३ ॥

नीलाम्बुजकान्तिमुषं बालार्कनिभात्मकर्णपूरवतीम् ।
मालालंकृतकण्ठां बालां स्कन्दस्य मातरं वन्दे ॥ १८४ ॥

शरणागतजनरक्षणकृतदीक्षावीक्षणेन जितशंभुः ।
कुलभूधरवरतपसां परिपाकः कोऽपि विजयते लोके ॥ १८५ ॥

कुसुमशरमथनमनसाप्यादरणीयात्मकामकेलिरियम् ।
जननी कल्याणततिं भजतां नः सादरात् तरङ्गयति ॥ १८६ ॥

मत्तगजमान्यगमना मधुरालापा च मान्यचरिता सा ।
मन्दस्मेरमुखाब्जा गौरी मम हृदयसारसे लसतु ॥ १८७ ॥

पुरहरनेत्रमहोत्सवतारुण्यश्रीर्निरस्तनतशत्रुः ।
ललितलिकुचाभकुचभरयुगला दृग्विजितहरिणसंदोहा ॥ १८८ ॥

कारुण्यपूर्णनयना कलिकल्मषहारिणी च सा गौरी ।
मुखजितशारदकमला वक्त्राम्भोजे सदा स्फुरतु काले ॥ १८९ ॥

शूलिमनोरथपात्रं संतप्तस्वर्णकाम्यनिजगात्रम् ।
आश्रितहिमवद्गोत्रं रक्षितनतबाहुजच्छात्रम् ॥ १९० ॥

कविकुलजिह्वालोलं शशिशेखरकलितरम्यबहुलीलम् ।
निरसितनतदुष्कालं वन्दे तेजः सदालिनुतशीलम् ॥ १९१ ॥

कमलसुषमानिवासस्थानकटाक्षं चिराय कृतरक्षम् ।
रक्षोगणभीतिकरं तेजो भाति प्रकाममिह मनसि ॥ १९२ ॥

कुमुदवनीशक्रीडास्थानायितकेशभारायै ।
नम उक्तिरस्तु मात्रे वाग्जितपीयूषधारायै ॥ १९३ ॥

बालकुरङ्गविलोचनधाटीरक्षितसुरादिमनुजान्तम् ।
नयनयुगासेव्यं तद् भातीह धरातले नियतम् ॥ १९४ ॥

कुशलविधये तदस्तु प्रसूनविशिखारिकृतलीलम् ।
कबलितपदनतदैन्यं तरुणाम्बुदमेचकं धाम ॥ १९५ ॥

जननि कदा वा नेष्याम्यहमारादर्चितत्वदीयपदः ।
निमिषमिव हन्त दिवसान् दृष्ट्वा त्वामादरेण कल्याणीम् ॥ १९६ ॥

कविवाग्वासन्तीनां वसन्तलक्ष्मीः पुरारिदयिता नः ।
परमां मुदं विधत्ते काले काले महाभूत्यै ॥ १९७ ॥

त्रिभुवनसुन्दररूपं तेजस्तद् भक्तितः समभ्यर्च्य ।
गरुडेन याति कुतुकादथवा हंसेन सुरसेव्यः ॥ १९८ ॥

तव पदपद्मे भक्तिर्न मे तथापि तवदीयकृपयाहम् ।
ध्यायाम्यन्वहमम्ब त्वामारादादरात् सिद्ध्यै ॥ १९९ ॥

यो देव्याः पदसरसिजनतिभाक् तस्येह सिध्यन्ति ।
स्थिरविभुता सत्सङ्गः सायुज्यं चापि कालेन ॥ २०० ॥

हिमगिरितपःफलं तन्मुनिजनहृदयाब्जनित्यकृतनृत्तम् ।
करुणालोलापाङ्गं तत् तेजो भातु निःसमं वदने ॥ २०१ ॥

जननि तरङ्गय नयने मयि दीने ते दयास्निग्धे ।
तेन वयं तु कृतार्था नातः परमस्ति नः प्रार्थ्यम् ॥ २०२ ॥

मुनिहृदयपद्महंसी शिवकेलीसदनरत्नदीपकला ।
हिमवत्पुत्री कृपया मामवति महौषधी कलिव्याधेः ॥ २०३ ॥

