Sri Batuka Bhairava Stavaraja In Sanskrit

॥ Sri Batuka Bhairava Stavaraja (Ashtottara Shatanama Stotram cha) Sanskrit Lyrics ॥

॥ श्री बटुकभैरव स्तवराजः (अष्टोत्तरशतनाम स्तोत्रम् च) ॥
कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।
शङ्करं परिपप्रच्छ पार्वती परमेश्वरम् ॥ १ ॥

श्रीपार्वत्युवाच ।
भगवन् सर्वधर्मज्ञ सर्वशास्त्रागमादिषु ।
आपदुद्धारणं मन्त्रं सर्वसिद्धिप्रदं नृणाम् ॥ २ ॥

सर्वेषां चैव भूतानां हितार्थं वाञ्छितं मया ।
विशेषतस्तु राज्ञां वै शान्तिपुष्टिप्रसाधनम् ॥ ३ ॥

अङ्गन्यास करन्यास बीजन्यास समन्वितम् ।
वक्तुमर्हसि देवेश मम हर्षविवर्धनम् ॥ ४ ॥

श्रीभगवानुवाच ।
शृणु देवि महामन्त्रमापदुद्धारहेतुकम् ।
सर्वदुःखप्रशमनं सर्वशत्रुनिबर्हणम् ॥ ५ ॥

अपस्मारादिरोगाणां ज्वरादीनां विशेषतः ।
नाशनं स्मृतिमात्रेण मन्त्रराजमिमं प्रिये ॥ ६ ॥

ग्रहराजभयानां च नाशनं सुखवर्धनम् ।
स्नेहाद्वक्ष्यामि ते मन्त्रं सर्वसारमिमं प्रिये ॥ ७ ॥

सर्वकामार्थदं मन्त्रं राज्यभोगप्रदं नृणाम् ।
प्रणवं पूर्वमुच्चार्य देवी प्रणवमुद्धरेत् ॥ ८ ॥

बटुकायेति वै पश्चादापदुद्धारणाय च ।
कुरु द्वयं ततः पश्चाद्बटुकाय पुनः क्षिपेत् ॥ ९ ॥

देवी प्रणवमुद्धृत्य मन्त्रराजमिमं प्रिये ।
मन्त्रोद्धारमिमं देवि त्रैलोक्यस्यापि दुर्लभम् ॥ १० ॥

अप्रकाश्यमिमं मन्त्रं सर्वशक्तिसमन्वितम् ।
स्मरणादेव मन्त्रस्य भूतप्रेतपिशाचकाः ॥ ११ ॥

विद्रवन्ति भयार्ता वै कालरुद्रादिव प्रजाः ।
पठेद्वा पाठयेद्वापि पूजयेद्वापि पुस्तकम् ॥ १२ ॥

नाग्निचौरभयं वापि ग्रहराजभयं तथा ।
न च मारीभयं तस्य सर्वत्र सुखवान् भवेत् ॥ १३ ॥

आयुरारोग्यमैश्वर्यं पुत्रपौत्रादिसम्पदः ।
भवन्ति सततं तस्य पुस्तकस्यापि पूजनात् ॥ १४ ॥

श्रीपार्वत्युवाच ।
य एष भैरवो नाम आपदुद्धारको मतः ।
त्वया च कथितो देव भैरवः कल्प उत्तमः ॥ १५ ॥

See Also  Shiva Ashtottara Sata Namavali In Telugu

तस्य नामसहस्राणि अयुतान्यर्बुदानि च ।
सारमुद्धृत्य तेषां वै नामाष्टशतकं वद ॥ १६ ॥

श्रीभगवानुवाच ।
यस्तु सङ्कीर्तयेदेतत् सर्वदुष्टनिबर्हणम् ।
सर्वान् कामानवाप्नोति साधकः सिद्धिमेव च ॥ १७ ॥

शृणु देवि प्रवक्ष्यामि भैरवस्य महात्मनः ।
आपदुद्धारकस्येह नामाष्टशतमुत्तमम् ॥ १८ ॥

