Nitya Parayana Slokani In Sanskrit

॥ Nitya Parayana slokam Sanskrit Lyrics ॥

प्रभात श्लोकः

कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ।
करमूले स्थिता गौरी प्रभाते करदर्शनम् ‖
[पाठभेदः – करमूले तु गोविन्दः प्रभाते करदर्शनम् ‖]

प्रभात भूमि श्लोकः

समुद्र वसने देवी पर्वत स्तन मण्डले ।
विष्णुपत्नि नमस्तुभ्यं, पादस्पर्शं क्षमस्वमे ‖

सूर्योदय श्लोकः

ब्रह्मस्वरूप मुदये मध्याह्नेतु महेश्वरम् ।
साहं ध्यायेत्सदा विष्णुं त्रिमूर्तिं च दिवाकरम् ‖

स्नान श्लोकः

गङ्गे च यमुने चैव गोदावरी सरस्वती
नर्मदे सिन्धु कावेरी जलेस्मिन् सन्निधिं कुरु ‖

नमस्कार श्लोकः

त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्वं मम देवदेव ‖

भस्म धारण श्लोकः

श्रीकरं च पवित्रं च शोक निवारणम् ।
लोके वशीकरं पुंसां भस्मं त्र्यैलोक्य पावनम् ‖

भोजन पूर्व श्लोकाः

ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणाहुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्म समाधिनः ‖

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापान समायुक्तः पचाम्यन्नं चतुर्विधम् ‖

अन्नपूर्णे सदा पूर्णे शङ्करप्राणवल्लभे ।
ज्ञानवैराग्य सिद्ध्यर्थं भिक्षां देहि च पार्वति ‖

त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये ।
गृहाण सुमुखो भूत्वा प्रसीद परमेश्वर ‖

भोजनानन्तर श्लोकः

अगस्त्यं वैनतेयं च शमीं च बडबालनम् ।
आहार परिणामार्थं स्मरामि च वृकोदरम् ‖

सन्ध्या दीप दर्शन श्लोकः

दीपज्योतिः परं ब्रह्म दीपज्योतिर्जनार्दनः ।
दीपो हरतु मे पापं दीपज्योतिर्नमोऽस्तुते ‖

शुभं करोति कल्याणं आरोग्यं धनसम्पदः ।
शत्रु-बुद्धि-विनाशाय दीपज्योतिर्नमोऽस्तुते ‖

निद्रा श्लोकः

रामं स्कन्धं हनुमन्तं वैनतेयं वृकोदरं ।
शयने यः स्मरेन्नित्यम् दुस्वप्न-स्तस्यनश्यति ‖

See Also  Atmarpana Stuti In English

अपराध क्षमापण स्तोत्रं

अपराध सहस्राणि, क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा, क्षमस्व परमेश्वर ‖

करचरण कृतं वा कर्म वाक्कायजं वा
श्रवण नयनजं वा मानसं वापराधम् ।
विहित मविहितं वा सर्वमेतत् क्षमस्व
शिव शिव करुणाब्धे श्री महादेव शम्भो ‖

कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै
नारायणायेति समर्पयामि ‖

देव स्तोत्राः

कार्य प्रारम्भ स्तोत्राः

शुक्लां बरधरं विष्णुं शशिवर्णम् चतुर्भुजं ।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये ‖

यस्यद्विरद वक्त्राद्याः पारिषद्याः परश्शतं ।
विघ्नं निघ्नन्तु सततं विष्वक्सेनं तमाश्रये ‖

गणेश स्तोत्रं

वक्रतुण्ड महाकाय सूर्यकोटि समप्रभः ।
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ‖

अगजानन पद्मार्कं गजानन महर्निशम् ।
अनेकदन्तं भक्ताना-मेकदन्त-मुपास्महे ‖

विष्णु स्तोत्रं

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगन सदृशं मेघवर्णं शुभाङ्गं ।
लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथं ‖

गायत्रि मन्त्रं

ॐ भूर्भुवस्सुवः – तथ्स’वितुर्वरे”ण्यं ।
भर्गो’ देवस्य’ धीमहि – धियो यो नः’ प्रचोदया”त् ‖

शिव स्तोत्रं

त्र्यं’बकं यजामहे सुगन्धिं पु’ष्टिवर्ध’नं ।
उर्वारुकमि’व बन्ध’नान्-मृत्यो’र्-मुक्षीय माऽमृता”त् ‖

वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं शशिधरं वन्दे पशूनां पतिम्‌ ।
वन्दे सूर्यशशाङ्क वह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम्‌ ‖

सुब्रह्मण्य स्तोत्रं

शक्तिहस्तं विरूपाक्षं शिखिवाहं षडाननं
दारुणं रिपुरोगघ्नं भावये कुक्कुट ध्वजं ।
स्कन्दं षण्मुखं देवं शिवतेजं चतुर्भुजं
कुमारं स्वामिनाधं तं कार्तिकेयं नमाम्यहं ‖
गुरु श्लोकः

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ‖

See Also  Sri Garuda Ashtottara Shatanamavali In Telugu – Garuda Deva Names

हनुम स्तोत्राः

मनोजवं मारुत तुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्टं ।
वातात्मजं वानरयूध मुख्यं श्रीरामदूतं शिरसा नमामि ‖

