Bhakta Sharana Stotram In Marathi

॥ Bhakta Sharana Stotram in Marathi ॥

॥ भक्तशरणस्तोत्रम ॥
भक्त शरण स्तोत्रम

आर्द्रातःकरणस्त्वं यस्मादीशान भक्तवृन्देषु ।
आर्द्रोत्सवप्रियोऽतः श्रीकण्ठात्रास्ति नैव सन्देहः ॥ 1 ॥

द्रष्ट्रुंस्तवोत्सवस्य हि लोकान्पापात्तथा मृत्योः ।
मा भीरस्त्विति शंभो मध्ये तिर्यग्गतागतैर्ब्रूषे ॥ 2 ॥

प्रकरोति करुणयार्द्रान शंभुर्नम्रानिति प्रबोधाय ।
घर्मोऽयं किल लोकानार्द्रान कुरुतेऽद्य गौरीश ॥ 3 ॥

आर्द्रानटेशस्य मनोऽब्जवृत्तिरित्यर्थसंबोधकृते जनानाम ।
आर्द्रर्क्ष एवोत्सव माह शस्तं पुराणजालं तव पार्वतीश ॥ 4 ॥

बाणार्चने भगवतः परमेश्वरस्य
प्रीतिर्भवेन्निरुपमेति यतः पुराणैः
संबोध्यते परशिवस्य ततः करोत्ति
बाणार्चनं जगति भक्तियुता जनालिः ॥ 5 ॥

यथान्धकं त्वं विनिहत्य शीघ्रं
लोकस्य रक्षामकरोः कृपाब्धे ।
तथाज्ञतां मे बिनिवार्य शीघ्रं
विद्यां प्रयच्छाशु सभाधिनाथ ॥ 6 ॥

इति भक्तशरणस्तोत्रं संपूर्णम ॥

– Chant Stotra in Other Languages –

Lord Shiva Slokam » Bhakta Sharana Stotram Lyrics in English » Bengali » Gujarati »  Kannada » Malayalam » Telugu

See Also  Putrapraptikaram Mahalaxmi Stotram In Sanskrit