Sadashiva Pancharatnam In Marathi

॥ Sadashiva Pancharatnam in Marathi ॥

॥ सदाशिव पञ्चरत्नम ॥
सदाशिवपञ्चरत्नम ।

यत्सन्दर्शनमात्राद्भक्तिर्जाताप्यविद्धकर्णस्य ।
तत्सन्दर्शनमधुना कृत्वा नूनं कृतार्थोऽस्मि ॥ 1 ॥

योऽनिशमात्मन्येव ह्यात्मानं सन्दधद्वीथ्याम ।
भस्मच्छन्नानल इव जडाकृतिश्चरति तं नौमि ॥ 2 ॥

यस्य विलोकनमात्राच्चेतसि सञ्जायते शीघ्रम ।
वैराग्यमचलमखिलेष्वपि विषयेषु प्रणौमि तं यमिनम ॥ 3 ॥

पुरतो भवतु कृपाब्धिः पुरवैरिनिविष्टमानसः सोऽयम ।
परमशिवेन्द्रकराम्बुजसञ्जातो यः सदाशिवेन्द्रो मे ॥ 4 ॥

उन्मत्तवत्सञ्चरतीह शिष्यस्तवेति लोकस्य वचांसि श्रॄण्वन ।
खिद्यत्रुवाचास्य गुरुः पुराहो ह्युन्मत्तता मे न हि तादृशीति ॥ 5 ॥

पञ्चकमेतद्भक्त्या श्लोकानां विरचितं लोके ।
यः पठति सोऽपि लभते करुणां शीघ्रं सदाशिवेन्द्रस्य ॥ 6 ॥

इति सदाशिवपञ्चरत्नम संपूर्णम ॥

– Chant Stotra in Other Languages –

Sadashiva Pancharatnam in English – Marathi – Gujarati । BengaliKannadaMalayalamTelugu

See Also  Sanskrit Shlokas Telugu – Text List – Telugu Devotional Hymns