प्रतिफलतु भावनायामस्माकं सा स्फुरत्कृपाधारा ।
पुरहरदृक्साफल्यं कैलासे किमपि निश्चितं तेजः ॥ २०४ ॥

सज्जनमानसधाम्ने नम उक्तिर्मे श्रुतीड्यनिजभूम्ने ।
शिववामभागधाम्ने महाविभूत्यै हि शंकरीनाम्ने ॥ २०५ ॥

देशिकमानसविहरणकलाजुषे भक्तिरस्तु मे तस्मै ।
यच्चन्द्रमौलिलोचनचापल्यं रक्षितस्वभक्तौघम् ॥ २०६ ॥

निजलोचनकेलिकलावशीकृतप्रसबाणरिपुहृदयम् ।
दयया लोलितहृदयं तदस्तु तेजः पुरोऽस्माकम् ॥ २०७ ॥

सततं बद्धाञ्जलिपुटमुपास्महे तच्छुभप्रदं तेजः ।
यन्मरकतकान्तिलसत् प्रसूनशरवैरिपुण्यपरिपाकम् ॥ २०८ ॥

तीरं संसृतिजलधेः पूरं शंकरविलोचनप्रीतेः ।
सारं निगमान्तानां दूरं दुर्जनततेर्हि तत् तेजः ॥ २०९ ॥

नगराजकन्यका सा लसतु पुरोऽस्माकमादरकृतश्रीः ।
यत्प्रणमनाज्जनानां कवितोन्मेषः सदीडितो लसति ॥ २१० ॥

सन्नयनसारसालीपूषा भूषा च हरशरीरस्य ।
हिमगिरितनया योषा भाषास्तोत्रप्रिया च सा भाति ॥ २११ ॥

सफलयतु नेत्रयुगलं हतनतदुरिता हि सा परा देवी ।
धरणिधरनायकप्रियसुता च सोमार्धभूषितात्मकचा ॥ २१२ ॥

सुमनोवाञ्छादाने कृतावधानं धनं शंभोः ।
धिषणाजाड्यादिहरं यद्वीक्षणमामनन्ति जगति बुधाः ॥ २१३ ॥

को वा न श्रयति बुधः श्रेयोऽर्थी तामिमामम्बाम् ।
यामर्धचन्द्रशेखरसधर्मिणीमर्चयन्ति सुरनाथाः ॥ २१४ ॥

शमितनतदुरितसंघा हराय निजनेत्रकल्पितानङ्गा ।
कृतसुरशात्रवभङ्गा सा देवी मङ्गलैस्तुङ्गा ॥ २१५ ॥

कवितारसपरिमलितं करोति वदनं नतानां या ।
स्तोतुं तामहमारात् सा देवी सुप्रसन्नास्तु ॥ २१६ ॥

पुरहरवामोत्सङ्गे भजामि लसितं तु तत् तेजः ।
सृष्टिस्थितिलयकार्यं यज्जनयति कालभेदेन ॥ २१७ ॥

कल्याणदानकलनात् ख्याता सा शांकरी लोके ।
तद्वैभवकीर्तनतो वयमत्रासाः परानन्दाः ॥ २१८ ॥

मन्दहसितैर्वशीकृतशांकरहृदया हि भक्तानाम् ।
रक्षणकार्याय परं साम्बा कुम्भोद्भवादिभिर्वन्द्या ॥ २१९ ॥

निजमौलिचन्द्रकिरणप्रसारणाद्गाङ्गवीचिकापवनैः ।
तत्क्षणनिरसितसुरतश्रमा भवानीह राजते भूत्यै ॥ २२० ॥

मम गाहते हि हृदयं नयनयुगं त्रिपुरदमयितुर्भाग्यम् ।
यदकृत्रिमवाग्गुम्भैः स्तुत्यं ध्येय सदाभ्यर्च्यम् ॥ २२१ ॥

करधृतशूलाद्यायुधजालनिरस्ताखिलारिबृन्देयम् ।
कुन्दाभदन्तवदनानन्दायास्तु प्रकाममिह नमताम् ॥ २२२ ॥

कुचभारनम्रगात्रं निजजनिपरिपूतजनकवरगोत्रम् ।
सुरवैरिकलितकोपं गौरीरूपं तदस्तु हततापम् ॥ २२३ ॥