सर्वपापहरं पुण्यं सर्वापद्विनिवारकम् ।
सर्वकामार्थदं देवि साधकानां सुखावहम् ॥ १९ ॥

देहाङ्गन्यसनं चैव पूर्वं कुर्यात् समाहितः ।
भैरवं मूर्ध्नि विन्यस्य ललाटे भीमदर्शनम् ॥ २० ॥

अक्ष्णोर्भूताश्रयं न्यस्य वदने तीक्ष्णदर्शनम् ।
क्षेत्रपं कर्णयोर्मध्ये क्षेत्रपालं हृदि न्यसेत् ॥ २१ ॥

क्षेत्राख्यं नाभिदेशे च कट्यां सर्वाघनाशनम् ।
त्रिनेत्रमूर्वोर्विन्यस्य जङ्घयो रक्तपाणिकम् ॥ २२ ॥

पादयोर्देवदेवेशं सर्वाङ्गे वटुकं न्यसेत् ।
एवं न्यासविधिं कृत्वा तदनन्तरमुत्तमम् ॥ २३ ॥

नामाष्टशतकस्यापि छन्दोऽनुष्टुबुदाहृतम् ।
बृहदारण्यको नाम ऋषिश्च परिकीर्तितः ॥ २४ ॥

देवता कथिता चेह सद्भिर्वटुकभैरवः ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ २५ ॥

(अष्टोत्तरशतनाम स्तोत्रम्)
ओं भैरवो भूतनाथश्च भूतात्मा भूतभावनः ।
क्षेत्रदः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्रियो विराट् ॥ २६ ॥

श्मशानवासी मांसाशी खर्पराशी मखान्तकृत् ।
रक्तपः प्राणपः सिद्धः सिद्धिदः सिद्धसेवितः ॥ २७ ॥

करालः कालशमनः कलाकाष्ठातनुः कविः ।
त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ॥ २८ ॥

शूलपाणिः खड्गपाणिः कङ्काली धूम्रलोचनः ।
अभीरुर्भैरवो भीरुर्भूतपो योगिनीपतिः ॥ २९ ॥

धनदो धनहारी च धनपः प्रतिभाववान् ।
नागहारो नागकेशो व्योमकेशः कपालभृत् ॥ ३० ॥

See Also  Pashupata Brahma Upanishat In Telugu

कालः कपालमाली च कमनीयः कलानिधिः ।
त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी च त्रिलोकपात् ॥ ३१ ॥

त्रिवृत्तनयनो डिम्भः शान्तः शान्तजनप्रियः ।
वटुको वटुकेशश्च खट्वाङ्गवरधारकः ॥ ३२ ॥

भूताध्यक्षः पशुपतिर्भिक्षुकः परिचारकः ।
धूर्तो दिगम्बरः सौरिर्हरिणः पाण्डुलोचनः ॥ ३३ ॥

प्रशान्तः शान्तिदः शुद्धः शङ्करप्रियबान्धवः ।
अष्टमूर्तिर्निधीशश्च ज्ञानचक्षुस्तमोमयः ॥ ३४ ॥

अष्टाधारः कलाधारः सर्पयुक्तः शशीशिखः ।
भूधरो भूधराधीशो भूपतिर्भूधरात्मकः ॥ ३५ ॥

कङ्कालधारी मुण्डी च व्यालयज्ञोपवीतवान् ।
जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा ॥ ३६ ॥

शुद्धनीलाञ्जनप्रख्यदेहो मुण्डविभूषितः ।
बलिभुक् बलिभूतात्मा कामी कामपराक्रमः ॥ ३७ ॥

सर्वापत्तारको दुर्गो दुष्टभूतनिषेवितः ।
कामी कलानिधिः कान्तः कामिनीवशकृद्वशी ।
सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुः प्रभाववान् ॥ ३८ ॥

