Shanmukha Dhyana Sloka In Sanskrit

॥ Shanmukha Dhyana Sloka Sanskrit Lyrics ॥

॥ षण्मुख ध्यान श्लोकाः ॥
षडाननं त्रिषण्णेत्रं विद्रुमाभं द्विपादकम् ।
खड्गाभयगदाशक्तिखेटं दक्षिणबाहुभिः ॥ १ ॥

वरपद्मधनुःशूलवज्रान् वामेन धारिणम् ।
वज्रप्रवालवैडूर्यप्रत्युप्तमकुटान्वितम् ॥ २ ॥

पीताम्बरविभूषाढ्यं दिव्यगन्धानुलेपनम् ।
रत्नाद्याभरणैर्युक्तं प्रसन्नवदनान्वितम् ॥ ३ ॥

मयूरेशसमासीनं सर्वाभरणभूषितम् ।
गुहं षोडशवेतानं षण्मुखं च विभावयेत् ॥ ४ ॥

– पूर्वमुख ध्यानम् –
वचद्भुवं शशाङ्काभं एकवक्त्रं त्रिलोचनम् ।
चतुर्भुजसमायुक्तं वराभयसमन्वितम् ॥
सव्ये चान्ये दण्डयुतं ऊरूहस्तं च वामके ।
रुद्राक्षमालाभरणं भस्मपुण्ड्राङ्कितं क्रमात् ॥
पुरश्चूडासमायुक्तं मौञ्जीकौपीनधारिणम् ।
अक्षमालासमायुक्तं पादुकाद्वयभूषितम् ॥
काषायवस्त्रसम्युक्तं वचद्भुवं विभावयेत् ॥

– दक्षिणमुख ध्यानम् –
जगद्भूतं भृङ्गवर्णं एकवक्त्रं वराभयम् ।
शक्तिशूलसमायुक्तं करण्डमकुटान्वितम् ।
मयुरेशसमासीनं भावये च विशेषतः ॥

– नैरृतिमुख ध्यानम् –
विश्वभुवं च रक्ताभं एकवक्त्रं त्रिलोचनम् ।
वराभयकरोपेतं खड्गखेटकसम्युतम् ।
मयूरवाहनारूढं भावयेत्सततं मुदा ॥

– पश्चिममुख ध्यानम् –
शुक्लवर्णं ब्रह्मभुवं एकवक्त्रं त्रिलोचनम् ।
वराभयसमायुक्तं घण्टानादसमन्वितम् ।
मयूरेशसमासीनं भावये च विशेषतः ॥

– उत्तरमुख ध्यानम् –
हेमवर्णं चाग्निभुवं त्रिनेत्रं चैकवक्त्रकम् ।
वराभयसमायुक्तं गदाध्वजसमन्वितम् ।
मयूरवाहनारूढं भावयेद्वह्निसम्भवम् ॥

– ईशानमुख ध्यानम् –
बृहद्भुवं च स्फटिकवर्णाभं चैकवक्त्रकम् ।
वराभयसमायुक्तं त्रिनेत्रं यज्ञसूत्रकम् ।
मयूरेशसमासीनं बृहद्भुवं विभावयेत् ॥

See Also  Shri Subramanya Shatkam In Sanskrit

ओं नमो भगवते सुब्रह्मण्याय ।

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Stotram » Shanmukha Dhyana Sloka in Lyrics in English » Kannada » Telugu » Tamil