Sri Parasurama Ashtakam 2 In Sanskrit

॥ Sri Parasurama Ashtakam 2 Sanskrit Lyrics ॥

॥ श्रीपरशुरामाष्टकम् २ ॥
आचार्य राधेश्याम अवस्थी “रसेन्दु” कृतम्

श्रीमद्भगवत्परशुरामाय नमः ।

विप्रवंशावतंशं सदा नौम्यहं
रेणुकानन्दनं जामदग्ने प्रभो ।
द्रोहक्रोधाग्नि वैकष्टतां लोपकं
रेणुकानन्दनं वन्दते सर्वदा ॥ १ ॥

क्षत्रदुष्टान्तकं वै करस्यं धनुं
राजतेयस्य हस्ते कुठारं प्रभो ।
फुल्लरक्ताब्ज नेत्रं सदा भास्वरं
रेणुकानन्दनं वन्दते सर्वदा ॥ २ ॥

तेजसं शुभ्रदेहं विशालौ करौ
श्वेतयज्ञोपवीतं सदाधारकम् ।
दिव्यभाले त्रिपुण्ड्रं जटाजूवरं
रेणुकानन्दनं वन्दते सर्वदा ॥ ३ ॥

भक्तपालं कृपालं कृपासागरं
रौद्ररूपं करालं सुरैः वन्दितैः ।
जन्मतो ब्रह्मचारी व्रतीधारकः
रेणुकानन्दनं वन्दते सर्वदा ॥ ४ ॥

ज्ञानविज्ञानशक्तिश्च भण्डारकः
वेदयुद्धेषु विद्यासु पारङ्गतः ।
वासमाहेन्द्रशैले शिवाराधकः
रेणुकानन्दनं वन्दते सर्वदा ॥ ५ ॥

ज्ञानदाता विधाता सदा भूतले
पापसन्तापकष्टादि संहारकः ।
दिव्यभव्यात्मकं पूर्णं योगीश्वरं
रेणुकानन्दनं वन्दते सर्वदा ॥ ६ ॥

आर्तदुःखादिकानां सदारक्षकः
भीतदैत्यादिकानां सदा नाशकः ।
त्रीन्गुणः सप्तकृत्वातुभूर्दत्तकः
रेणुकानन्दनं वन्दते सर्वदा ॥ ७ ॥

शीलकारुण्यरूपं दयासागरं
भक्तिदं कीर्तिदं शान्तिदं मोक्षदम् ।
विश्वमायापरं भक्तसंरक्षकं
रेणुकानन्दनं वन्दते सर्वदा ॥ ८ ॥

भार्गवस्याष्टकं नित्यं प्रातः सायं पठेन्नरः ।
तस्य सर्वभयं नास्ति भार्गवस्य प्रसादतः ॥

See Also  Sri Batuka Bhairava Stavaraja In Tamil

इति आचार्य राधेश्याम अवस्थी “रसेन्दु” कृतम्
श्रीपरशुरामाष्टकं सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Sri Vishnu Slokam » Sri Parasurama Ashtakam 2 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil