Sri Shankaracharya Varyam In Sanskrit
॥ Sri Shankaracharya Varyam Sanskrit Lyrics ॥ ॥ श्री शङ्कराचार्य स्तवः (श्रीशङ्कराचार्यवर्यं) ॥श्रीशङ्कराचार्यवर्यंसर्वलोकैकवन्द्यं भजे देशिकेन्द्रम् । धर्मप्रचारेऽतिदक्षंयोगिगोविन्दपादाप्तसन्यासदीक्षम् ।दुर्वादिगर्वापनोदंपद्मपादादिशिष्यालिसंसेव्यपादम् ॥ १ ॥ शङ्काद्रिदम्भोलिलीलंकिङ्कराशेषशिष्यालि सन्त्राणशीलम् ।बालार्कनीकाशचेलंबोधिताशेषवेदान्त गूढार्थजालम् ॥ २ ॥ रुद्राक्षमालाविभूषंचन्द्रमौलीश्वराराधनावाप्ततोषम् ।विद्राविताशेषदोषंभद्रपूगप्रदं भक्तलोकस्य नित्यम् ॥ ३ ॥ पापाटवीचित्रभानुंज्ञानदीपेन हार्दं तमो वारयन्तम् ।द्वैपायनप्रीतिभाजंसर्वतापापहामोघबोधप्रदं तम् ॥ ४ ॥ राजाधिराजाभिपूज्यंरम्यशृङ्गाद्रिवासैकलोलं यतीड्यम् ।राकेन्दुसङ्काशवक्त्रंरत्नगर्भेभवक्त्राङ्घ्रिपूजानुरक्तम् ॥ ५ ॥ श्रीभारतीतीर्थगीतंशङ्करार्यस्तवं यः पठेद्भक्तियुक्तः ।सोऽवाप्नुयात्सर्वमिष्टंशङ्कराचार्यवर्यप्रसादेन तूर्णम् … Read more