Sri Samarth Atharvashirsha In Sanskrit

॥Sri Samarth Atharvashirsha Sanskrit Lyrics ॥

॥ श्रीसमर्थाथर्वशीर्षम् ॥

अथ श्री अक्कलकोटीस्वामीसमर्थाथर्वशीर्षम् ।
अथ ध्यानम् ।
ॐ ध्यायेच्छान्तं प्रशान्तं कमलनयनं योगिराजं दयालुं
स्वामी मुद्रासनस्थं विमलतनुयुतं मन्दहास्यं कृपालम् ।
दृष्टिक्षेपोहि यस्य हरति स्मरणात् पापजालौघ सङ्घं
भक्तानां स्मर्तृगामी जयति सविदधत् केवलानन्द कन्दम् ॥ १ ॥

। हरिः ॐ ।
नमः श्रीस्वामीसमर्थाय परमहंसाय दिव्यरूपधारिणे ।
नमः श्रीपाद श्रियावल्लभावतारधारिणे ।
नमः श्रीमन्नरसिंह सरस्वत्यावतारधारिणे ।
नमः कर्दलीवनवासिने । नमोऽवधूताय स्वेच्छाचारिणे ।
नमः कैवल्यानन्दसच्चिदानन्दस्वरूपिणे ॥ २ ॥

त्वं परं तत्त्वमयः । तत्त्वमस्यादि महावाक्यैः सम्बोधितः ।
त्वं पृथिव्यादि पञ्चमहाभुतः स्वरूपः ।
त्वं अष्टधा प्रकृति पुरूषात्मकः । त्वं चराचरः साक्षीः ।
त्वं ज्ञप्तिमयस्त्वं पूर्णानन्दमयः ।
त्वं मूलाधारादि षट्चक्रस्थित दैवतात्मकः ॥ ३ ॥

सर्वं जगदेतत्त्वत्तो जायते । त्वयि विद्यते । त्वयि लीयते ।
त्वामहं ध्यायामि नित्यम् ॥ ४ ॥

पाहिमां त्वम् । प्राच्यां पाहि । प्रतीच्यां पाहि । दक्षिणातात् पाहि ।
उत्तरस्यां पाहि । उर्ध्वात् पाहि । अधस्तात् पाहि । सर्वतः पाहि पाहि माम् ॥

भयेभ्यःस्त्राहि माम् । संसारमहाभयात् मामुद्धर ।
शरणागतोऽस्मि त्वाम् ॥ ५ ॥

See Also  Ashtottara Shatanamavali Of Sri Kartikeya In Sanskrit

आजानुबाहुं गौराङ्गं दिव्यकौपिनधारिणम् ।
तुलसीबिल्वपुष्पादि गन्धद्रव्यैः सुपूजितम् ।
भक्तोद्धारैक ब्रीदं च स्मरणे भक्ततारकम् ।
ध्यायामि हृदयाकाशे सच्चिदानन्दरूपिणम् ॥ ६ ॥

“स्वामी समर्थ” इति महामन्त्रः । महाभय विनाशकः ।
नादानुसन्धाने स्वामीति जप्त्वा पापजालं प्रणश्यति ।
स्वस्वरूपानुसन्धाने स्वामीति जप्त्वा सच्चिदानन्दं प्राप्नोति ।
आत्मसाक्षात्कारो भवति ॥ ७ ॥

नमाम्यहं दिव्यरूपं जगदानन्ददायकम् ।
महायोगेश्वरं वन्दे ब्रह्माविष्णुमहेश्वरम् ।
शक्तिं गणपतिं चैव सर्वदेवमयं भजेत् ।
कृपालु भक्तवरदं वन्देऽहं सर्वसाक्षिणम् ॥ ८ ॥

दत्तात्रेयाय विद्महे । परमहंसाय धीमहि । तन्नो स्वामी प्रचोदयात् ॥

ॐ शान्तिः शान्तिः शान्तिः ।
सुशान्तिर्भवतु ॥

अवधूतचिन्तन श्रीगुरूदेवदत्त स्वामीसमर्थार्पणमस्तु ।
सर्वेऽपि सुखिनः सन्तु सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखमाप्नुयात् ॥

इति श्रीस्वामीसमर्थाथर्वशीर्षं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Samarth Atharvashirsha Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil