Sri Dananirvartanakundashtakam In Sanskrit

॥ Sri Dananirvartanakundashtakam Sanskrit Lyrics ॥

॥ श्रीदाननिर्वर्तनकुण्डाष्टकम् ॥

स्वदयितगिरिकच्छे गव्यदानार्थमुच्चैः
कपटकलहकेलिं कुर्वतोर्नव्ययूनोः ।
निजजनकृतदर्पैः फुल्लतोरीक्षकेऽस्मि-
न्सरसि भवतु वासो दाननिर्वर्तने नः ॥ १ ॥

निभृतमजनि यस्माद्दाननिर्वृत्तिरस्मि-
नत इदमभिधानं प्राप यत्तत्सभायाम् ।
रसविमुखनिगूढे तत्र तज्ञैकवेद्ये
सरसि भवतु वासो दाननिर्वर्तने नः ॥ २ ॥

अभिनवमधुगन्धोन्मत्तरोलम्बसङ्घ
ध्वनिललितसरोजव्रातसौरभ्यशीते ।
नवमधुरखगालीक्ष्वेलिसञ्चारकाम्रे
सरसि भवतु वासो दाननिर्वर्तने नः ॥ ३ ॥

हिमकुसुमसुवासस्फारपानीयपूरे
रसपरिलसदालीशालिनोर्नव्ययूनोः ।
अतुलसलिलखेलालब्धसौभाग्यफुल्ले
सरसि भवतु वासो दाननिर्वर्तने नः ॥ ४ ॥

दरविकसितपुष्पैर्वासितान्तर्दिगन्तः
खगमधुपनिनादैर्मोदितप्राणिजातः ।
परितौपरि यस्य क्ष्मारुहा भान्ति तस्मि-
न्सरसि भवतु वासो दाननिर्वर्तने नः ॥ ५ ॥

निजनिजनवकुञ्जे गुञ्जिरोलम्बपुञ्जे
प्रणयिनवसखीभिः संप्रवेश्य प्रियौ तौ ।
निरुपमनवरङ्गस्तन्यते यत्र तस्मि-
न्सरसि भवतु वासो दाननिर्वर्तने नः ॥ ६ ॥

स्फटिकसममतुच्छं यस्य पानीयमच्छं
खगनरपशुगोभिः सम्पिबन्तीभिरुच्चैः ।
निजनिजगुणवृद्धिर्लभ्यते द्रागमुस्मि-
न्सरसि भवतु वासो दाननिर्वर्तने नः ॥ ७ ॥

सुरभिमधुरशीतं यत्पयः प्रत्यहं ताः
सखिगणपरिवीतो व्याहरन्पाययन्गाः ।
स्वयमथ पिबति श्रीगोपचन्द्रोऽपि तस्मि-
न्सरसि भवतु वासो दाननिर्वर्तने नः ॥ ८ ॥

पठति सुमतिरेतद्दाननिर्वर्तनाख्यं
प्रथितमहिमकुण्डस्याष्टकं यो यतात्मा ।
स च नियतनिवासं सुष्ठु संलभ्य काले
कलयति किल राधाकृष्णयोर्दानलीलाम् ॥ ९ ॥

See Also  Lord Shiva Ashtakam 1 In Odia

इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां
श्रीदाननिर्वर्तनकुण्डाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Dananirvartanakundashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil