Sri Mrityunjaya Stotram In Sanskrit

॥ Mrityunjaya Stotram in Sanskrit ॥

॥ श्री मृत्युञ्जय स्तोत्रम् ॥
नन्दिकेश्वर उवाच –
कैलासस्योत्तरे शृङ्गे शुद्धस्फटिकसन्निभे ।
तमोगुणविहीने तु जरामृत्युविवर्जिते ॥ १ ॥

सर्वतीर्थास्पदाधारे सर्वज्ञानकृतालये ।
कृताञ्जलि पुटो ब्रह्मा ध्यानशीलस्सदाशिवम् ॥ २ ॥

पप्रच्छ प्रणतो भूत्वा जानुभ्यामवनिं गतः ।
सर्वार्थसम्पदाधारो ब्रह्मा लोकपितामहः ॥ ३ ॥

ब्रह्मोवाच –
केनोपायेन देवेश चिरायुर्लोमशोऽभवत् ।
तन्मे ब्रूहि महेशान लोकानां हितकाम्यया ॥ ४ ॥

श्रीसदाशिव उवाच –
शृणु ब्रह्मन्प्रवक्ष्यामि चिरायुर्मुनिसत्तमः ।
सञ्जातो कर्मणा येन व्याधिमृत्युविवर्जितः ॥ ५ ॥

तस्मिन्नेकार्णवे घोरे सलिलौघपरिप्लुते ।
कृतान्तभयनाशाय स्तुतो मृत्युञ्जयः शिवः ॥ ६ ॥

तस्य सङ्कीर्तनान्नित्यं मर्त्यो मृत्युविवर्जितः ।
त्वमेव कीर्तयन् ब्रह्मन्मृत्यु जेतुं न संशयः ॥ ७ ॥

लोमश उवाच –
ओं देवादिदेव देवेश सर्वप्राणभृतां वर ।
प्राणिनामपि नाथस्त्वं मृत्युञ्जय नमोऽस्तु ते ॥ ८ ॥

देहिनां जीवभूतोऽसि जीवो जीवस्य कारणम् ।
जगतां रक्षकस्त्वं वै मृत्युञ्जय नमोऽस्तु ते ॥ ९ ॥

हेमाद्रिशिखराकार सुधावीचिमनोहर ।
पुण्डरीक परंज्योतिर्मुत्युञ्जय नमोऽस्तु ते ॥ १० ॥

ध्यानाधार महाज्ञान सर्वज्ञानैककारण ।
परित्रातासि लोकानां मृत्युञ्जय नमोऽस्तु ते ॥ ११ ॥

See Also  1000 Names Of Sri Rudra – Sahasranamavali From Bhringiriti Samhita In Odia

निहता येन कालेन सदेवासुरमानुषाः ।
गन्धर्वाप्सरसश्चैव सिद्धविद्याधरास्तथा ॥ १२ ॥

साध्याश्च वसवो रुद्रास्तथाश्विनिसुतावुभौ ।
मरुतश्च दिशो नागाः स्थावरा जङ्गमास्तथा ॥ १३ ॥

ये ध्यायन्ति परां मूर्तिं पूजयन्त्यमराधिप ।
न ते मृत्युवशं यान्ति मृत्युञ्जय नमोऽस्तु ते ॥ १४ ॥

त्वमोङ्कारोऽसि वेदानां देवानां च सदाशिवः ।
आधारशक्तिश्शक्तीनां मृत्युञ्जय नमोऽस्तु ते ॥ १५ ॥

स्थावरे जङ्गमे वापि यावत्तिष्ठति मेदिनी ।
जीवत्वित्याह लोकोऽयं मृत्युञ्जय नमोऽस्तु ते ॥ १६ ॥

सोमसूर्याग्निमध्यस्थ व्योमव्यापिन् सदाशिवः ।
कालत्रय महाकाल मृत्युञ्जय नमोऽस्तु ते ॥ १७ ॥

प्रबुद्धे चाप्रबुद्धे च त्वमेव सृजसे जगत् ।
सृष्टिरूपेण देवेश मृत्युञ्जय नमोऽस्तु ते ॥ १८ ॥

व्योम्नि त्वं व्योमरूपोऽसि तेजस्सर्वत्र तेजसि ।
प्राणिनां ज्ञानरूपोऽसि मृत्युञ्जय नमोऽस्तु ते ॥ १९ ॥

जगज्जीवो जगत्प्राणः स्रष्टा त्वं जगतः प्रभुः ।
कारणं सर्वतीर्थानां मृत्युञ्जय नमोऽस्तु ते ॥ २० ॥

नेता त्वमिन्द्रियाणां च सर्वज्ञानप्रबोधकः ।
सांख्ययोगश्च हंसश्च मृत्युञ्जय नमोऽस्तु ते ॥ २१ ॥

रूपातीतस्सुरूपश्च पिण्डस्था पदमेव च ।
चतुर्विधफलाधार मृत्युञ्जय नमोऽस्तु ते ॥ २२ ॥

रेचके वह्निरूपोऽसि सोमरूपोऽसि पूरके ।
कुंभके शिवरूपोऽसि मृत्युञ्जय नमोऽस्तु ते ॥ २३ ॥

See Also  Sri Shiva Panchakshara Nakshatramala In Telugu

क्षयं करोति पापानां पुण्यानामपि वर्धसम् ।
हेतुस्त्वं श्रेयसां नित्यं मृत्युञ्जय नमोऽस्तु ते ॥ २४ ॥

सर्वमायाकलातीत सर्वेन्द्रियपरा वर ।
सर्वेन्द्रियकलाधीश मृत्युञ्जय नमोऽस्तु ते ॥ २५ ॥

रूपं गन्धो रसः स्पर्शः शब्दः संस्कार एव च ।
त्वत्तः प्रकाश एतेषां मृत्युञ्जय नमोऽस्तु ते ॥ २६ ॥

चतुर्विधानां सृष्टीनां हेतुस्त्वं कारणेश्वर ।
भावाभावपरिच्छिन्न मृत्युञ्जय नमोऽस्तु ते ॥ २७ ॥

त्वमेको निष्कलो लोके सकलं भुवनत्रयम् ।
अतिसूक्ष्मातिरूपस्त्वं मृत्युञ्जय नमोऽस्तु ते ॥ २८ ॥

त्वं प्रबोधस्त्वमाधारस्त्वद्बीजं भुवनत्रयम् ।
सत्वं रजस्तमस्त्वं हि मृत्युञ्जय नमोऽस्तु ते ॥ २९ ॥

त्वं सोमस्त्वं दिनेशश्च त्वमात्मा प्रकृतेः परः ।
अष्टत्रिंशत्कलानाथ मृत्युञ्जय नमोऽस्तु ते ॥ ३० ॥

सर्वेन्द्रियाणामाधारः सर्वभूतगणाश्रयः ।
सर्वज्ञानमयस्सत्त्वं मृत्युञ्जय नमोऽस्तु ते ॥ ३१ ॥

त्वमात्मा सर्वभूतानां गुणानां त्वमधीश्वरः ।
सर्वानन्दमयाधार मृत्युञ्जय नमोऽस्तु ते ॥ ३२ ॥

त्वं यज्ञस्सर्वयज्ञानां त्वं बुद्धिर्बोधलक्षणा ।
शब्दब्रह्म त्वमोङ्कारो मृत्युञ्जय नमोऽस्तु ते ॥ ३३ ॥

श्रीसदाशिव उवाच –
एवं सङ्कीर्तयेद्यस्तु शुचिस्तद्गतमानसः ।
भक्त्या शृणोति यो ब्रह्मन्न स मृत्युवशो भवेत् ॥ ३४ ॥

न च मृत्युभयं तस्य प्राप्तकालं च लङ्घयेत् ।
अपमृत्युभयं तस्य प्रणश्यति न संशयः ॥ ३५ ॥

See Also  Sri Shiva Dvadasha Nama Stotram In Tamil

व्याधयो नोपपद्यन्ते नोपसर्गभयं भवेत् ।
प्रत्यासन्नान्तरे काले शतैकावर्तने कृते ॥ ३६ ॥

मृत्युर्न जायते तस्य रोगान्मुच्यति निश्चितम् ।
पञ्चम्यां वा दशम्यां वा पौर्णमास्यामथापि वा ॥ ३७ ॥

शतमावर्तयेद्यस्तु शतवर्षं स जीवति ।
तेजस्वी बलसम्पन्नो लभते श्रियमुत्तमाम् ॥ ३८ ॥

त्रिविधं नाशयेत्पापं मनोवाक्कायसंभवम् ।
अभिचाराणि कर्माणि कर्माण्याथर्वणानि च ॥ ३९ ॥

इदं रहस्यं परमं देवदेवस्य शूलिनः ।
दुःस्वप्ननाशनं पुण्यं सर्वविघ्नविनाशनम् ॥ ४० ॥

इति श्रीनृसिंहपुराणे शिवब्रह्मसंवादे श्रीमृत्युञ्जयस्तोत्रं संपूर्णम् ।

– Chant Stotra in Other Languages –

Sri Mrityunjaya Stotram in Sanskrit – English –  KannadaTeluguTamil