Sri Radhakunda Ashtakam In Sanskrit

॥ Sri Radhakunda Ashtakam Sanskrit Lyrics ॥

श्रीराधाकुण्डाष्टकम्

वृषभदनुजनाशात् नर्मधर्मोक्तिरङ्गैः
निखिलनिजतनूभिर्यत्स्वहस्तेन पूर्णम् ।
प्रकटितमपि वृन्दारण्यराज्ञा प्रमोदैः
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ १ ॥

व्रजभुवि मुरशत्रोः प्रेयसीनां निकामैः
असुलभमपि तूर्णं प्रेमकल्पद्रुमं तम् ।
जनयति हृदि भूमौ स्नातुरुच्चैः प्रियं यत्
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ २ ॥

अघरिपुरपि यत्नादत्र देव्याः प्रसाद-
प्रसरकृतकटाक्षप्राप्तिकामः प्रकामम् ।
अनुसरति यदुच्चैः स्नानसेवानुबन्धैः
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ३ ॥

व्रजभुवनसुधांशोः प्रेमभूमिर्निकामं
व्रजमधुरकिशोरीमौलिरत्नप्रियेव ।
परिचितमपि नाम्ना यच्च तेनैव तस्याः
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ४ ॥

अपि जन इह कश्चिद्यस्य सेवाप्रसादैः
प्रणयसुरलता स्यात्तस्य गोष्ठेन्द्रसूनोः ।
सपदि किल मदीशा दास्यपुष्पप्रशस्या
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ५ ॥

ततमधुरनिकुञ्जाः क्लृप्तनामान उच्चैः
निजपरिजनवर्गैः संविभज्याश्रितास्तैः ।
मधुकररुतरम्या यस्य राजन्ति काम्याः
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ६ ॥

ततभुवि वरवेद्यं यस्य नर्मातिहृद्यं
मधुरमधुरवार्तां गोष्ठचन्द्रस्य भङ्ग्या ।
प्रथयितुमित ईशप्राणसख्यालिभिः सा
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ७ ॥

अनुदिनमतिरङ्गैः प्रेममत्तालिसङ्घैः
वरसरसिजगन्धैः हारिवारिप्रपूर्णे ।
विहरत इह यस्मन् दम्पती तौ प्रमत्तौ
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ८ ॥

इति राधाकुण्डाष्टकं समाप्तम् ।

– Chant Stotra in Other Languages –

Sri Radha Mantras » Sri Radhakunda Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Vasavi Kanyaka Parameshvari Ashtakam In Gujarati