निटिलात्तवह्निनेत्रं लोलालकमेतदादृतं तेजः ।
निजकेल्यधीनशंकरमस्माकं चाक्षयं स्थानम् ॥ २२४ ॥

तव मन्दस्मितलहरीविशेषितरुचिर्गिरीशशशिशकलः ।
तव रूपं गिरिशस्य स्वरूपमपि भाति योगिनां हृदये ॥ २२५ ॥

नीलारविन्दलोचनयुगलामम्बामहं नौमि ।
कालारिचित्तहरणे यल्लीलाः पाटवं नीताः ॥ २२६ ॥

शशधरभूषितमकुटी कविकुलवागब्जशरदियं देवी ।
आर्तत्राणपरायणविलोचना हिमवतः पुत्री ॥ २२७ ॥

श्रुतिपञ्जरकेलिशुकी शंकरपरिरम्भणोत्सुका माता ।
बहिरप्यन्तयर्मिनां चकास्ति लोकाम्बिका कृतत्राणा ॥ २२८ ॥

चिन्तितवस्तुविधात्री संततमपि लोकरक्षणैकरता ।
संदानितनाकिलसत्संतानसुमप्रगल्भधम्मिल्ला ॥ २२९ ॥

कलितत्रिवर्गपदवीमपवर्गदकल्यसेवनामम्बाम् ।
गाङ्गजलैर्नलिनदलैरारग्वधपत्रजालकैरर्च्याम् ॥ २३० ॥

शशिशेखरसर्वस्वं पूर्वाचार्यैः पुरस्कृतं तेजः ।
मामकचक्षुर्विषयं कदा नु कैलासकलितचङ्क्रमणम् ॥ २३१ ॥

मोहितभुवना देवी सा हितकरनित्यचिन्तना भजताम् ।
ताडितरिपुजनमान्या पीडितनिजभक्तभवभया जयति ॥ २३२ ॥

See Also  300 Names Of Goddess Lalita Trishati Namavalih In Odia

प्रत्यङ्गलसितभूषा सत्यं माता हि शरणमस्माकम् ।
क्क्त्यं यमभयमस्याः स्तुत्यं जगतीह वैभवं मनुजैः ॥ २३३ ॥

अम्ब त्वमेव कमलासनादिवैभवविधात्री च ।
तां त्वां शरणं प्राप्ताः लोकेऽमुष्मिन् किमाशास्यम् ॥ २३४ ॥

कुङ्कुमरुचिलसिताङ्गं कमलासनमात्तकमलं च ।
हस्ताम्बुजधृतपुस्तकरुद्राक्षादि च तथा रूपम् ॥ २३५ ॥

जितमन्मथवरिवस्यासक्तं रूपं च ते मातः ।
कालानुकूलकलितं परतत्वविदां चकास्ति हृदयतटे ॥ २३६ ॥

हिमवन्नगेन्द्रकन्ये भूसुरकृतबहुलपूजया धन्ये ।
मान्ये सुमनःसंघैस्त्वां कलये हृदि सदा हि कटिशून्ये ॥ २३७ ॥

निरसितनिष्कंचनजनदैन्या कन्या धराधरेशस्य ।
दृक्कान्तिविजितहरिणा हरिणाराध्या च सा जयति ॥ २३८ ॥

विनतजनितापवर्गा सर्गादिकरी च सा देवी ।
निजलीलाहृतभर्गा दुर्गादिश्रेयसां जननी ॥ २३९ ॥

कवनकृतां तोषकृते जगदवनादिक्रियापेषु भवतु ।
शांकरिरूपाय परं नम उक्तिर्ज्योतिषेऽस्माकम् ॥ २४० ॥

फणिपतिभूषितदेहा हरभजनानन्दसंदोहा ।
तत्त्वैर्हतसंदेहा चकास्तु हृदये विधूतजनमोहा ॥ २४१ ॥

जयति जननि त्वदीयं रूपं रविकोटितुलितमिदम् ।
एतन्नानाकारं काले कृतरक्षणं च भुवनेड्यम् ॥ २४२ ॥

मदनारिकण्ठसुषमासाक्षीभूतस्वबाहुयुगला सा ।
कुङ्कुमपङ्काङ्किततनुरेषा देवी चकास्ति बहुरूपा ॥ २४३ ॥

काञ्चीमणिलसितकटिः काञ्चीपुरभूषणं च तद्धाम ।
यन्मन्मथरिपुमान्यं निजलीलाकलितबहुरूपम् ॥ २४४ ॥

करपङ्कजधृतमाला सृष्टिस्थित्यादिबहुलीला ।
वीटीविलसितवदना विरचितनतहर्म्यवरसदना ॥ २४५ ॥

विसृमरतानुकम्पा तं पातकिवर्गमादरादम्बा ।
रक्षति तनुजितशम्पा सा नः शरणं पुरः स्फुरतु ॥ २४६ ॥

शूलिनि सुरजनपालिनि कात्यायनि देवि मां पाहि ।
सुरलोककुसुममालिनि शिवखेलिनि चण्डिके पाहि ॥ २४७ ॥

भारति भैरवि शांकरि कपालिनि नमोऽस्तु ते नित्यम् ।
स्तुत्वैवमम्ब वाचा मनसाराध्यं नमामि ते पादम् ॥ २४८ ॥

कुटिलकचं लिकुचकुचं मृदुबाहुलतं च कङ्कुमच्छायम् ।
विलसति शशधरमौलेः सर्वस्वं सुकृतपरिपाकः ॥ २४९ ॥

उन्मूलयति शुभेतरवार्तामप्यम्ब ते नाम ।
भजनादपि कीर्तनतः किं वा भाग्यं त्वदीयभक्तानाम्। ॥ २५० ॥

परमशिवपुण्यकोटी निजगतिजितसन्मरालगतिधाटी ।
कृतनित्यकामकोटी कोटीरोल्लसितचन्द्रपरिपाटी ॥ २५१ ॥

चन्द्राभरणवतंसा कंसारिमुखैः सुरैश्च नुतचरिता ।
गजमुखषण्मुखजननी सास्माकं मानसे कृतास्थाना ॥ २५२ ॥

परमशिवदिव्यजाया मायामोहितसुरासुरा जननी ।
कुङ्कुमविलसितकायापायान्मां रक्षतीह कविगेया ॥ २५३ ॥

भूषितरत्नाभरणा शरणर्थिजनालिकल्पिताभरणा ।
मुदितनिजान्तःकरणा मरणादिध्वंसिनी सदावरणा ॥ २५४ ॥

श्रुतिसुदतीस्तबकायितचरणाम्भोजा च भोजाद्यैः ।
कृतपरिचरणा विस्तृतकरुणाम्बा शैलराजवरतनया ॥ २५५ ॥

अधरे लसितारुण्यं तनौ तु हरमान्यपूर्णतारुण्यम् ।
लोचनधृतकारुण्यं करे कुसुम्भादिसंभृतारुण्यम् ॥ २५६ ॥

तत्तेजो लसति हृदि स्मरारिसंमान्यबहुलीलम् ।
सृणिपाशाङ्कुशहस्तं प्रशस्तमस्तोदयादिहीनं च ॥ २५७ ॥

कलितचराचररक्षणमक्षीणोद्दामवैभवं किमपि ।
निखिलागमयन्त्रकलासारं तल्लसति पुरभिदा मान्यम् ॥ २५८ ॥

भवचित्तराजहंसी भवभयमोहादिभेदिनी शरणम् ।
सवरक्षणकृतदीक्षा शिववामाङ्गोल्लसितमूर्तिः ॥ २५९ ॥

तव चरणन्यासवशात् परिपूता भूरियं भूत्यै ।
देवेशमौलिसेव्या तां त्वामाराधयामि गिरितनये ॥ २६० ॥

क्षणमिह मातर्दूरे स्याद् यदि दृष्टिः शुभंकरी मान्या ।
अष्टैश्वर्योऽपि तदा विनष्टशोभो विकल्यश्च ॥ २६१ ॥

अत एव हि कारुण्याल्लोकाम्ब त्वं सदादृतभवाङ्गा ।
क्रीडसि रक्षसि काले जनयसि मोहादिकानथवा ॥ २६२ ॥

परमशिवकेलिरसिके यः कोऽपि जनस्तव स्तवं कुर्वन् ।
निरसितनाकेशपदस्तव सारूप्यं क्रमाद् भजति ॥ २६३ ॥

तव पादपद्मविसृमरकान्तिझरीं मनसि कलयंस्तु ।
निरसितनरकादिभयो विराजते नाकिसदसि सुरवन्द्यः ॥ २६४ ॥

बालमरालीगत्यै सुरगिरिधानुष्कमहितकलगीत्यै ।
विरचितनानानीत्यै चेतो मे स्पृहयते बहुलकीर्त्यै ॥ २६५ ॥

वितरणकलाप्रसक्तौ चिन्तामणिकामधेनुसुरवृक्षाः ।
ते दूरे तां त्वामहमाराधयितुं कृतप्रयत्नोऽस्मि ॥ २६६ ॥

विनमदमरेशसुदतीकचसुममकरन्दधारया स्निग्धम् ।
तव पादपद्ममेतत् कदा नु मम मूर्ध्नि भूषणं जननि ॥ २६७ ॥

तव हरपुरंध्रि मातश्चरणपयोजं क्रमार्चितं येन ।
तेनैन्द्रपदमपि द्राग् विराजते तत् समाक्रान्तम् ॥ २६८ ॥

तव पदसरोजपांसुन्यासाद्धन्योत्तमाङ्गलसिताश्च ।
गायन्ति च नृत्यन्ति प्रमोदकृतनुतिचयाश्च राजन्ते ॥ २६९ ॥

यत्प्रणयकलहवार्ताभीतो निरसितसिमेषुरपि विनयी ।
मदनं तमपि वसन्तं मानयितुं संप्रवृत्तहृदयोऽभूत् ॥ २७० ॥

कुसुमैर्गाङ्गैर्वारिभिरनुनयवाग्भिश्च नम्रमुखः ।
सा पुरहरभूषा नो मनसि विहरतां किरीटलसदिन्दुः ॥ २७१ ॥

पुरहरपरतन्त्रं तद् गततन्द्रं वस्तु निस्तुलमुपासे ।
तेनैवाहं धन्यो मद्वंश्या निरसितात्मतापभराः ॥ २७२ ॥

मुखसुषमाजितपद्मं पद्मजहरिवासवादिबुधसेव्यम् ।
काव्यार्थसारमेतद् गौरीरूप हि विजयते तेजः ॥ २७३ ॥

यस्याः पदसरसिजयोर्विबुधकिरीटावलिर्गौर्याः ।
नीराजनविधिकलिता सा मे कुलदैवतं लसतु ॥ २७४ ॥

कविहृत्कैरविकसनचन्द्रिकया शमिततापभराः ।
मन्दस्मितश्रिया किल यस्याः सा भाति हिमवतः पुत्री ॥ २७५ ॥

निरसिततमःप्रचारा पूर्वा संध्येव नगपतेस्तनया ।
द्विजसंघोदयकलना सा मे कुलदैवतं लसतु ॥ २७६ ॥

रचयामि नमंसि भृशं शंकरमण्डितनिजाङ्कवल्लर्यै ।
पुण्यात्मने पुरारेः पर्वतकुलराजतनयायै ॥ २७७ ॥

पुरमथनभाग्यधाटी कविलोकसमीड्यसूक्तिरसधाटी ।
मुखलसितसारवीटी विहरतु हृदि मे कृपौघपरिपाटी ॥ २७८ ॥

अम्ब तव करुणयाहं रक्षितसंतानवैभवो नित्यम् ।
एतादृशी तुमहती कीर्तिस्ते जृम्भते प्रतिदिशं हि ॥ २७९ ॥

मदनपरिपन्थिमहिषी मम मानसकल्पितासना जयति ।
श्रुतिमौलिविहितचरणा योगिहृदम्भोजलालितापि मुहुः ॥ २८० ॥

पशुपतिपुरंध्रि मातस्तव पादयुगं प्रणम्य जन्तुरिह ।
विधुतयमदूतभीतिस्त्रिदिशैरपि मान्यते कलितसेवः ॥ २८१ ॥

सुरसुदतीलोलालकमकरन्दरसवासितं तव पदाब्जम् ।
मम मानसे तु फुल्लं भवतु हि काले वयं तु धन्याः स्मः ॥ २८२ ॥