(फलश्रुतिः)
अष्टोत्तरशतं नाम भैरवस्य महात्मनः ।
मया ते कथितं देवि रहस्यं सर्वकामिकम् ॥ ३९ ॥

य इदं पठति स्तोत्रम् नामाष्टशतमुत्तमम् ।
न तस्य दुरितं किञ्चन्न रोगेभ्यो भयं तथा ।
न शत्रुभ्यो भयं किञ्चित् प्राप्नोति मानवः क्वचित् ॥ ४० ॥

पातकानां भयं नैव पठेत् स्तोत्रमनन्यधीः ।
मारीभये राजभये तथा चौराग्निजे भये ॥ ४१ ॥

औत्पातिके महाघोरे यथा दुःस्वप्नदर्शने ।
बन्धने च तथा घोरे पठेत् स्तोत्रम् समाहितः ॥ ४२ ॥

सर्वे प्रशमनं यान्ति भयाद्भैरवकीर्तनात् ।
एकादशसहस्रं तु पुरश्चरणमुच्यते ॥ ४३ ॥

त्रिसन्ध्यं यः पठेद्देवि संवत्सरमतन्द्रितः ।
स सिद्धिं प्राप्नुयादिष्टां दुर्लभमपि मानुषः ॥ ४४ ॥

षण्मासान् भूमिकामस्तु स जप्त्वा लभते महीम् ।
राजा शत्रुविनाशाय जपेन्मासाष्टकं पुनः ॥ ४५ ॥

See Also  Sri Yugal Kishor Ashtakam In Malayalam

रात्रौ वारत्रयं चैव नाशयत्येव शात्रवान् ।
जपेन्मासत्रयं रात्रौ राजानं वशमानयेत् ॥ ४६ ॥

धनार्थी च सुतार्थी च दारार्थी यस्तु मानवः ।
पठेद्वारत्रयं यद्वा वारमेकं तथा निशि ॥ ४७ ॥

धनं पुत्रांस्तथा दारान् प्राप्नुयान्नात्र संशयः ।
रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥ ४८ ॥

भीतो भयात् प्रमुच्येत देवि सत्यं न संशयः ।
यान् यान् समी हते कामांस्तांस्तानाप्नोति निश्चितम् ।
अप्रकाश्यमिदं गुह्यं न देयं यस्य कस्यचित् ॥ ४९ ॥

सत्कुलीनाय शान्ताय ऋजवे दम्भवर्जिते ।
दद्यात् स्तोत्रमिदं पुण्यं सर्वकामफलप्रदम् ।
ध्यानम् वक्ष्यामि देवस्य यथा ध्यात्वा पठेन्नरः ॥ ५० ॥

ओं शुद्धस्फटिकसङ्काशं सहस्रादित्यवर्चसम् ।
अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ॥ ५१ ॥

भुजङ्गमेखलं देवमग्निवर्णशिरोरुहम् ।
दिगम्बरं कुमारीशं वटुकाख्यं महाबलम् ॥ ५२ ॥

खट्वाङ्गमसिपाशं च शूलं चैव तथा पुनः ।
डमरुं च कपालं च वरदं भुजगं तथा ॥ ५३ ॥

नीलजीमूतसङ्काशं नीलाञ्जनचयप्रभम् ।
दंष्ट्राकरालवदनं नूपुराङ्गदभूषितम् ॥ ५४ ॥

आत्मवर्णसमोपेतसारमेयसमन्वितम् ।
ध्यात्वा जपेत् सुसंहृष्टः सर्वान् कामानवाप्नुयात् ॥ ५५ ॥

एतच्छ्रुत्वा ततो देवी नामाष्टशतमुत्तमम् ।
भैरवाय प्रहृष्टाभूत् स्वयं चैव महेश्वरी ॥ ५६ ॥

इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरव स्तवराजः समाप्तः ॥

– Chant Stotra in Other Languages –

Sri Shiva Slokam » Sri Batuka Bhairava Stavaraja (Ashtottara Shatanama Stotram cha) Lyrics in English » Kannada » Telugu » Tamil