बुद्धिर्बलं यSऒधैर्यं निर्भयत्व-मरोगता ।
अजाड्यं वाक्पटुत्वं च हनुमत्-स्मरणाद्-भवेत् ‖

जयत्यति बलो रामो लक्ष्मणस्य महाबलः ।
राजा जयति सुग्रीवो राघवेणाभि पालितः ‖

दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्ट कर्मणः ।
हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ‖

श्रीराम स्तोत्रां

श्री राम राम रामेति रमे रामे मनोरमे
सहस्रनाम तत्तुल्यं राम नाम वरानने

श्री रामचन्द्रः श्रितपारिजातः समस्त कल्याण गुणाभिरामः ।
सीतामुखाम्भोरुहाचञ्चरीको निरन्तरं मङ्गलमातनोतु ‖

श्रीकृष्ण स्तोत्रं

मन्दारमूले मदनाभिरामं
बिम्बाधरापूरित वेणुनादं ।
गोगोप गोपीजन मध्यसंस्थं
गोपं भजे गोकुल पूर्णचन्द्रम् ‖

गरुड स्वामि स्तोत्रं

कुङ्कुमाङ्कितवर्णाय कुन्देन्दु धवलाय च ।
विष्णु वाह नमस्तुभ्यं पक्षिराजाय ते नमः ‖

दक्षिणामूर्ति स्तोत्रं

गुरवे सर्वलोकानां भिषजे भवरोगिणां ।
निधये सर्व विद्यानां श्री दक्षिणामूर्तये नम ‖

सरस्वती श्लोकः

सरस्वती नमस्तुभ्यं वरदे कामरूपिणी ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ‖

या कुन्देन्दु तुषार हार धवला, या शुभ्र वस्त्रावृता ।
या वीणा वरदण्ड मण्डित करा, या श्वेत पद्मासना ।
या ब्रह्माच्युत शङ्कर प्रभृतिभिर्-देवैः सदा पूजिता ।
सा माम् पातु सरस्वती भगवती निश्शेषजाड्यापहा ।

लक्ष्मी श्लोकः

लक्ष्मीं क्षीरसमुद्र राज तनयां श्रीरङ्ग धामेश्वरीं ।
दासीभूत समस्त देव वनितां लोकैक दीपाङ्कुराम् ।
श्रीमन्मन्ध कटाक्ष लब्ध विभव ब्रह्मेन्द्र गङ्गाधरां ।
त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ‖

सरस्वती स्तोत्रं

सरस्वति नमस्तुभ्यं वरदे कामरूपिणीम् ।
विद्यारम्भं करिष्यामि सिध्धिर्भवतु मे सदा ‖

दुर्गा देवी स्तोत्रं

सर्व स्वरूपे सर्वेशे सर्व शक्ति समन्विते ।
भयेभ्यस्ताहि नो देवि दुर्गादेवि नमोस्तुते ‖

See Also  Paramadvaitham In Sanskrit

या कुन्देन्दु तुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युत शङ्करप्रभृतिभिर्देवैस्सदा पूजिता
सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ।

त्रिपुरसुन्दरी स्तोत्रं

ओङ्कार पञ्जर शुकीं उपनिषदुद्यान केलि कलकण्ठीम् ।
आगम विपिन मयूरीं आर्यां अन्तर्विभावयेद्गौरीम् ‖

देवी श्लोकः

सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बके देवि नारायणि नमोस्तुते ‖

वेङ्कटेश्वर श्लोकः

श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्री वेङ्कट निवासाय श्रीनिवासाय मङ्गलम् ‖

दक्षिणामूर्ति श्लोकः

गुरवे सर्वलोकानां भिषजे भवरोगिणां ।
निधये सर्वविद्यानां दक्षिणामूर्तये नमः ‖

बौद्ध प्रार्थन

बुद्धं शरणं गच्छामि
धर्मं शरणं गच्छामि
सङ्घं शरणं गच्छामि

शान्ति मन्त्रं

असतोमा सद्गमया ।
तमसोमा ज्योतिर्गमया ।
मृत्योर्मा अमृतङ्गमया ।
ॐ शान्तिः शान्तिः शान्तिः

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःख भाग्भवेत् ‖

ॐ सह ना’ववतु – स नौ’ भुनक्तु – सह वीर्यं’ करवावहै ।
तेजस्विनावधी’तमस्तु मा वि’द्विषावहै” ‖
ॐ शांतिः शांतिः शान्तिः’ ‖

स्वस्ति मन्त्राः

स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः ।
गोब्राह्मणेभ्य-श्शुभमस्तु नित्यं
लोका-स्समस्ता-स्सुखिनो भवन्तु ‖

काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी ।
देशोयं क्षोभरहितो ब्राह्मणास्सन्तु निर्भयाः ‖

विशेष मन्त्राः

पञ्चाक्षरी मन्त्रं – ॐ नमश्शिवाय
अष्टाक्षरी मन्त्रं – ॐ नमो नारायणाय
द्वादशाक्षरी मन्त्रं – ॐ नमो भगवते वासुदेवाय

– Chant Stotra in Other Languages –

Nitya Parayana Slokani in English – Hindi – KannadaTeluguTamil