तव नाम यस्य वक्त्रे फाले च पदाब्जकुङ्कुमच्छाया ।
स भवति मान्यस्त्रिदशैरपि धुतसमस्तदुरितजालः सन् ॥ २८३ ॥

आस्तां हि मे पुरस्तात् पुरजयिनः पुण्यपरिमलोल्लासि ।
जननीरूपं संततमाश्रितरक्षैकक्लृप्तदीक्षं तत् ॥ २८४ ॥

हरिणाङ्कमौलिदयिते यदि ते दृष्टिस्तदादरात् कविता ।
आलिङ्ग्य मोदति चिरं तेन हि सर्वज्ञता लोके ॥ २८५ ॥

डम्भादिदुर्गुणौघो धावति दूरे त्वदीयपदभक्तम् ।
त्यक्त्वा यदि ते दृष्टिस्तेन हि सर्वाः श्रियः काले ॥ २८६ ॥

तव मातर्मुनिमान्यं पदमाराध्य प्रसूनौघैः ।
लभते सहस्रनयनान्यथवाष्टौ पुण्यसंवृतः पुरुषः ॥ २८७ ॥

निर्धूततमःकन्दे मुकुन्दपद्मासनादिसेव्यपदे ।
भक्तिर्मम हि सदा स्यात् तेनाहं धन्यचरितोऽस्मि ॥ २८८ ॥

नूपुरमनिगणरञ्जितपादाब्जं मातरम्बिके हृदये ।
मम लसतु तव कटाक्षान्नातः परमर्थनीयं हि ॥ २८९ ॥

मुक्तामणिभूषितया कोकिलशुकमान्यवाग्विभूषितया ।
हिमगिरिसुतयाहं किल सनायको धूतपापादिः ॥ २९० ॥

निर्धूततमसि रूपं तव मातर्मामके हृदये ।
स्फुरति तवैव हि दयया न मामकैः कर्मभिश्च व्रतगुम्भैः ॥ २९१ ॥

निगमान्तवेद्यवैभवमेतत् ते रूपमम्बिके मातः ।
स्फुरति मम नयनयोरिह तत्र तु हेतुस्त्वदीयकरुणा हि ॥ २९२ ॥

त्रिणयनसाम्राज्यमिदं तव रूपं निखिलदेवतोपास्यम् ।
ननु मातः स्फुरतु सदा नातः परमर्थनीयं हि ॥ २९३ ॥

हरिणाङ्कमौल्यधीना कापिपरा शक्तिरम्बिका क्षेत्रे ।
मौलौ च नित्यवचसां मम चित्ते भजतु नित्यलीलादिम् ॥ २९४ ॥

परिसरनतविबुधालीकिरीटमणिकान्तिवल्लरीविसरैः ।
कृतनीराजनविधि ते मम तु शिरोभूषणं पदसरोजम् ॥ २९५ ॥

भागीरथीव वाणी तव नुतिरूपा विराजते परमा ।
इह मातर्यद्भजनं सर्वेषां सर्वसंपदां हेतुः ॥ २९६ ॥

नगपतितनये मातः शांकरि माहेस्वरीति नामानि ।
नित्यं जपन्नहं तु त्वदीयदासोऽस्मि मुक्तये सिद्धः ॥ २९७ ॥

निखिलचराचररक्षां वितन्वती शांकरी दयया ।
मम कुलदैवतमेषा जयति सदाराध्यमान्यपदकमला ॥ २९८ ॥

सर्वजनैः संसेव्ये संततमपि वाञ्छितप्रदे देवि ।
अम्ब त्वमेव शरणं तेनाहं प्राप्तसर्वकार्यार्थः ॥ २९९ ॥

शांकरि कथं नु वर्ण्यस्तव महिमा वेदमौलिगणवेद्यः ।
इति निश्चित्य पदाब्जं तव वन्दे मोक्षकामोऽहम् ॥ ३०० ॥

त्वामम्ब बालिशोऽहं त्वचमत्कारैर्गिरां गुम्भैः ।
अयथायथक्रमं हि स्तुवन्नपि प्राप्तजन्मसाफल्यः ॥ ३०१ ॥

इति अम्बिकात्रिशती समाप्ता

– Chant Stotra in Other Languages -300 Names of Ambika Trishati:

Ambika Trishati in Sanskrit – 300 Names of Goddess Ambika in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil